सुन्दरकाण्डम्
Chapter 66 / सर्गः ६६
Slōka 1 / श्लोक १
एवमुक्तो हनुमता रामो दशरथात्मजः ।
तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ।। ५.६६.१ ।।।।
Slōka 2 / श्लोक २
तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः ।
नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ।। ५.६६.२ ।।।।
Slōka 3 / श्लोक ३
यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला ।
तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ।। ५.६६.३ ।।।।
Slōka 4 / श्लोक ४
मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे ।
वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ।। ५.६६.४ ।।।।
Slōka 5 / श्लोक ५
अयं हि जलसम्भूतो मणिः सज्जनपूजितः ।
यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ।। ५.६६.५ ।।।।
Slōka 6 / श्लोक ६
इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् ।
अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ।। ५.६६.६ ।।।।
Slōka 7 / श्लोक ७
अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः ।
अस्याद्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ।। ५.६६.७ ।।।।
Slōka 8 / श्लोक ८
किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः ।
पिपासुमिव तोयेन सिञ्चन्ति वाक्यवारिणा ।। ५.६६.८ ।।।।
Slōka 9 / श्लोक ९
इतस्तु किं दुःखतरं यदिमं वारिसम्भवम् ।
मणिं पश्यामि सौमित्रे वैदेहीमागतं विना ।। ५.६६.९ ।।।।
Slōka 10 / श्लोक १०
चिरं जीवति वैदेही यदि मासं धरिष्यति ।
क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम् ।। ५.६६.१० ।।।।
Slōka 11 / श्लोक ११
नय मामपि तं देशं यत्र दृष्टा मम प्रिया ।
न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ।। ५.६६.११ ।।।।
Slōka 12 / श्लोक १२
कथं सा मम सुश्रोणी भीरुभीरुः सती सदा ।
भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ।। ५.६६.१२ ।।।।
Slōka 13 / श्लोक १३
शारदस्तिभिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः ।
आवृतं वदनं तस्या न विराजति राक्षसैः ।। ५.६६.१३ ।।।।
Slōka 14 / श्लोक १४
किमाह सीता हनुंस्तत्त्वतः कथयाद्य मे ।
एतेन खलु जीविष्ये भेषजेनातुरो यथा ।। ५.६६.१४ ।।।।
Slōka 15 / श्लोक १५
मधुरा मधुरालापा किमाह मम भामिनी ।
मद्विहीना वरारोहा हनुमन् कथयस्व मे ।। ५.६६.१५ ।।