अयोध्याकाण्डम्
Chapter 34 / सर्गः ३४
Slōka 1 / श्लोक १
ततःकमलपत्राक्षः श्यामो निरुपमो महान् ।
उवाच रामस्तम् सूतं पितुराख्याहि मामिति ॥२-३४-१॥
Slōka 2 / श्लोक २
स राम प्रेषितः क्षिप्रम् सम्ताप कलुष इन्द्रियः ।
प्रविश्य नृपतिम् सूतः निह्श्वसन्तम् ददर्श ह ॥२-३४-२॥
Slōka 3 / श्लोक ३
उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।
तटाकमिव निस्तोयमपश्यज्जगतीपतिम्॥२-३४-३॥
Slōka 4 / श्लोक ४
आलोक्य तु महा प्राज्ञः परम आकुल चेतसम् ।
रामम् एव अनुशोचन्तम् सूतः प्रान्जलिर् आसदत् ॥२-३४-४॥
Slōka 5 / श्लोक ५
तम् वर्धयित्वा राजानम् सूतः पूर्वम् जयाशिषा।
भयविक्लबया वाचा मन्दया श्लक्ष्णमब्रवीत् ॥२-३४-५॥
Slōka 6 / श्लोक ६
अयम् स पुरुष व्याघ्र द्वारि तिष्ठति ते सुतः ।
ब्राह्मणेभ्यो धनम् दत्त्वा सर्वम् चैव उपजीविनाम् ॥२-३४-६॥
Slōka 7 / श्लोक ७
स त्वा पश्यतु भद्रम् ते रामः सत्य पराक्रमः ।
सर्वान् सुहृदाअपृच्च्य त्वाम् इदानीम् दिदृक्षते ॥२-३४-७॥
Slōka 8 / श्लोक ८
गमिष्यति महा अरण्यम् तम् पश्य जगती पते ।
वृतम् राज गुणैः सर्वैः आदित्यम् इव रश्मिभिः ॥२-३४-८॥
Slōka 9 / श्लोक ९
स सत्य वादी धर्म आत्मा गाम्भीर्यात् सागर उपमः ।
आकाशैव निष्पन्को नर इन्द्रः प्रत्युवाच तम् ॥२-३४-९॥
Slōka 10 / श्लोक १०
सुमन्त्र आनय मे दारान् ये केचित् इह मामकाः ।
दारैः परिवृतः सर्वैः द्रष्टुम् इच्चामि राघवम् ॥२-३४-१०॥
Slōka 11 / श्लोक ११
सो अन्तः पुरम् अतीत्य एव स्त्रियः ता वाक्यम् अब्रवीत् ।
आर्यो ह्वयति वो राजा गम्यताम् तत्र माचिरम् ॥२-३४-११॥
Slōka 12 / श्लोक १२
एवम् उक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृप आज्ञया ।
प्रचक्रमुस् तत् भवनम् भर्तुर् आज्ञाय शासनम् ॥२-३४-१२॥
Slōka 13 / श्लोक १३
अर्ध सप्त शताः ताः तु प्रमदाः ताम्र लोचनाः ।
कौसल्याम् परिवार्य अथ शनैः जग्मुर् धृत व्रताः ॥२-३४-१३॥
Slōka 14 / श्लोक १४
आगतेषु च दारेषु समवेक्ष्य मही पतिः ।
उवाच राजा तम् सूतम् सुमन्त्र आनय मे सुतम् ॥२-३४-१४॥
Slōka 15 / श्लोक १५
स सूतः रामम् आदाय लक्ष्मणम् मैथिलीम् तदा ।
जगाम अभिमुखः तूर्णम् सकाशम् जगती पतेः ॥२-३४-१५॥
Slōka 16 / श्लोक १६
स राजा पुत्रम् आयान्तम् दृष्ट्वा दूरात् कृत अन्जलिम् ।
