उत्तरकाण्डम्डम्
Chapter 28 / सर्गः २८
Slōka 1 / श्लोक १
सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम् ।
स्वसैन्यं विद्रुतं चापि लक्षयित्वा ऽर्दितं सुरैः ।। ७.२८.१ ॥
Slōka 2 / श्लोक २
ततः स बलवान्क्रुद्धो रावणस्य सुतस्तदा ।
निवर्त्य राक्षसान्सर्वान्मेघनादो व्यवस्थितः ।। ७.२८.२ ॥
Slōka 3 / श्लोक ३
सुरथेनाग्निवर्णेन कामगेन महारथः ।
अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन् ।। ७.२८.३ ॥
Slōka 4 / श्लोक ४
ततः प्रविशतस्तस्य विविधायुधधारिणः ।
विदुद्रुवुर्दिशः सर्वा दर्शनादेव देवताः ।। ७.२८.४ ॥
Slōka 5 / श्लोक ५
न बभूव तदा कश्चिद्युयुत्सोरस्य सम्मुखे ।
सर्वानाविद्ध्य वित्रस्तांस्ततः शक्रो ऽब्रवीत्सुरान् ।। ७.२८.५ ॥
Slōka 6 / श्लोक ६
न भेतव्यं न गन्तव्यं निवर्तध्वं रणे सुराः ।
एष गच्छति पुत्रो मे युद्धार्थमपराजितः ।। ७.२८.६ ॥
Slōka 7 / श्लोक ७
ततः शक्रसुतो देवो जयन्त इति विश्रुतः ।
रथेनाद्भुतकल्पेन सङ्ग्रामे सो ऽभ्यवर्तत ।। ७.२८.७ ॥
Slōka 8 / श्लोक ८
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम् ।
रावणस्य सुतं युद्धे समासाद्य प्रजघ्निरे ।। ७.२८.८ ॥
Slōka 9 / श्लोक ९
तेषां युद्धं समभवत्सदृशं देवरक्षसाम् ।
महेन्द्रस्य च पुत्रस्य राक्षसेन्द्रसुतस्य च ।। ७.२८.९ ॥
Slōka 10 / श्लोक १०
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः ।
सारथौ पातयामास शरान्कनकभूषणान् ।। ७.२८.१० ॥
Slōka 11 / श्लोक ११
शचीसुतश्चापि तथा जयन्तस्तस्य सारथिम् ।
तं चापि रावणिः क्रुद्धः समन्तात्प्रत्यविध्यत ।। ७.२८.११ ॥
Slōka 12 / श्लोक १२
स हि क्रोधसमाविष्टो बली विस्फारितेक्षणः ।
रावणिः शक्रतनयं शरवर्षैरवाकिरत् ।। ७.२८.१२ ॥
Slōka 13 / श्लोक १३
ततो नानाप्रहरणाञ्छितधारान्सहस्रशः ।
पातयामास सङ्क्रुद्धः सुरसैन्येषु रावणिः ।। ७.२८.१३ ॥
Slōka 14 / श्लोक १४
शतघ्नीमुसलप्रासगदाखड्गपरश्वधान् ।
महान्ति गिरिशृङ्गाणि पातयामास रावणिः ।। ७.२८.१४ ॥
Slōka 15 / श्लोक १५
ततः प्रव्यथिता लोकाः सञ्जज्ञे च तमो ऽभवत् ।
तस्य रावणपुत्रस्य शत्रुसैन्यानि निघ्नतः ।। ७.२८.१५ ॥
Slōka 16 / श्लोक १६
ततस्तद्दैवतबलं समन्तात्तं शचीसुतम् ।
बहुप्रकारमस्वस्थमभवच्छरपीडितम् ।। ७.२८.१६ ॥
Slōka 17 / श्लोक १७
नाभ्यजानन्त चान्योन्यं रक्षो वा देवता ऽथवा ।
तत्र तत्र विपर्यस्तं समन्तात्परिधावति ।। ७.२८.१७ ॥
Slōka 18 / श्लोक १८
देवा देवान्निजघ्नुस्ते राक्षसान्राक्षसास्तथा ।
सम्मूढास्तमसाच्छन्ना व्यद्रवन्नपरे तथा ।। ७.२८.१८ ॥
Slōka 19 / श्लोक १९
एतस्मिन्नन्तरे वीरः पुलोमा नाम वीर्यवान् ।
दैत्येन्द्रस्तेन सङ्गृह्य शचीपुत्रो ऽपवाहितः ।। ७.२८.१९ ॥
Slōka 20 / श्लोक २०
सङ्गृह्य तं तु दौहित्रं प्रविष्टः सागरं तदा ।
आर्यकः स हि तस्यासीत्पुलोमा येन सा शची ।। ७.२८.२० ॥
Slōka 21 / श्लोक २१
ज्ञात्वा प्रणाशं तु तदा जयन्तस्याथ देवताः ।
अप्रहृष्टास्ततः सर्वा व्यथिताः सम्प्रदुद्रुवुः ।। ७.२८.२१ ॥
Slōka 22 / श्लोक २२
रावणिस्त्वथ सङ्क्रुद्धो बलैः परिवृतः स्वकैः ।
अभ्यधावत देवांस्तान्मुमोच च महास्वनम् ।। ७.२८.२२ ॥
Slōka 23 / श्लोक २३
दृष्ट्वा प्रणाशं पुत्रस्य दैवतेषु च विद्रुतम् ।
मातलिं चाह देवेशो रथः समुपनीयताम् ।। ७.२८.२३ ॥
Slōka 24 / श्लोक २४
स तु दिव्यो महाभीमः सज्ज एव महारथः ।
उपस्थितो मातलिना वाह्यमानो महाजवः ।। ७.२८.२४ ॥
Slōka 25 / श्लोक २५
ततो मेघा रथे तस्मिंस्तडित्त्वन्तो महाबलाः ।
अग्रतो वायुचपला नेदुः परमनिःस्वनाः ।। ७.२८.२५ ॥
Slōka 26 / श्लोक २६
नानावाद्यानि वाद्यन्त गन्धर्वाश्च समाहिताः ।
