Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 54 / सर्गः ५४

Slōka 1 / श्लोक १

रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् ।
उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ।। ७.५४.१ ॥

Slōka 2 / श्लोक २

अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः ।
महान्नृगस्य राजर्षेर्यमदण्ड इवापरः ।। ७.५४.२ ॥

Slōka 3 / श्लोक ३

श्रुत्वा तु पापसंयुक्तमात्मानं पुरषर्षभ ।
किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ ।। ७.५४.३ ॥

Slōka 4 / श्लोक ४

लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् ।
शृणु सौम्य यथा पूर्वं स राजा शापविक्षतः ।। ७.५४.४ ॥

Slōka 5 / श्लोक ५

अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा ।
आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः ।। ७.५४.५ ॥

Slōka 6 / श्लोक ६

तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा ।
दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः ।। ७.५४.६ ॥

Slōka 7 / श्लोक ७

नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् ।
गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ।। ७.५४.७ ॥

Slōka 8 / श्लोक ८

कुमारो ऽयं वसुर्नाम स देवो ऽद्याभिषिच्यताम् ।
श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम ।यत्राहं सङ्क्षयिष्यामि शापं ब्राह्मणनिःसृतम् ।। ७.५४.८ ॥

Slōka 9 / श्लोक ९

वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा ।
ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः ।। ७.५४.९ ॥

Slōka 10 / श्लोक १०

फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः ।
विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः ।। ७.५४.१० ॥

Slōka 11 / श्लोक ११

क्रियतां रमणीयं च श्वभ्राणां सर्वतोदिशम् ।
सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः ।। ७.५४.११ ॥

Slōka 12 / श्लोक १२

पुष्पाणि च सुगन्धीनि क्रियतां तेषु नित्यशः ।
परिवार्य यथा मे स्युरध्यर्धं योजनं तथा ।। ७.५४.१२ ॥

Slōka 13 / श्लोक १३

एवं कृत्वा विधानं स सन्दिदेश वसं तदा ।
धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय ।। ७.५४.१३ ॥

Slōka 14 / श्लोक १४

प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः ।
नरश्रेष्ठ सरोषाभ्यामपराधे ऽपि तादृशे ।। ७.५४.१४ ॥

Slōka 15 / श्लोक १५

मा कृथास्तनुसन्तापं मत्कृते ऽपि नरर्षभ ।
कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः ।। ७.५४.१५ ॥

Slōka 16 / श्लोक १६

प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति ।
लब्धव्यान्येव लभते दुःखानि च सुखानि च ।। ७.५४.१६ ॥

Slōka 17 / श्लोक १७

पूर्वे जात्यन्तरे वत्स मा विषादं कुरुष्व ह ।
। ७.५४.१७ ॥

Slōka 18 / श्लोक १८

एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः ।
श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ ।। ७.५४.१८ ॥

Slōka 19 / श्लोक १९

एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् ।
सम्पादयामास तदा महात्मा शापं द्विजाभ्यां हि रुषा विमुक्तम् ।। ७.५४.१९ ।।