Star (-) Watch (-)

Ramayana

युद्धकाण्डम्

Chapter 7 / सर्गः ७

Slōka 1 / श्लोक १

इति उक्ता राक्षस इन्द्रेण राक्षसास्ते महाबलाः ।
ऊचुः प्रान्जलयः सर्वे रावणम् राक्षस ईश्वरम् ॥६-७-१॥।।

Slōka 2 / श्लोक २

द्विष्त्पक्ष्ह्मविज्ञाय नीतिबाह्यास्त्वबुद्धयः ।
राजन् परिघ शक्ति ऋष्टि शूल पट्टस सम्कुलम् ॥६-७-२॥।।

Slōka 3 / श्लोक ३

सुमहन् नो बलम् कस्माद् विषादम् भजते भवान् ।
त्वया भोगवतीम् गत्वा निर्जताः पन्नगा युधि ॥६-७-३॥।।

Slōka 4 / श्लोक ४

कैलास शिखर आवासी यक्षैर् बहुभिर् आवृतः ।
सुमहत् कदनम् कृत्वा वश्यस् ते धनदः कृतः ॥६-७-४॥।।

Slōka 5 / श्लोक ५

स महाईश्वर सख्येन श्लाघमानस् त्वया विभो ।
निर्जितः समरे रोषाल् लोक पालो महाबलः ॥६-७-५॥।।

Slōka 6 / श्लोक ६

विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च ।
त्वया कैलास शिखराद् विमानम् इदम् आहृतम् ॥६-७-६॥।।

Slōka 7 / श्लोक ७

मयेन दानव इन्द्रेण त्वद् भयात् सख्यम् इच्चता ।
दुहिता तव भार्या अर्थे दत्ता राक्षस पुम्गव ॥६-७-७॥।।

Slōka 8 / श्लोक ८

दानव इन्द्रो मधुर् नाम वीर्य उत्सिक्तो दुरासदः ।
विगृह्य वशम् आनीतः कुम्भीनस्याः सुख आवहः ॥६-७-८॥।।

Slōka 9 / श्लोक ९

निर्जितास् ते महाबाहो नागा गत्वा रसा तलम् ।
वासुकिस् तक्षकः शन्खो जटी च वशम् आहृताः ॥६-७-९॥।।

Slōka 10 / श्लोक १०

अक्षया बलवन्तः च शूरा लब्ध वराः पुनः ।
त्वया सम्वत्सरम् युद्ध्वा समरे दानवा विभो ॥६-७-१०॥।।

Slōka 11 / श्लोक ११

स्व बलम् समुपाश्रित्य नीता वशम् अरिम् दम ।
मायाः च अधिगतास् तत्र बहवो राक्षस अधिप ॥६-७-११॥।।

Slōka 12 / श्लोक १२

शूराः च बलवन्तः च वरुणस्य सुता रणे ।
निर्जितास् ते महाबाग चतुर् विध बल अनुगाः ॥६-७-१२॥।।

Slōka 13 / श्लोक १३

मृत्यु दण्ड महाग्राहम् शाल्मलि द्वीप मण्डितम् ।
कालपाशमहाईचिम् यमकिम्करपन्नगम् ॥६-७-१३॥।।

Slōka 14 / श्लोक १४

महाज्वरेण दुर्धर्षम् यमलोकमहार्णवम् ।
अवगाह्य त्वया राजन् यमस्य बल सागरम् ॥६-७-१४॥।।

Slōka 15 / श्लोक १५

जयः च विप्लुलः प्राप्तो मृत्युः च प्रतिषेधितः ।
सुयुद्धेन च ते सर्वे लोकास् तत्र सुतोषिताः ॥६-७-१५॥।।

Slōka 16 / श्लोक १६

क्षत्रियैर् बहुभिर् वीरैः शक्र तुल्य पराक्रमैः ।
आसीद् वसुमती पूर्णा महद्भिर् इव पादपैः ॥६-७-१६॥।।

Slōka 17 / श्लोक १७

तेषाम् वीर्य गुण उत्साहैर् न समो राघवो रणे ।
प्रसह्य ते त्वया राजन् हताः परम दुर्जयाः ॥६-७-१७॥।।

Slōka 18 / श्लोक १८

तिष्ठ वा किम् महाराज श्रमेण तव वानरान् ।
अयमेको महारज इन्द्रजित् क्षपयिष्यति ॥६-७-१८॥।।

Slōka 19 / श्लोक १९

अनेन हि महाराज महेश्वरमनुत्तमम् ।
इष्ट्वा यज्ञम् वरो लब्धो लोके परमदुर्लभः ॥६-७-१९॥।।

Slōka 20 / श्लोक २०

शक्तितोमरमीनम् च विनिकीर्णान्त्रशैवलम् ।
गजकच्चपसम्बाधम्श्वमण्डूकसम्कुलम् ॥६-७-२०॥।।

Slōka 21 / श्लोक २१

रुद्रादित्यमहाग्राहम् मरुद्वसुमहोरगम् ।
रथश्वगजतोयौघम् पदातिपुलिनम् महत् ॥६-७-२१॥।।

Slōka 22 / श्लोक २२

अनेन हि समासाद्य देवानाम् बलसागम् ।
गृहीतो दैवतपतिर्लङ्काम् चापि प्रवेशितः ॥६-७-२२॥।।

Slōka 23 / श्लोक २३

पीतामहनियोगाच्च मुक्तः शम्बरवृत्रहा ।
गतस्त्रिविष्टपम् राजन् सर्वदेवनमस्कृतः ॥६-७-२३॥।।

Slōka 24 / श्लोक २४

तमेव त्वम् महाराज विसृजेन्द्रजितम् सुतम् ।
यावद्वानरसेनाम् ताम् परामाम् नयति क्ष्हयम् ॥६-७-२४॥।।

Slōka 25 / श्लोक २५

राजन् न आपद् अयुक्ता इयम् आगता प्राकृताज् जनात् ।
हृदि न एव त्वया कार्या त्वम् वधिष्यसि राघवम् ॥६-७-२५॥