उत्पपात आसनात् तूर्णम् आर्तः स्त्री जन सम्वृतः ॥२-३४-१६॥
Slōka 17 / श्लोक १७
सो अभिदुद्राव वेगेन रामम् दृष्ट्वा विशाम् पतिः ।
तम् असम्प्राप्य दुह्ख आर्तः पपात भुवि मूर्चितः ॥२-३४-१७॥
Slōka 18 / श्लोक १८
तम् रामः अभ्यपातत् क्षिप्रम् लक्ष्मणः च महा रथः ।
विसम्ज्ञम् इव दुह्खेन सशोकम् नृपतिम् तदा ॥२-३४-१८॥
Slōka 19 / श्लोक १९
स्त्री सहस्र निनादः च सम्जज्ञे राज वेश्मनि ।
हाहा राम इति सहसा भूषण ध्वनि मूर्चितः ॥२-३४-१९॥
Slōka 20 / श्लोक २०
तम् परिष्वज्य बाहुभ्याम् ताव् उभौ राम लक्ष्मणौ ।
पर्यन्के सीतया सार्धम् रुदन्तः समवेशयन् ॥२-३४-२०॥
Slōka 21 / श्लोक २१
अथ रामः मुहूर्तेन लब्ध सम्ज्ञम् मही पतिम् ।
उवाच प्रान्जलिर् भूत्वा शोक अर्णव परिप्लुतम् ॥२-३४-२१॥
Slōka 22 / श्लोक २२
आपृच्चे त्वाम् महा राज सर्वेषाम् ईश्वरः असि नः ।
प्रस्थितम् दण्डक अरण्यम् पश्य त्वम् कुशलेन माम् ॥२-३४-२२॥
Slōka 23 / श्लोक २३
लक्ष्मणम् च अनुजानीहि सीता च अन्वेति माम् वनम् ।
कारणैः बहुभिस् तथ्यैः वार्यमाणौ न च इच्चतः ॥२-३४-२३॥
Slōka 24 / श्लोक २४
अनुजानीहि सर्वान् नः शोकम् उत्सृज्य मानद ।
लक्ष्मणम् माम् च सीताम् च प्रजापतिर् इव प्रजाः ॥२-३४-२४॥
Slōka 25 / श्लोक २५
प्रतीक्षमाणम् अव्यग्रम् अनुज्ञाम् जगती पतेः ।
उवाच रर्जा सम्प्रेक्ष्य वन वासाय राघवम् ॥२-३४-२५॥
Slōka 26 / श्लोक २६
अहम् राघव कैकेय्या वर दानेन मोहितः ।
अयोध्यायाः त्वम् एव अद्य भव राजा निगृह्य माम् ॥२-३४-२६॥
Slōka 27 / श्लोक २७
एवम् उक्तः नृपतिना रामः धर्मभृताम् वरः ।
प्रत्युवाच अन्जलिम् कृत्वा पितरम् वाक्य कोविदः ॥२-३४-२७॥
Slōka 28 / श्लोक २८
भवान् वर्ष सहस्राय पृथिव्या नृपते पतिः ।
अहम् तु अरण्ये वत्स्यामि न मे कार्यम् त्वया अनृतम् ॥२-३४-२८॥
Slōka 29 / श्लोक २९
नव पञ्च च वर्षाणि वनवासे विहृत्य ते ।
पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिपः ॥२-३४-२९॥
Slōka 30 / श्लोक ३०
रुदन्नाह प्रियम् पुत्रं सत्यपाशेन संयतः ।
कैकेय्या चोद्यमान्स्तु मिथो राजा तमब्रवीत् ॥२-३४-३०॥
Slōka 31 / श्लोक ३१
श्रेयसे वृद्धये तात पुनर् आगमनाय च ।
गच्चस्व अरिष्टम् अव्यग्रः पन्थानम् अकुतः भयम् ॥२-३४-३१॥
Slōka 32 / श्लोक ३२
न हि सत्यात्मनस्तात धर्माभिमनसस्तव ।
