Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 10 / सर्गः १०

Slōka 1 / श्लोक १

तत्र दिव्य उपमम् मुख्यम् स्फाटिकम् रत्न भूषितम् ।
अवेक्षमाणो हनुमान् ददर्श शयन आसनम् ॥५-१०-१॥

Slōka 2 / श्लोक २

दान्तकाञ्चनिचित्राङ्गेर्वैश्च वरासनैः ।
महार्हस्तरणोपेतैरुपपन्नम् महाधनैः ॥५-१०-२॥

Slōka 3 / श्लोक ३

तस्य च एकतमे देशे सो अग्र्य माल्य विभूषितम् ।
ददर्श पाण्डुरम् चत्रम् तारा अधिपति सम्निभम् ॥५-१०-३॥

Slōka 4 / श्लोक ४

जातरूपपरिक्षिप्तम् चित्रभानुसमप्रभम् ।
अशोकमालाविततम् ददर्श परमासनम् ॥५-१०-४॥

Slōka 5 / श्लोक ५

वाल व्यजन हस्ताभिर् वीज्यमानम् समन्ततः ।
गन्धैः च विविधैर् जुष्टम् वर धूपेन धूपितम् ॥५-१०-५॥

Slōka 6 / श्लोक ६

परम आस्तरण आस्तीर्णम् आविक अजिन सम्व्र्तम् ।
दामभिर् वर माल्यानाम् समन्ताद् उपशोभितम् ॥५-१०-६॥

Slōka 7 / श्लोक ७

तस्मिन् जीमूत सम्काशम् प्रदीप्त उत्तम कुण्डलम् ।
लोहित अक्षम् महा बाहुम् महा रजत वाससम् ॥५-१०-७॥

Slōka 8 / श्लोक ८

लोहितेन अनुलिप्त अन्गम् चन्दनेन सुगन्धिना ।
सम्ध्या रक्तम् इव आकाशे तोयदम् सतडिद् गुणम् ॥५-१०-८॥

Slōka 9 / श्लोक ९

वृतम् आभरणैर् दिव्यैः सुरूपम् काम रूपिणम् ।
सव्र्क्ष वन गुल्म आढ्यम् प्रसुप्तम् इव मन्दरम् ॥५-१०-९॥

Slōka 10 / श्लोक १०

क्रीडित्वा उपरतम् रात्रौ वर आभरण भूषितम् ।
प्रियम् राक्षस कन्यानाम् राक्षसानाम् सुख आवहम् ॥५-१०-१०॥

Slōka 11 / श्लोक ११

पीत्वा अपि उपरतम् च अपि ददर्श स महा कपिः ।
भास्करे शयने वीरम् प्रसुप्तम् राक्षस अधिपम् ॥५-१०-११॥

Slōka 12 / श्लोक १२

निह्श्वसन्तम् यथा नागम् रावणम् वानर उत्तमः ।
आसाद्य परम उद्विग्नः सो अपासर्पत् सुभीतवत् ॥५-१०-१२॥

Slōka 13 / श्लोक १३

अथ आरोहणम् आसाद्य वेदिका अन्तरम् आश्रितः ।
सुप्तम् राक्षस शार्दूलम् प्रेक्षते स्म महा कपिः ॥५-१०-१३॥

Slōka 14 / श्लोक १४

शुशुभे राक्षस इन्द्रस्य स्वपतः शयन उत्तमम् ।
गन्ध हस्तिनि सम्विष्टे यथा प्रस्रवणम् महत् ॥५-१०-१४॥

Slōka 15 / श्लोक १५

कान्चन अन्गद नद्धौ च ददर्श स महात्मनः ।
विक्षिप्तौ राक्षस इन्द्रस्य भुजाव् इन्द्र ध्वज उपमौ ॥५-१०-१५॥

Slōka 16 / श्लोक १६

ऐरावत विषाण अग्रैर् आपीडित क्र्त व्रणौ ।
वज्र उल्लिखित पीन अम्सौ विष्णु चक्र परिक्षितौ ॥५-१०-१६॥

Slōka 17 / श्लोक १७

पीनौ समसुजात अम्सौ सम्गतौ बल सम्युतौ ।
सुलक्षण नख अन्गुष्ठौ स्वन्गुली तल लक्षितौ ॥५-१०-१७॥

Slōka 18 / श्लोक १८

सम्हतौ परिघ आकारौ व्र्त्तौ करि कर उपमौ ।
विक्षिप्तौ शयने शुभ्रे पन्च शीर्षाव् इव उरगौ ॥५-१०-१८॥

