Star (-) Watch (-)

Ramayana

युद्धकाण्डम्

Chapter 23 / सर्गः २३

Slōka 1 / श्लोक १

निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः ।
सौमित्रिम् सम्परिष्वज्य इदम् वचनम्ब्रवीत् ॥६-२३-१॥।।

Slōka 2 / श्लोक २

परिगृह्योदकम् शीतम् वनानि फलवन्ति च ।
बलौ घम् सम्विभज्येमम् व्यूह्य तिष्ठेम लक्ष्मण ॥६-२३-२॥।।

Slōka 3 / श्लोक ३

लोकक्षयकरम् भीमम् भयम् पश्याम्युपस्थितम् ।
प्रबर्हणम् प्रवीराणामृक्षवानररक्षसाम् ॥६-२३-३॥।।

Slōka 4 / श्लोक ४

वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा ।
पर्वताग्राणि वेपन्ते पतन्ति च महीरुःआः ॥६-२३-४॥।।

Slōka 5 / श्लोक ५

मेघाः क्रव्यादसम्काशाः परुषाः परुषस्वनाः ।
क्रूराः क्रूरम् प्रवर्षन्ति मिश्रम् शोणितबिन्दुभिः ॥६-२३-५॥।।

Slōka 6 / श्लोक ६

रक्तचन्दनसम्काशा सम्ध्या परमदारुणा ।
ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥६-२३-६॥।।

Slōka 7 / श्लोक ७

दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः ।
प्रत्यादित्यम् विनर्दन्ति जनयन्तो महद्भयम् ॥६-२३-७॥।।

Slōka 8 / श्लोक ८

रजन्यामप्रकाशस्तु सम्तापयति चन्द्रमाः ।
कृष्णरक्ताम्शुपर्यन्तो लोकक्षय इवोदितः ॥६-२३-८॥।।

Slōka 9 / श्लोक ९

ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः ।
आदित्ये विमले वीलम् लक्ष्म लक्ष्मण दृश्यते ॥६-२३-९॥।।

Slōka 10 / श्लोक १०

रजसा महता चापि नक्षत्राणि हतानि च ।
युगान्तमिव लोकानाम् पश्य शसन्ति लक्ष्मण ॥६-२३-१०॥।।

Slōka 11 / श्लोक ११

काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च ।
शिवाश्चाप्यशुभान्नादान्नदन्ति सुमहाभयान् ॥६-२३-११॥।।

Slōka 12 / श्लोक १२

शैलैः शूलैश्च खड्गैश्च विमुकैः कपिराक्षसैः ।
भविष्यत्यावृता भूमिर्माम्सशोणितकर्दमा ॥६-२३-१२॥।।

Slōka 13 / श्लोक १३

क्षिप्रमद्यैव दुर्धर्षाम् पुरीम् रावणपालिताम् ।
अभियाम जवेनैव सर्वैर्हरिभिरावृताः ॥६-२३-१३॥।।

Slōka 14 / श्लोक १४

इत्येवमुक्त्वा धन्वी स रामः सम्ग्रामधर्षणः ।
प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥६-२३-१४॥।।

Slōka 15 / श्लोक १५

सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः ।
प्रतस्थिरे विनर्दन्तो धृतानाम् द्विषताम् वधे ॥६-२३-१५॥।।

Slōka 16 / श्लोक १६

राघवस्य प्रियार्थम् तु सुतराम् वीर्यशालिनाम् ।
हरीणाम् कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥६-२३-१६॥