Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 78 / सर्गः ७८

Slōka 1 / श्लोक १

श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् ।
प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ।। ७.७८.१ ॥

Slōka 2 / श्लोक २

शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः ।
अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ।। ७.७८.२ ॥

Slōka 3 / श्लोक ३

पुरा वैदर्भको राजा पिता मम महायशाः ।
सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ।। ७.७८.३ ॥

Slōka 4 / श्लोक ४

तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत ।
अहं श्वेत इति ख्यातो यवीयान्सुरथो ऽभवत् ।। ७.७८.४ ॥

Slōka 5 / श्लोक ५

ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ।
तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ।। ७.७८.५ ॥

Slōka 6 / श्लोक ६

एवं वर्षसहस्राणि समतीतानि सुव्रत ।
राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ।। ७.७८.६ ॥

Slōka 7 / श्लोक ७

सो ऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ।
कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ।। ७.७८.७ ॥

Slōka 8 / श्लोक ८

सो ऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ।
तपश्चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे ।। ७.७८.८ ॥

Slōka 9 / श्लोक ९

भ्रातरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् ।
इदं सरः समासाद्य तपस्तप्तं मया चिरम् ।। ७.७८.९ ॥

Slōka 10 / श्लोक १०

सो ऽहं वर्षसहस्राणि तपस्त्रीणि महावने ।
तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ।। ७.७८.१० ॥

Slōka 11 / श्लोक ११

तस्य मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम ।
बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः ।गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ।। ७.७८.११ ॥

Slōka 12 / श्लोक १२

भगवन्ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः ।
कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ।। ७.७८.१२ ॥

Slōka 13 / श्लोक १३

आहारः कश्च मे देव तन्मे ब्रूहि पितामह ।
। ७.७८.१३ ॥

Slōka 14 / श्लोक १४

पितामहस्तु मामाह तवाहारः सुदेवज ।
स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ।। ७.७८.१४ ॥

Slōka 15 / श्लोक १५

स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ।
अनुप्तं रोहते श्वेत न कदाचिन्महामते ।। ७.७८.१५ ॥

Slōka 16 / श्लोक १६

तृप्तिर्न ते ऽस्ति सूक्ष्मा ऽपि वने सत्वनिषेविते ।
पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप ।न हि दत्ता त्वयेन्द्राभ यस्मादतिथये ऽपि वै ।। ७.७८.१६ ।।

Slōka 17 / श्लोक १७

दत्तं न ते ऽस्ति सूक्ष्मो ऽपि तप एव निषेवसे ।
तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ।। ७.७८.१७ ॥

Slōka 18 / श्लोक १८

स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।
भक्षयित्वामृतरसं तेन तृप्तिर्भविष्यति ।। ७.७८.१८ ॥

Slōka 19 / श्लोक १९

यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः ।
आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यते ।। ७.७८.१९ ॥

Slōka 20 / श्लोक २०

स हि तारयितुं सौम्य शक्तः सुरगणानपि ।
किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ।। ७.७८.२० ॥

Slōka 21 / श्लोक २१

सो ऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ।
आहारं गर्हितं स्वशरीरं द्विजोत्तम ।। ७.७८.२१ ॥

Slōka 22 / श्लोक २२

बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया ।
क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ।। ७.७८.२२ ॥

Slōka 23 / श्लोक २३

तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोचय ।
अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ।। ७.७८.२३ ॥

Slōka 24 / श्लोक २४

इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ।
प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ।। ७.७८.२४ ॥

Slōka 25 / श्लोक २५

इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज ।
भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ।। ७.७८.२५ ॥

Slōka 26 / श्लोक २६

सर्वान्कामान्प्रयच्छामि भोगांश्च मुनिपुङ्गव ।
तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ।। ७.७८.२६ ॥

Slōka 27 / श्लोक २७

तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् ।
तारणायोपजग्राह तदाभरणमुत्तमम् ।। ७.७८.२७ ॥

Slōka 28 / श्लोक २८

मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे ।
मानुषः पूर्वको देहो राजर्षेर्विननाश ह ।। ७.७८.२८ ॥

Slōka 29 / श्लोक २९

प्रनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा ।
तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ।। ७.७८.२९ ॥

Slōka 30 / श्लोक ३०

तेनेदं शक्रतुल्येन दिव्यमाभरणं मम ।
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ।। ७.७८.३० ।।