Slōka 19 / श्लोक १९

शश क्षतज कल्पेन सुशीतेन सुगन्धिना ।
चन्दनेन पर अर्ध्येन स्वनुलिप्तौ स्वलम्क्र्तौ ॥५-१०-१९॥

Slōka 20 / श्लोक २०

उत्तम स्त्री विम्र्दितौ गन्ध उत्तम निषेवितौ ।
यक्ष पन्नग गन्धर्व देव दानव राविणौ ॥५-१०-२०॥

Slōka 21 / श्लोक २१

ददर्श स कपिः तस्य बाहू शयन सम्स्थितौ ।
मन्दरस्य अन्तरे सुप्तौ महा अर्ही रुषिताव् इव ॥५-१०-२१॥

Slōka 22 / श्लोक २२

ताभ्याम् स परिपूर्णाभ्याम् भुजाभ्याम् राक्षस अधिपः ।
शुशुभे अचल सम्काशः श्र्न्गाभ्याम् इव मन्दरः ॥५-१०-२२॥

Slōka 23 / श्लोक २३

चूत पुम्नाग सुरभिर् बकुल उत्तम सम्युतः ।
मृष्ट अन्न रस सम्युक्तः पान गन्ध पुरः सरः ॥५-१०-२३॥

Slōka 24 / श्लोक २४

तस्य राक्षस सिम्हस्य निश्चक्राम मुखान् महान् ।
शयानस्य विनिह्श्वासः पूरयन्न् इव तद् ग्र्हम् ॥५-१०-२४॥

Slōka 25 / श्लोक २५

मुक्ता मणि विचित्रेण कान्चनेन विराजता ।
मुकुटेन अपव्र्त्तेन कुण्डल उज्ज्वलित आननम् ॥५-१०-२५॥

Slōka 26 / श्लोक २६

रक्त चन्दन दिग्धेन तथा हारेण शोभिता ।
पीन आयत विशालेन वक्षसा अभिविराजितम् ॥५-१०-२६॥

Slōka 27 / श्लोक २७

पाण्डुरेण अपविद्धेन क्षौमेण क्षतज ईक्षणम् ।
महा अर्हेण सुसम्वीतम् पीतेन उत्तम वाससा ॥५-१०-२७॥

Slōka 28 / श्लोक २८

माष राशि प्रतीकाशम् निह्श्वसन्तम् भुजन्गवत् ।
गान्गे महति तोय अन्ते प्रसुतमिव कुन्जरम् ॥५-१०-२८॥

Slōka 29 / श्लोक २९

चतुर्भिः कान्चनैर् दीपैर् दीप्यमानैः चतुर् दिशम् ।
प्रकाशी क्र्त सर्व अन्गम् मेघम् विद्युद् गणैर् इव ॥५-१०-२९॥

Slōka 30 / श्लोक ३०

पाद मूल गताः च अपि ददर्श सुमहात्मनः ।
पत्नीः स प्रिय भार्यस्य तस्य रक्षः पतेर् ग्र्हे ॥५-१०-३०॥

Slōka 31 / श्लोक ३१

शशि प्रकाश वदना वर कुण्डल भूषिताः ।
अम्बाल माल्य आभरणा ददर्श हरि यूथपः ॥५-१०-३१॥

Slōka 32 / श्लोक ३२

नृत्त वादित्र कुशला राक्षस इन्द्र भुज अन्कगाः ।
वर आभरण धारिण्यो निषन्ना दद्र्शे कपिः ॥५-१०-३२॥

Slōka 33 / श्लोक ३३

वज्र वैदूर्य गर्भाणि श्रवण अन्तेषु योषिताम् ।
ददर्श तापनीयानि कुण्डलानि अन्गदानि च ॥५-१०-३३॥

Slōka 34 / श्लोक ३४

तासाम् चन्द्र उपमैर् वक्त्रैः शुभैर् ललित कुण्डलैः ।
विरराज विमानम् तन् नभः तारा गणैर् इव ॥५-१०-३४॥

Slōka 35 / श्लोक ३५

मद व्यायाम खिन्नाः ताः राक्षस इन्द्रस्य योषितः ।
तेषु तेष्व् अवकाशेषु प्रसुप्ताः तनु मध्यमाः ॥५-१०-३५॥

Slōka 36 / श्लोक ३६

अङ्गहारैस्तथैवान्या कोवलैर्नृत्तशालिनी ।
विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी ॥५-१०-३६॥