विनिवर्त यितुं बुद्धि शक्यते रघुनन्दन ॥२-३४-३२॥
Slōka 33 / श्लोक ३३
अद्य तु इदानीम् रजनीम् पुत्र मा गच्च सर्वथा ।
मातरम् माम् च सम्पश्यन् वस इमाम् अद्य शर्वरीम् ॥२-३४-३३॥
Slōka 34 / श्लोक ३४
मातरं माम् च सम्पश्यन् वसेमामद्य शर्वरीम् ।
तर्पितः सर्वकामैस्त्वम् स्वः काले साधयिष्यसि ॥२-३४-३४॥
Slōka 35 / श्लोक ३५
दुष्करम् क्रियते पुत्र सर्वथा राघव तया ।
मत्प्रियार्थम् प्रियाम्स्त्यक्त्वा यद्यासि विजनम् वनम् ॥२-३४-३५॥
Slōka 36 / श्लोक ३६
न चैतन्मे प्रियम् पुत्र शपे सत्येन राघव ।
छन्नया छलितस्त्वस्नु स्त्रुया छन्नाग्निकल्पया ॥२-३४-३६॥
Slōka 37 / श्लोक ३७
पञ्चना या तु लब्धा मे तां त्वम् निस्तर्तुमिच्छसि ।
अनया वृत्तसादिन्या कैकेय्याऽभिप्रचोदितः ॥२-३४-३७॥
Slōka 38 / श्लोक ३८
न चैतदाश्चर्यतमम् यत्तज्ज्येष्ठस्सुतो मम ।
अपानृतकथम् पुत्र पितरम् कर्तुमिच्छ्सि ॥२-३४-३८॥
Slōka 39 / श्लोक ३९
अथ रामः तथा श्रुत्वा पितुर् आर्तस्य भाषितम् ।
लक्ष्मणेन सह भ्रात्रा दीनो वचनम् अब्रवीत् ॥२-३४-३९॥
Slōka 40 / श्लोक ४०
प्राप्स्यामि यान् अद्य गुणान् को मे श्वस्तान् प्रदास्यति ।
अपक्रमणम् एव अतः सर्व कामैः अहम् वृणे ॥२-३४-४०॥
Slōka 41 / श्लोक ४१
इयम् सराष्ट्रा सजना धन धान्य समाकुला ।
मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥२-३४-४१॥
Slōka 42 / श्लोक ४२
वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति ।
यस्तुष्टेन वरो दत्तः कैकेय्यै वरद त्वया ॥२-३४-४२॥
Slōka 43 / श्लोक ४३
दीयताम् निखिलेनैव सत्यस्त्वम् भव पार्थिव ।
अहम् निदेशम् भवतो यथोक्तमनुपालयन् ॥२-३४-४३॥
Slōka 44 / श्लोक ४४
चतुर्दश समा वत्स्ये वने वनचरैः सह ।
मा विमर्शो वसुमती भरताय प्रदीयताम् ॥२-३४-४४॥
Slōka 45 / श्लोक ४५
न हि मे काम्क्षितम् राज्यम् सुखमात्मनि वा प्रियम् ।
यथा निदेशम् कर्तुम् वै तवैव रघुनन्धन ॥२-३४-४५॥
Slōka 46 / श्लोक ४६
अपगच्चतु ते दुह्खम् मा भूर् बाष्प परिप्लुतः ।
न हि क्षुभ्यति दुर्धर्षः समुद्रः सरिताम् पतिः ॥२-३४-४६॥
Slōka 47 / श्लोक ४७
न एव अहम् राज्यम् इच्चामि न सुखम् न च मैथिलीम् ।
त्वाम् अहम् सत्यम् इच्चामि न अनृतम् पुरुष ऋषभ ॥२-३४-४७॥
Slōka 48 / श्लोक ४८
त्वामहम् सत्यमिच्छामि नानृतम् पुरुषर्षभ ।