ननृतुश्चाप्सरःसङ्घा निर्याते त्रिदशेश्वरे ।। ७.२८.२६ ॥
Slōka 27 / श्लोक २७
रुद्रैर्वसुभिरादित्यैस्साध्यैश्च समरुद्गणैः ।
वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः ।। ७.२८.२७ ॥
Slōka 28 / श्लोक २८
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ ।
भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे ।। ७.२८.२८ ॥
Slōka 29 / श्लोक २९
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान् ।
आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा ।। ७.२८.२९ ॥
Slōka 30 / श्लोक ३०
पन्नगैः सुमहाकार्यैर्वेष्टितं रोमहर्षणैः ।
तेषां निःश्वासवातेन प्रदीप्तमिव संयुगे ।। ७.२८.३० ॥
Slōka 31 / श्लोक ३१
दैत्यैर्निशाचरैश्चैव स रथः परिवारितः ।
समराभिमुखो दैत्यो महेन्द्रं सो ऽभ्यवर्तत ।। ७.२८.३१ ॥
Slōka 32 / श्लोक ३२
पुत्रं तं वारयित्वा तु स्वयमेव व्यवस्थितः ।
सो ऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् ।। ७.२८.३२ ॥
Slōka 33 / श्लोक ३३
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह ।
शस्त्राणि वर्षतां घोरं मेघानामिव संयुगे ।। ७.२८.३३ ॥
Slōka 34 / श्लोक ३४
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः ।
नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत ।। ७.२८.३४ ॥
Slōka 35 / श्लोक ३५
दन्तैः भुजाभ्यां पद्मां च शक्तितोमरसायकैः ।
येन केनैव संरब्धस्ताडयामास वै सुरान् ।। ७.२८.३५ ॥
Slōka 36 / श्लोक ३६
ततो रुद्रैर्महाघोरैः सङ्गम्याथ निशाचरः ।
प्रयुद्धस्तैश्च सङ्ग्रामे क्षतः शस्त्रैर्निरन्तरम् ।। ७.२८.३६ ॥
Slōka 37 / श्लोक ३७
बभौ शस्त्राचिततनुः कुम्भकर्णः क्षरन्नसृक् ।
विद्युत्स्तनितनिर्घोषो धारवानिव तोयदः ।। ७.२८.३७ ॥
Slōka 38 / श्लोक ३८
ततस्तद्राक्षसं सैन्यं प्रयुद्धं समरुद्गणैः ।
रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः ।। ७.२८.३८ ॥
Slōka 39 / श्लोक ३९
केचिद्विनिहताः कृत्ताश्चेष्टन्ति स्म महीतले ।
वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ।। ७.२८.३९ ॥
Slōka 40 / श्लोक ४०
रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगान् रणे ।
शिंशुमारान्वराहांश्च पिशाचवदनान्तथा ।। ७.२८.४० ॥
Slōka 41 / श्लोक ४१
तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रुताः ।
देवैस्तु शस्त्रसम्भिन्ना मम्रिरे च निशाचराः ।। ७.२८.४१ ॥
Slōka 42 / श्लोक ४२
चित्रकर्म इवाभाति स तेषां रणसम्प्लवः ।
निहतानां प्रमत्तानां राक्षसानां महीतले ।। ७.२८.४२ ॥
Slōka 43 / श्लोक ४३
शोणितोदकनिष्पन्दकङ्कगृध्रसमाकुला ।
प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी ।। ७.२८.४३ ॥
Slōka 44 / श्लोक ४४
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान् ।
निरीक्ष्य तद्बलं कृत्स्नं दैवतैर्विनिपातितम् ।। ७.२८.४४ ॥
Slōka 45 / श्लोक ४५
स तं प्रति विगाह्याशु प्रवृद्धं सैन्यसागरम् ।
त्रिदशान्समरे निघ्नञ्छक्रमेवाभ्यवर्तत ।। ७.२८.४५ ॥
Slōka 46 / श्लोक ४६
आगाच्छक्रो महच्चापं विस्फार्य सुमहास्वनम् ।
यस्य विस्फारघोषेण स्तनन्ति स्म दिशो दश ।। ७.२८.४६ ॥
Slōka 47 / श्लोक ४७
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि ।
निपातयामास शरान्पावकादित्यवर्चसः ।। ७.२८.४७ ॥
Slōka 48 / श्लोक ४८
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः ।
शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् ।। ७.२८.४८ ॥
Slōka 49 / श्लोक ४९
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः ।
न ज्ञायते तदा किञ्चित्सर्वं हि तमसा वृतम् ।। ७.२८.४९ ।।