उत्तरकाण्डम्डम्
Chapter 15 / सर्गः १५
Slōka 1 / श्लोक १
ततस्ताँल्लक्ष्य वित्रस्तान्यक्षेन्द्रांश्च सहस्रशः ।
धनाध्यक्षो महायक्षं माणिचारमथाब्रवीत् ।। ७.१५.१ ॥
Slōka 2 / श्लोक २
रावणं जहि यक्षेन्द्र दुर्वृत्तं पापचेतसम् ।
शरणं भव वीराणां यक्षाणां युद्धशालिनाम् ।। ७.१५.२ ॥
Slōka 3 / श्लोक ३
एवमुक्तो महाबाहुर्माणिभद्रः सुदुर्जयः ।
वृतो यक्षसहस्रैस्तु चतुर्भिः समयोधयत् ।। ७.१५.३ ॥
Slōka 4 / श्लोक ४
ते गदामुसलप्रासैः शक्तितोमरमुद्गरैः ।
अभिघ्नन्तस्तदा यक्षा राक्षसान्समुपाद्रवन् ।। ७.१५.४ ॥
Slōka 5 / श्लोक ५
कुर्वन्तस्तुमुलं युद्धं चरन्तः श्येनवल्लघु ।
बाढं प्रयच्छन्नेच्छामि दीयतामिति भाषिणः ।। ७.१५.५ ॥
Slōka 6 / श्लोक ६
ततो देवाः सगन्धर्वा ऋषयो ब्रह्मवादिनः ।
दृष्ट्वा तत्तुमुलं युद्धं परं विस्मयमागमन् ।। ७.१५.६ ॥
Slōka 7 / श्लोक ७
यक्षाणां तु प्रहस्तेन सहस्रं निहतं रणे ।
महोदरेण चानिन्द्यं सहस्रमपरं हतम् ।। ७.१५.७ ॥
Slōka 8 / श्लोक ८
क्रुद्धेन च तदा राजन्मारीचेन युयुत्सुना ।
निमेषान्तरमात्रेण द्वे सहस्रे निपातिते ।। ७.१५.८ ॥
Slōka 9 / श्लोक ९
क्व च यक्षार्जवं युद्धं क्व च मायाबलाश्रयम् ।
रक्षसां पुरुषव्याघ्र तेन ते ऽभ्यधिका युधि ।। ७.१५.९ ॥
Slōka 10 / श्लोक १०
धूम्राक्षेण समागम्य माणिभद्रो महारणे ।
मुसलेनोरसि क्रोधात्तडितो न च कम्पितः ।। ७.१५.१० ॥
Slōka 11 / श्लोक ११
ततो गदां समाविध्य माणिभद्रेण राक्षसः ।
धूम्राक्षस्ताडितो मूर्ध्नि विह्वलः स पपात ह ।। ७.१५.११ ॥
Slōka 12 / श्लोक १२
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम् ।
अभ्यधावत सङ्ग्रामे माणिभद्रं दशाननः ।। ७.१५.१२ ॥
Slōka 13 / श्लोक १३
तं क्रुद्धमभिधावन्तं माणिभद्रो दशाननम् ।
शक्तिभिस्ताडयामास तिसृभिर्यक्षपुङ्गवः ।। ७.१५.१३ ॥
Slōka 14 / श्लोक १४
ताडितो माणिभद्रस्य मुकुटे प्राहरद्रणे ।
तस्य तेन प्रहारेम मुकुटं पार्श्वमागतम् ।। ७.१५.१४ ॥
Slōka 15 / श्लोक १५
ततः संयुध्यमानेन विष्टब्धो न व्यकम्पत ।
तदाप्रभृति यक्षो ऽसौ पार्श्वमौलिरिति स्मृतः ।सन्नादः सुमहान्राजंस्तस्मिन्शैले ऽभ्यवर्तत ।। ७.१५.१५ ॥
Slōka 16 / श्लोक १६
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः ।
शुक्रप्रौष्ठपदाभ्यां च पद्मशङ्खसमावृतः ।। ७.१५.१६ ॥
Slōka 17 / श्लोक १७
स दृष्ट्वा भ्रातरं सङ्ख्ये शापाद्विभ्रष्टगौरवम् ।
उवाच वचनं धीमान्युक्तं पैतामहे कुले ।। ७.१५.१७ ॥
Slōka 18 / श्लोक १८
यन्मया वार्यमाणस्त्वं नावगच्छसि दुर्मते ।
पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः ।। ७.१५.१८ ॥
Slōka 19 / श्लोक १९
यो हि मोहाद्विषं पीत्वा नावगच्छति दुर्मतिः ।
स तस्य परिणामान्ते जानीते कर्मणः फलम् ।। ७.१५.१९ ॥
Slōka 20 / श्लोक २०
देवता नाभिनन्दन्ति धर्मयुक्तेन केनचित् ।
येन त्वमीदृशं भावं नीतस्सन्नावबुद्ध्यसे ।। ७.१५.२० ॥
Slōka 21 / श्लोक २१
मातरं पितरं यो हि आचार्यं चावमन्यते ।
स पश्यति फलं तस्य प्रेतराजवशं गतः ।। ७.१५.२१ ॥
Slōka 22 / श्लोक २२
अध्रुवे हि शरीरे यो न करोति तपोर्जनम् ।
स पश्चात्तप्यते मूढो मृतो दृष्ट्वा ऽ ऽत्मनो गतिम् ।। ७.१५.२२ ॥
Slōka 23 / श्लोक २३
धर्माद्राज्यं धनं सौख्यमधर्माद्दुःखमेव च ।
