किष्किन्धाकाण्डम्डम्
Chapter 44 / सर्गः ४४
Slōka 1 / श्लोक १
Slōka 1
विशेषेण तु सुग्रीवो हनूमति अर्थम् उक्तवान् ।
स हि तस्मिन् हरि श्रेष्ठे निश्चितार्थो अर्थ साधने ॥४-४४-१॥
Slōka 2 / श्लोक २
Slōka 2
अब्रवीत् च हनूमंतम् विक्रंतम् अनिल आत्मजम् ।
सुग्रीवः परम प्रीतः प्रभुः सर्व वन ओकसाम् ॥४-४४-२॥
Slōka 3 / श्लोक ३
Slōka 3
न भूमौ न अंतरिक्षे वा न अंबरे न अमर आलये ।
न अप्सु वा गति संगम् ते पश्यामि हरि पुम्गव ॥४-४४-३॥
Slōka 4 / श्लोक ४
Slōka 4
स असुराः सह गंधर्वाः स नाग नर देवताः ।
विदिताः सर्व लोकाः ते स सागर धरा धराः ॥४-४४-४॥
Slōka 5 / श्लोक ५
Slōka 5
गतिः वेगः च तेजः च लाघवम् च महाकपे ।
पितुः ते सदृशम् वीर मारुतस्य महा ओजसः ॥४-४४-५॥
Slōka 6 / श्लोक ६
Slōka 6
तेजसा वा अपि ते भूतम् न समम् भुवि विद्यते ।
तत् यथा लभ्यते सीता तत् त्वम् एव अनुचिंतय ॥४-४४-६॥
Slōka 7 / श्लोक ७
Slōka 7
त्वयि एव हनुमन् अस्ति बलम् बुद्धिः पराक्रमः ।
देश काल अनुवृत्तिः च नयः च नय पण्डित ॥४-४४-७॥
Slōka 8 / श्लोक ८
Slōka 8
ततः कार्य समासंगम् अवगम्य हनूमति ।
विदित्वा हनुमन्तम् च चिन्तयामास राघवः ॥४-४४-८॥
Slōka 9 / श्लोक ९
Slōka 9
सर्वथा निश्चित अर्थो अयम् हनूमति हरि ईश्वरः ।
निश्चित अर्थतरः च अपि हनूमान् कार्य साधने ॥४-४४-९॥
Slōka 10 / श्लोक १०
Slōka 10
तत् एवम् प्रस्थितस्य अस्य परिज्ञातस्य कर्मभिः ।
भर्त्रा परिगृहीतस्य ध्रुवः कार्य फलोदयः ॥४-४४-१०॥
Slōka 11 / श्लोक ११
Slōka 11
तम् समीक्ष्य महातेजा व्यवसायोत्तरम् हरिम् ।
कृतार्थ इव संहृष्टः प्रहृष्ट इन्द्रिय मानसः ॥४-४४-११॥
Slōka 12 / श्लोक १२
Slōka 12
ददौ तस्य ततः प्रीतः स्व नामांक उपशोभितम् ।
अंगुलीयम् अभिज्ञानम् राजपुत्र्याः परंतपः ॥४-४४-१२॥
Slōka 13 / श्लोक १३
Slōka 13
अनेन त्वाम् हरिश्रेष्ठ चिह्नेन जनकाअत्मजा ।
मत् सकाशात् अनुप्राप्तम् अनुद्विग्ना अनुपश्यति ॥४-४४-१३॥
Slōka 14 / श्लोक १४
Slōka 14
व्यवसायः च ते वीर सत्त्व युक्तः च विक्रमः ।
सुग्रीवस्य च संदेशः सिद्धिम् कथयति इव मे ॥४-४४-१४॥
Slōka 15 / श्लोक १५
Slōka 15
स तत् गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृतांजलिः ।
वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः ॥४-४४-१५॥
Slōka 16 / श्लोक १६
Slōka 16
स तत् प्रकर्षन् हरिणाम् महत् बलम्बभूव वीरः पवनात्मजः कपिः ।
गत अंबुदे व्योम्नि विशुद्ध मण्डलःशशी इव नक्षत्र गणोपशोभितः ॥४-४४-१६॥
Slōka 17 / श्लोक १७
Slōka 17
अतिबल बलम् आश्रितः तव अहम्हरि वर विक्रम विक्रमैः अनल्पैः ।
पवन सुत यथा अधिगम्यते साजनक सुता हनुमन् तथा कुरुष्व ॥४-४४-१७॥