प्रत्यक्षम् तव सत्येन सुकृतेन च ते शपे ॥२-३४-४८॥
Slōka 49 / श्लोक ४९
न च शख्यम् मया तात स्थातुम् क्षणमपि प्रभो ।
स शोकम् ध्रारयस्वेमम् न हि मेऽस्ति विपर्ययः ॥२-३४-४९॥
Slōka 50 / श्लोक ५०
अर्थितो ह्यस्मि कैकेय्या वनम् गच्छेति राघव ।
मया चोक्तं प्रजामीति तत्सत्यमनुपालये ॥२-३४-५०॥
Slōka 51 / श्लोक ५१
मा चोत्कण्थां कृथा देव वने रम्स्यामहे वयम् ।
प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते ॥२-३४-५१॥
Slōka 52 / श्लोक ५२
पिता हि दैवतम् तात देवतानामपि स्मृतम् ।
तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥२-३४-५२॥
Slōka 53 / श्लोक ५३
चतुर्धशसु वर्षेषु गतेषु नरसत्तम ।
पुनर्द्रक्ष्यसि माम् प्राप्तम् सन्तापोऽयम् विमुच्यताम् ॥२-३४-५३॥
Slōka 54 / श्लोक ५४
येन सम्स्तम्भनीयोऽयम् सर्वो बाष्पगLओ जनः ।
स त्वम् पुरुषशार्दूल किमर्थम् विक्रियाम् गतः ॥२-३४-५४॥
Slōka 55 / श्लोक ५५
पुरम् च राष्ट्रम् च मही च केवला ।
मया निसृष्टा भरताय दीयताम् ।अहम् निदेशम् भवतः अनुपालयन् ।वनम् गमिष्यामि चिराय सेवितुम् ॥२-३४-५५॥
Slōka 56 / श्लोक ५६
मया निसृष्टाम् भरतः महीम् इमाम् ।
सशैल खण्डाम् सपुराम् सकाननाम् ।शिवाम् सुसीमाम् अनुशास्तु केवलम् ।त्वया यद् उक्तम् नृपते यथा अस्तु तत् ॥२-३४-५६॥
Slōka 57 / श्लोक ५७
न मे तथा पार्थिव धीयते मनो ।
महत्सु कामेषु न च आत्मनः प्रिये ।यथा निदेशे तव शिष्ट सम्मते ।व्यपैतु दुह्खम् तव मत् कृते अनघ ॥२-३४-५७॥
Slōka 58 / श्लोक ५८
तत् अद्य न एव अनघ राज्यम् अव्ययम् ।
न सर्व कामान् न सुखम् न मैथिलीम् ।न जीवितम् त्वाम् अनृतेन योजयन् ।वृणीय सत्यम् व्रतम् अस्तु ते तथा ॥२-३४-५८॥
Slōka 59 / श्लोक ५९
फलानि मूलानि च भक्षयन् वने ।
गिरीमः च पश्यन् सरितः सराम्सि च ।वनम् प्रविश्य एव विचित्र पादपम् ।सुखी भविष्यामि तव अस्तु निर्वृतिः ॥२-३४-५९॥
Slōka 60 / श्लोक ६०
एवम् स राजा व्यसनाभिपन्नः ।
शोकेन दुःखेन च ताम्यमानः ।आलिङ्ग्य पुत्रम् सुविनष्टसम्ज्ञो ।मोहम् गतो नैव चिचेश्ट किम्चित् ॥२-३४-६०॥
Slōka 61 / श्लोक ६१
देव्यस्ततः सम्रुरुदुः समेता ।
स्ताम् वर्जयित्वा नरदेवपत्नीम् ।रुदन् सुमन्त्रोऽपि जगाम मूर्छाम् ।हा हा कृतम् तत्र बभूव सर्वम् ॥२-३४-६१॥