Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 22 / सर्गः २२

Slōka 1 / श्लोक १

ततः सीतामुपागम्य राक्षस्यो विकृताननाः ।
परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम् ।। ५.२२.१।।।।

Slōka 2 / श्लोक २

किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे ।
महार्हशयनोपेते न वासमनुमन्यसे ।। ५.२२.२।।।।

Slōka 3 / श्लोक ३

मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे ।
प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ।। ५.२२.३।।।।

Slōka 4 / श्लोक ४

मानुषी मानुषं तं तु राममिच्छसि शोभने ।
राज्याद्भ्रष्टमसिद्धार्थं विक्लवं तमनिन्दिते ।। ५.२२.४।।।।

Slōka 5 / श्लोक ५

राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा ।
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ।। ५.२२.५।।।।

Slōka 6 / श्लोक ६

यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः ।
नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति ।। ५.२२.६।।।।

Slōka 7 / श्लोक ७

न मानुषी राक्षसस्य भार्या भवितुमर्हति ।
कामं खादत मां सर्वा न करिष्यामि वो वचः ।दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः ।। ५.२२.७।।।।

Slōka 8 / श्लोक ८

सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः ।
भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः ।। ५.२२.८।।।।

Slōka 9 / श्लोक ९

अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे ।
सीतां सन्तर्जयन्तीस्ता राक्षसीरशृणोत्कपिः ।। ५.२२.९।।।।

Slōka 10 / श्लोक १०

तामभिक्रम्य संरब्धा वेपमानां समन्ततः ।
भृशं संलिलिहुर्दीप्तान्प्रलम्बदशनच्छदान् ।। ५.२२.१०।।।।

Slōka 11 / श्लोक ११

ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् ।
नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ।। ५.२२.११।।।।

Slōka 12 / श्लोक १२

सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना ।
सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत् ।। ५.२२.१२।।।।

Slōka 13 / श्लोक १३

ततस्तां शिंशपां सीता राक्षसीभिः समावृता ।
अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ।। ५.२२.१३।।।।

Slōka 14 / श्लोक १४

तां कृशां दीनवदनां मलिनाम्बरधारिणीम् ।
भर्त्सयां चक्रिरे भीमा राक्षस्यस्ताः समन्ततः ।। ५.२२.१४।।।।

Slōka 15 / श्लोक १५

ततस्तां विनता नाम राक्षसी भीमदर्शना ।
अब्रवीत्कुपिताकारा कराला निर्णतोदरी ।। ५.२२.१५।।।।

Slōka 16 / श्लोक १६

सीते पर्याप्तमेतावद्भर्तृस्नेहो निदर्शितः ।
सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते ।। ५.२२.१६।।।।

Slōka 17 / श्लोक १७

परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः ।
ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ।। ५.२२.१७।।।।

Slōka 18 / श्लोक १८

रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ।
विक्रान्तं रूपवन्तं च सुरेशमिव वासवम् ।। ५.२२.१८।।।।

Slōka 19 / श्लोक १९

दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम् ।
मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय ।। ५.२२.१९।।।।

Slōka 20 / श्लोक २०

दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ।
अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव ।अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने ।। ५.२२.२०।।।।

Slōka 21 / श्लोक २१

किं ते रामेण वैदेहि कृपणेन गतायुषा ।
। ५.२२.२१।।।।

Slōka 22 / श्लोक २२

एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि ।
अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ।।५.२२.२२।।।।

Slōka 23 / श्लोक २३

अन्या तु विकटा नाम लम्बमानपयोधरा ।
अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती ।। ५.२२.२३।।।।

Slōka 24 / श्लोक २४

बहून्यप्रतिरूपाणि वचनानि सुदुर्मते ।
अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ।न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् ।। ५.२२.२४।।।।

Slōka 25 / श्लोक २५

आनीतासि समुद्रस्य पारमन्यैर्दुरासदम् ।
रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि ।। ५.२२.२५।।।।

Slōka 26 / श्लोक २६

रावणस्य गृहे रुधा अस्माभिस्तु सुरक्षिता ।
न त्वां शक्तः परित्रातुमपि साक्षात्पुरन्दरः ।। ५.२२.२६।।।।

Slōka 27 / श्लोक २७

कुरुष्व हितवादिन्या वचनं मम मैथिलि ।
अलमश्रुप्रपातेन त्यज शोकमनर्थकम् ।। ५.२२.२७।।।।

Slōka 28 / श्लोक २८

भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम् ।
सीते राक्षसराजेन सह क्रीड यथासुखम् ।। ५.२२.२८।।।।

Slōka 29 / श्लोक २९

जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् ।
यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि ।। ५.२२.२९।।।।

Slōka 30 / श्लोक ३०

उद्यानानि च रम्याणि पर्वतोपवनानि च ।
सह राक्षसराजेन चर त्वं मदिरेक्षणे ।। ५.२२.३०।।।।

Slōka 31 / श्लोक ३१

स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि ।
रावणं भज भर्तारं भर्तारं सर्वरक्षसाम् ।। ५.२२.३१।।।।

Slōka 32 / श्लोक ३२

उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि ।
यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि ।। ५.२२.३२।।।।

Slōka 33 / श्लोक ३३

ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना ।
भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत् ।। ५.२२.३३।।।।

Slōka 34 / श्लोक ३४

इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम् ।
रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत् ।। ५.२२.३४।।।।

Slōka 35 / श्लोक ३५

यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम् ।
अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः ।। ५.२२.३५।।।।

Slōka 36 / श्लोक ३६

ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् ।
कण्ठमस्या नृशंसायाः पीडयामः किमास्यते ।। ५.२२.३६।।।।

Slōka 37 / श्लोक ३७

निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ।
नात्र कश्चन सन्देहः खादतेति स वक्ष्यति ।। ५.२२.३७।।।।

Slōka 38 / श्लोक ३८

ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् ।
विशस्येमां ततः सर्वान्समान्कुरुत पीलुकान् ।। ५.२२.३८।।।।

Slōka 39 / श्लोक ३९

विभजाम ततः सर्वा विवादो मे न रोचते ।
पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु ।। ५.२२.३९।।।।

Slōka 40 / श्लोक ४०

ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत् ।
अजामुखा यदुक्तं हि तदेव मम रोचते ।। ५.२२.४०।।।।

Slōka 41 / श्लोक ४१

सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी ।
मानुषं मांसमासाद्य नृत्यामोऽथ निकुम्भिलाम् ।। ५.२२.४१।।।।

Slōka 42 / श्लोक ४२

एवं सम्भर्त्स्यमाना सा सीता सुरसुतोपमा ।
राक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति ।। ५.२२.४२।।