उत्तरकाण्डम्डम्
Chapter 27 / सर्गः २७
Slōka 1 / श्लोक १
कैलासं लङ्घयित्वाथ दशग्रीवः स रावणः ।
आससाद महातेजा इन्द्रलोकं निशाचरः ।। ७.२७.१ ॥
Slōka 2 / श्लोक २
तस्य राक्षससैन्यस्य समन्तादुपयास्यतः ।
देवलोकं ययौ शब्दो मथ्यमानार्णवोपमः ।। ७.२७.२ ॥
Slōka 3 / श्लोक ३
श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात् ।
अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान् ।। ७.२७.३ ॥
Slōka 4 / श्लोक ४
आदित्यान्सवसून्रुद्रान्विश्वान्साध्यान्मरुद्गणान् ।
सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः ।। ७.२७.४ ॥
Slōka 5 / श्लोक ५
एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि ।
सन्नह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः ।। ७.२७.५ ॥
Slōka 6 / श्लोक ६
स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति ।
विष्णोः समीपमागत्य वाक्यमेतदुवाच ह ।। ७.२७.६ ॥
Slōka 7 / श्लोक ७
विष्णो कथं करिष्यामि महावीर्यपराक्रमः ।
असौ हि बलवद्रक्षो युद्धार्थमभिवर्तते ।। ७.२७.७ ॥
Slōka 8 / श्लोक ८
वरप्रदानाद्बलवान्न खल्वन्येन हेतुना ।
तत्तु सत्यवचः कार्यं यदुक्तं पद्मयोनिना ।। ७.२७.८ ॥
Slōka 9 / श्लोक ९
तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ ।
त्वद्बलं समवष्टभ्य मया दग्धास्तथा कुरु ।। ७.२७.९ ॥
Slōka 10 / श्लोक १०
नह्यन्यो देवदेवेश त्वामृते मधुसूदन ।
गतिः परायणं नास्ति त्रैलोक्ये सचराचरे ।। ७.२७.१० ॥
Slōka 11 / श्लोक ११
त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः ।
त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः ।। ७.२७.११ ॥
Slōka 12 / श्लोक १२
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ।
त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये ।। ७.२७.१२ ॥
Slōka 13 / श्लोक १३
तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम् ।
अपि चक्रसहायस्त्वं योत्स्यसे रावणं प्रभो ।। ७.२७.१३ ॥
Slōka 14 / श्लोक १४
एवमुक्तः स शक्रेण देवो नारायणः प्रभुः ।
अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे ।। ७.२७.१४ ॥
Slōka 15 / श्लोक १५
न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः ।
हन्तुं चापि समासाद्य वरदानेन दुर्जयः ।। ७.२७.१५ ॥
Slōka 16 / श्लोक १६
सर्वथा तु महत्कर्म करिष्यति बलोत्कटः ।
राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः ।। ७.२७.१६ ॥
Slōka 17 / श्लोक १७
यत्तु मां त्वमभाषिष्ठ युद्ध्यस्वेति सुरेश्वर ।
नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि ।। ७.२७.१७ ॥
Slōka 18 / श्लोक १८
नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते ।
दुर्लभश्चैव कामो ऽद्य वरगुप्ताद्धि रावणात् ।। ७.२७.१८ ॥
Slōka 19 / श्लोक १९
प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो ।
भविता ऽस्मि यथा ऽस्याहं रक्षसो मृत्युकारणम् ।। ७.२७.१९ ॥
Slōka 20 / श्लोक २०
अहमेव निहन्ता ऽस्मि रावणं सपुरःसरम् ।
देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम् ।एतत्ते कथितं तत्त्वं देवराज शचीपते ।। ७.२७.२० ॥
Slōka 21 / श्लोक २१
युद्ध्यस्व विगतत्रासः सर्वैः सार्धं महाबल ।
। ७.२७.२१ ॥
Slōka 22 / श्लोक २२
यामि ज्ञात्वा कालमुपागतम् ।
ततो रुद्राः सहादित्या वसवो मरुतो ऽश्वनौ ।सन्नद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात् ।। ७.२७.२२ ॥
Slōka 23 / श्लोक २३
एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये ।
तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः ।। ७.२७.२३ ॥
Slōka 24 / श्लोक २४
ते प्रयुद्धा महावीर्या ह्यन्योन्यमभिवीक्ष्य वै ।
सङ्ग्राममेवाभिमुखा ह्यभवर्तन्त हृष्टवत् ।। ७.२७.२४ ॥
Slōka 25 / श्लोक २५
ततो दैवतसैन्यनां सङ्क्षोभः समजायत ।
तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि ।। ७.२७.२५ ॥
