Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 40 / सर्गः ४०

Slōka 1 / श्लोक १

तथा स्म तेषां वसतामृक्षवानररक्षसाम् ।
राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ।। ७.४०.१ ॥

Slōka 2 / श्लोक २

गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः ।
पालयस्व सहामात्यो राज्यं निहतकण्टकम् ।। ७.४०.२ ॥

Slōka 3 / श्लोक ३

अङ्गदं च महाबाहो प्रीत्या परमया युतः ।
पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ।। ७.४०.३ ॥

Slōka 4 / श्लोक ४

सुषेणं श्वशुरं वीरं तारं च बलिनां वरम् ।
कुमुदं चैव दुर्धर्षं नीलं चैव महाबलम् ।। ७.४०.४ ॥

Slōka 5 / श्लोक ५

वीरं शतवलिं चैव मैन्दं द्विविदमेव च ।
गजं गवाक्षं गवयं शरभं च महाबलम् ।पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ।। ७.४०.५ ॥

Slōka 6 / श्लोक ६

ऋषभं च सुविक्रान्तं जाम्बवन्तं महाबलम् ।
ये चेमे सुमहात्मानो मदर्थे त्यक्तजीविताः ।। ७.४०.६ ॥

Slōka 7 / श्लोक ७

पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ।
। ७.४०.७ ॥

Slōka 8 / श्लोक ८

एवमुक्त्वा तु सुग्रीवमाश्लिष्य च पुनः पुनः ।
विभीषणमुवाचाथ रामो मधुरया गिरा ।। ७.४०.८ ॥

Slōka 9 / श्लोक ९

लङ्कां प्रशाधि धर्मेण धर्मज्ञस्त्वं मतो मम ।
पुरस्य राक्षसानां च स्वभ्रातुस्सम्मतो ह्यसि ।। ७.४०.९ ॥

Slōka 10 / श्लोक १०

मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथञ्चन ।
बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ।। ७.४०.१० ॥

Slōka 11 / श्लोक ११

अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया ।
स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ।। ७.४०.११ ॥

Slōka 12 / श्लोक १२

रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः ।
साधुसाध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ।। ७.४०.१२ ॥

Slōka 13 / श्लोक १३

तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च ।
माधुर्यं परमं राम स्वयम्भोरिव नित्यदा ।। ७.४०.१३ ॥

Slōka 14 / श्लोक १४

तेषामेवं ब्रुवाणानां वानराणां च राक्षसाम् ।
हनूमान्प्रवणः भूत्वा राघवं वाक्यमब्रवीत् ।। ७.४०.१४ ॥

Slōka 15 / श्लोक १५

स्नेहो मे परमो राजंस्त्वयि तिष्ठतु नित्यदा ।
भक्तिश्च नियता वीर भावो नान्यत्र गच्छतु ।। ७.४०.१५ ॥

Slōka 16 / श्लोक १६

वायद्रामकथा वीर चरिष्यति महीतले ।
तावच्छरीरे वत्स्यन्ति प्राणा मम न संशयः ।। ७.४०.१६ ॥

Slōka 17 / श्लोक १७

यच्चैतच्चरितं दिव्यं कथा ते रघुनन्दन ।
तन्मयाप्सरसो नाम श्रावयेयुर्नरर्षभ ।। ७.४०.१७ ॥

Slōka 18 / श्लोक १८

तच्छ्रुत्वाहं ततो वीर तव चर्यामृतं प्रभो ।
उत्कण्ठां तां हरिष्यामि मेघलेखामिवानिलः ।। ७.४०.१८ ॥

Slōka 19 / श्लोक १९

एवं ब्रुवाणं रामस्तु हनूमन्तं वरासनात् ।
उत्थाय सस्वजे स्नेहाद्वाक्यमेतदुवाच ह ।। ७.४०.१९ ॥

Slōka 20 / श्लोक २०

एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः ।
चरिष्यति कथा यावदेषा लोके च मामिका ।तावत्ते भविता कीर्तिः शरीरे ऽप्यसवस्तथा ।। ७.४०.२० ॥

Slōka 21 / श्लोक २१

लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा ।
। ७.४०.२१ ।।

Slōka 22 / श्लोक २२

लोके च मामिका ।
एकैकस्योपकारस्य प्राणान्दास्यामि ते कपे ।नरः प्रत्युपकाराणामापस्त्वायाति पात्रताम् ।। ७.४०.२२ ॥

Slōka 23 / श्लोक २३

ततो ऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः ।
वैडूर्यतरलं कण्ठे बबन्ध च हनूमतः ।। ७.४०.२३ ॥

Slōka 24 / श्लोक २४

तेनोरसि निबद्धेन हारेण महता कपिः ।
रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ।। ७.४०.२४ ॥

Slōka 25 / श्लोक २५

श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः ।
प्रणम्य शिरसा पादौ निर्जग्मुस्ते महाबलाः ।। ७.४०.२५ ॥

Slōka 26 / श्लोक २६

सुग्रीवः स च रामेण निरन्तरमुरोगतः ।
विभीषणश्च धर्मात्मा सर्वे ते बाष्पविक्लवाः ।। ७.४०.२६ ॥

Slōka 27 / श्लोक २७

सर्वे च ते बाष्पकलाः साश्रुनेत्रा विचेतसः ।
सम्मूढा इव दुःखेन त्यजन्तो राघवं तदा ।। ७.४०.२७ ॥

Slōka 28 / श्लोक २८

कृतप्रसादास्तेनैवं राघवेण महात्मना ।
जग्मुः स्वं स्वं गृहं सर्वे देही देहमिव त्यजन् ।। ७.४०.२८ ॥

Slōka 29 / श्लोक २९

ततस्तु ते राक्षसऋक्षवानराः प्रणम्य रामं रघुवंशवर्धनम् ।
वियोगजाश्रुप्रतिपूर्णलोचनाः प्रतिप्रयातास्तु यथा निवासिनः ।। ७.४०.२९ ॥

Slōka 30 / श्लोक ३०

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चत्वारिंशः सर्गः ।
। ४० ।।