तस्माद्धर्मं सुखार्थाय कुर्यात्पापं विसर्जयेत् ।। ७.१५.२३ ॥
Slōka 24 / श्लोक २४
पापस्य हि फलं दुःखं तद्भोक्तव्यमिहात्मना ।
तस्मादात्मापघातार्थं मूढः पापं करिष्यति ।। ७.१५.२४ ॥
Slōka 25 / श्लोक २५
कस्य चिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः ।
देवं चेष्टयते सर्वं हतो दैवेन हन्यते ।यादृशं कुरुते कर्म तादृशं फलमश्नुते ।। ७.१५.२५ ॥
Slōka 26 / श्लोक २६
बुद्धिरूपं फलं पुत्राञ्छौर्यं धीरत्वमेव च ।
प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ।। ७.१५.२६ ॥
Slōka 27 / श्लोक २७
एवं निरयगामी त्वं यस्य ते मतिरीदृशी ।
न त्वां समभिभाषिष्ये ऽसद्वृत्तेष्वेव निर्णयः ।। ७.१५.२७ ॥
Slōka 28 / श्लोक २८
एवमुक्तास्ततस्तेन तस्यामात्याः समाहताः ।
मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः ।। ७.१५.२८ ॥
Slōka 29 / श्लोक २९
ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना ।
गदयाभिहतो मूर्ध्नि न च स्थानात्प्रकम्पितः ।। ७.१५.२९ ॥
Slōka 30 / श्लोक ३०
ततस्तौ राम निघ्नन्तौ तदान्योन्यं महामृधे ।
न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ ।। ७.१५.३० ॥
Slōka 31 / श्लोक ३१
आग्नेयमस्त्रं तस्मै स मुमोच धनदस्तदा ।
राक्षसेन्द्रो वारुणेन तदस्त्रं प्रत्यवारयत् ।। ७.१५.३१ ॥
Slōka 32 / श्लोक ३२
ततो मायां प्रविष्टो ऽसौ राक्षसीं राक्षसेश्वरः ।
रूपाणां शतसाहस्रं विनाशाय चकार च ।। ७.१५.३२ ॥
Slōka 33 / श्लोक ३३
व्याघ्रो वराहो जीमूतः पर्वतः सागरो द्रुमः ।
यक्षो दैत्यस्वरूपी च सो ऽदृश्यत दशाननः ।। ७.१५.३३ ॥
Slōka 34 / श्लोक ३४
बहूनि च करोति स्म दृश्यन्ते न त्वसौ ततः ।
प्रतिगृह्य ततो राम महदस्त्रं दशाननः ।। ७.१५.३४ ॥
Slōka 35 / श्लोक ३५
जघान मूर्ध्नि धनदं व्याविद्ध्य महतीं गदाम् ।
एवं स तेनाभिहतो विह्वलः शोणितोक्षितः ।। ७.१५.३५ ॥
Slōka 36 / श्लोक ३६
कृत्तमूल इवाशोको निपपात धनाधिपः ।
। ७.१५.३६ ॥
Slōka 37 / श्लोक ३७
ततः पद्मादिभिस्तत्र निधिभिः स तदा वृतः ।
धनदोच्छ्वासितस्तैस्तु वनमानीय नन्दनम् ।। ७.१५.३७ ॥
Slōka 38 / श्लोक ३८
निर्जित्य राक्षसेन्द्रस्तं धनदं हृष्टमानसः ।
पुष्पकं तस्य जग्राह विमानं जयलक्षणम् ।। ७.१५.३८ ॥
Slōka 39 / श्लोक ३९
काञ्चनस्तम्भसंवीतं वैडूर्यमणितोरणम् ।
मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् ।। ७.१५.३९ ॥
Slōka 40 / श्लोक ४०
मनोजवं कामगमं कामरूपं विहङ्गमम् ।
मणिकाञ्चनसोपानं तप्तकाञ्चनवेदिकम् ।। ७.१५.४० ॥
Slōka 41 / श्लोक ४१
देवोपवाह्यमक्षय्यं सदादृष्टिमनःसुखम् ।
बह्वाश्चर्यं भक्तिचित्रं ब्रह्मणा परिनिर्मितम् ।। ७.१५.४१ ॥
Slōka 42 / श्लोक ४२
निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् ।
न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ।। ७.१५.४२ ॥
Slōka 43 / श्लोक ४३
स तं राजा समारुह्य कामगं वीर्यनिर्जितम् ।
जितं त्रिभुवनं मेने दर्पोत्सेकात्सुदुर्मतिः ।। ७.१५.४३ ॥
Slōka 44 / श्लोक ४४
जित्वा वैश्रवणं देवं कैलासात्समवातरत् ।
। ७.१५.४४ ॥
Slōka 45 / श्लोक ४५
स्वतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् ।
रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथानलः ।। ७.१५.४५ ।।