Slōka 26 / श्लोक २६
ततो युद्धं समभवेद्देवदानवरक्षसाम् ।
घोरं तुमुलनिर्ह्रादं नानाप्रहरणोद्यतम् ।। ७.२७.२६ ॥
Slōka 27 / श्लोक २७
एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः ।
युद्धार्थं समवर्तन्त सचिवा रावणस्य ते ।। ७.२७.२७ ॥
Slōka 28 / श्लोक २८
मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ ।
अकम्पनो निकुम्भश्च शुकः सारण एव च ।। ७.२७.२८ ॥
Slōka 29 / श्लोक २९
संह्लादो धूमकेतुश्च महादंष्ट्रो घटोदरः ।
जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः ।। ७.२७.२९ ॥
Slōka 30 / श्लोक ३०
सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः ।
त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः ।। ७.२७.३० ॥
Slōka 31 / श्लोक ३१
महाकायो ऽतिकायश्च देवान्तकनरान्तकौ ।
एतैः सर्वैः परिवृतो महावीर्यो महाबलः ।। ७.२७.३१ ॥
Slōka 32 / श्लोक ३२
रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह ।
स दैवतगणान्सर्वान्नानाप्रहरणैः शितैः ।व्यध्वंसयत्सुसङ्क्रुद्धो वायुर्जलधरानिव ।। ७.२७.३२ ॥
Slōka 33 / श्लोक ३३
तद्दैवतबलं राम हन्यमानं निशाचरैः ।
प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव ।। ७.२७.३३ ॥
Slōka 34 / श्लोक ३४
एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः ।
सावित्र इति विख्यातः प्रविवेश रणाजिरम् ।। ७.२७.३४ ॥
Slōka 35 / श्लोक ३५
तथा ऽ ऽदित्यौ महावीर्यौ त्वष्टा पूषा च दंशितौ ।
निंर्भयौ सह सैन्येन तदा प्राविशतां रणे ।। ७.२७.३५ ॥
Slōka 36 / श्लोक ३६
ततो युद्धं समभवत्सुराणां सह राक्षसैः ।
क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम् ।। ७.२७.३६ ॥
Slōka 37 / श्लोक ३७
ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान् ।
नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः ।। ७.२७.३७ ॥
Slōka 38 / श्लोक ३८
देवाश्च राक्षसान्घोरान्महाबलपराक्रमान् ।
समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम् ।। ७.२७.३८ ॥
Slōka 39 / श्लोक ३९
एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः ।
नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सो ऽभ्यवर्तत ।। ७.२७.३९ ॥
Slōka 40 / श्लोक ४०
स दैवतबलं सर्वं नानाप्रहणैः शितैः ।
व्यध्वंसयत सङ्क्रुद्धो वायुर्जलधरं यथा ।। ७.२७.४० ॥
Slōka 41 / श्लोक ४१
ते महाबाणवर्षैश्च शूलप्रासैः सुदारुणैः ।
हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः ।। ७.२७.४१ ॥
Slōka 42 / श्लोक ४२
ततो विद्राव्यमाणेषु दैवतेषु सुमालिना ।
वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः ।। ७.२७.४२ ॥
Slōka 43 / श्लोक ४३
संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम् ।
विक्रमेण महातेजा वारयामास संयुगे ।। ७.२७.४३ ॥
Slōka 44 / श्लोक ४४
ततस्तयोर्महायुद्धमभवद्रोमहर्षणम् ।
। ७.२७.४४ ॥
Slōka 45 / श्लोक ४५
सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः ।
ततस्तस्य महाबाणैर्वसुना सुमहात्मना ।निहतः पन्नगरथः क्षणेन विनिपातितः ।। ७.२७.४५ ॥
Slōka 46 / श्लोक ४६
हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम् ।
गदां तस्य वधार्थाय वसुर्जग्राह पाणिना ।। ७.२७.४६ ॥
Slōka 47 / श्लोक ४७
ततः प्रगृह्य दीप्ताग्रां कालदण्डोपमां गदाम् ।
तां मूर्ध्नि पातयामास सावित्रो वै सुमालिनः ।। ७.२७.४७ ॥
Slōka 48 / श्लोक ४८
सा तस्योपरि चोल्काभा पतन्तीव बभौ गदा ।
इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः ।। ७.२७.४८ ॥
Slōka 49 / श्लोक ४९
तस्य नैवास्थि न शिरो न मांसं ददृशे तदा ।
गदया भस्मतां नीतं निहतस्य रणाजिरे ।। ७.२७.४९ ॥
Slōka 50 / श्लोक ५०
तं दृष्ट्वा निहतं सङ्ख्ये राक्षसास्ते समन्ततः ।
व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम् ।विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे ।। ७.२७.५० ।।