Slōka 37 / श्लोक ३७

काचिद् वीणाम् परिष्वज्य प्रसुप्ता सम्प्रकाशते ।
महा नदी प्रकीर्णा इव नलिनी पोतम् आश्रिता ॥५-१०-३७॥

Slōka 38 / श्लोक ३८

अन्या कक्ष गतेन एव मड्डुकेन असित ईक्षणा ।
प्रसुप्ता भामिनी भाति बाल पुत्रा इव वत्सला ॥५-१०-३८॥

Slōka 39 / श्लोक ३९

पटहम् चारु सर्व अन्गी पीड्य शेते शुभ स्तनी ।
चिरस्य रमणम् लब्ध्वा परिष्वज्य इव कामिनी ॥५-१०-३९॥

Slōka 40 / श्लोक ४०

काचिद् अम्शम् परिष्वज्य सुप्ता कमल लोचना ।
रहः प्रियतमम् गृह्य सकामेव च कामिनी ॥५-१०-४०॥

Slōka 41 / श्लोक ४१

विपञ्चैइम् परिगृह्यान्या नियता नृत्तशालिनी ।
निद्रा वशम् अनुप्राप्ता सह कान्ता इव भामिनी ॥५-१०-४१॥

Slōka 42 / श्लोक ४२

अन्या कनक सम्काशैर् म्र्दु पीनैर् मनो रमैः ।
मृदन्गम् परिपीड्य अन्गैः प्रसुप्ता मत्त लोचना ॥५-१०-४२॥

Slōka 43 / श्लोक ४३

भुज पार्श्व अन्तरस्थेन कक्षगेन क्र्श उदरी ।
पणवेन सह अनिन्द्या सुप्ता मद क्र्त श्रमा ॥५-१०-४३॥

Slōka 44 / श्लोक ४४

डिण्डिमम् परिग्र्ह्य अन्या तथैव आसक्त डिण्डिमा ।
प्रसुप्ता तरुणम् वत्सम् उपगूह्य इव भामिनी ॥५-१०-४४॥

Slōka 45 / श्लोक ४५

काचिद् आडम्बरम् नारी भुज सम्भोग पीडितम् ।
कृत्वा कमल पत्र अक्षी प्रसुप्ता मद मोहिता ॥५-१०-४५॥

Slōka 46 / श्लोक ४६

कलशीम् अपविद्ध्य अन्या प्रसुप्ता भाति भामिनी ।
वसन्ते पुष्प शबला माला इव परिमार्जिता ॥५-१०-४६॥

Slōka 47 / श्लोक ४७

पाणिभ्याम् च कुचौ काचित् सुवर्ण कलश उपमौ ।
उपगूह्य अबला सुप्ता निद्रा बल पराजिता ॥५-१०-४७॥

Slōka 48 / श्लोक ४८

अन्या कमल पत्र अक्षी पूर्ण इन्दु सद्र्श आनना ।
अन्याम् आलिन्ग्य सुश्रोणी प्रसुप्ता मद विह्वला ॥५-१०-४८॥

Slōka 49 / श्लोक ४९

आतोद्यानि विचित्राणि परिष्वज्य वर स्त्रियः ।
निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकान् इव ॥५-१०-४९॥

Slōka 50 / श्लोक ५०

तासाम् एक अन्त विन्यस्ते शयानाम् शयने शुभे ।
ददर्श रूप सम्पन्नाम् अपराम् स कपिः स्त्रियम् ॥५-१०-५०॥

Slōka 51 / श्लोक ५१

मुक्ता मणि समायुक्तैर् भूषणैः सुविभूषिताम् ।
विभूषयन्तीम् इव च स्व श्रिया भवन उत्तमम् ॥५-१०-५१॥

Slōka 52 / श्लोक ५२

गौरीम् कनक वर्ण आभाम् इष्टाम् अन्तः पुर ईश्वरीम् ।
कपिर् मन्द उदरीम् तत्र शयानाम् चारु रूपिणीम् ॥५-१०-५२॥

Slōka 53 / श्लोक ५३

स ताम् दृष्ट्वा महा बाहुर् भूषिताम् मारुत आत्मजः ।
तर्कयाम् आस सीता इति रूप यौवन सम्पदा ॥५-१०-५३॥

Slōka 54 / श्लोक ५४

हर्षेण महता युक्तो ननन्द हरि यूथपः ।
आश्पोटयाम् आस चुचुम्ब पुच्चम् ।ननन्द चिक्रीड जगौ जगाम।स्तम्भान् अरोहन् निपपात भूमौ ।निदर्शयन् स्वाम् प्रक्र्तिम् कपीनाम् ॥५-१०-५४॥