Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 92 / सर्गः ९२

Slōka 1 / श्लोक १

तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः ।
हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ।। ७.९२.१ ॥

Slōka 2 / श्लोक २

ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च ।
ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ।। ७.९२.२ ॥

Slōka 3 / श्लोक ३

यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् ।
प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत् ।। ७.९२.३ ॥

Slōka 4 / श्लोक ४

नैमिषे वसतस्तस्य सर्व एव नराधिपाः ।
आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् ।। ७.९२.४ ॥

Slōka 5 / श्लोक ५

उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् ।
सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ।। ७.९२.५ ॥

Slōka 6 / श्लोक ६

अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् ।
भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा ।। ७.९२.६ ॥

Slōka 7 / श्लोक ७

वानराश्च महात्मानः सुग्रीवसहितास्तदा ।
विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ।। ७.९२.७ ॥

Slōka 8 / श्लोक ८

बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः ।
ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ।। ७.९२.८ ॥

Slōka 9 / श्लोक ९

एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत ।
लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत ।ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ।। ७.९२.९ ॥

Slōka 10 / श्लोक १०

नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः ।
छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ।। ७.९२.१० ॥

Slōka 11 / श्लोक ११

तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः ।
विविधानि च गौडानि खाण्डवानि तथैव च ।। ७.९२.११ ॥

Slōka 12 / श्लोक १२

न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् ।
तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ।। ७.९२.१२ ॥

Slōka 13 / श्लोक १३

न कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः ।
तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ।। ७.९२.१३ ॥

Slōka 14 / श्लोक १४

ये च तत्र महात्मानो मुनयश्चिरजीविनः ।
नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ।। ७.९२.१४ ॥

Slōka 15 / श्लोक १५

यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः ।
वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ।। ७.९२.१५ ॥

Slōka 16 / श्लोक १६

रजतानां सुवर्णानामश्मनामथ वाससाम् ।
अनिशं दीयमानानां राशिः समुपदृश्यते ।। ७.९२.१६ ॥

Slōka 17 / श्लोक १७

न शक्रस्य धनेशस्य यमस्य वरुणस्य वा ।
ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ।। ७.९२.१७ ॥

Slōka 18 / श्लोक १८

सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः ।
वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ।। ७.९२.१८ ॥

Slōka 19 / श्लोक १९

ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः ।
संवत्सरमथो साग्रं वर्तते न च हीयते ।। ७.९२.१९ ।।