अरण्यकाण्डम्
Chapter 68 / सर्गः ६८
Slōka 1 / श्लोक १
रामः प्रेक्ष्य तु तम् गृध्रम् भुवि रौद्रेण पातितम् ।
सौमित्रिम् मित्र संपन्नम् इदम् वचनम् अब्रवीत् ॥३-६८-१॥
Slōka 2 / श्लोक २
मम अयम् नूनम् अर्थेषु यतमानो विहंगमः ।
राक्षसेन हतः संख्ये प्राणान् त्यजति मत् कृते ॥३-६८-२॥
Slōka 3 / श्लोक ३
अति खिन्नः शरीरे अस्मिन् प्राणो लक्ष्मण विद्यते ।
तथा स्वर विहीनो अयम् विक्लवम् समुदीक्षते ॥३-६८-३॥
Slōka 4 / श्लोक ४
जटायो यदि शक्नोषि वाक्यम् व्याहरितुम् पुनः ।
सीताम् आख्याहि भद्रम् ते वधम् आख्याहि च आत्मनः ॥३-६८-४॥
Slōka 5 / श्लोक ५
किम् निमित्तो जहार आर्याम् रावणः तस्य किम् मया ।
अपराधम् तु यम् दृष्ट्वा रावणेन हृता प्रिया ॥३-६८-५॥
Slōka 6 / श्लोक ६
कथम् तत् चन्द्र संकाशम् मुखम् आसीत् मनोहरम् ।
सीतया कानि च उक्तानि तस्मिन् काले द्विजोत्तम ॥३-६८-६॥
Slōka 7 / श्लोक ७
कथम् वीर्यः कथम् रूपः किम् कर्मा स च राक्षसः ।
क्व च अस्य भवनम् तात ब्रूहि मे परिपृच्छतः ॥३-६८-७॥
Slōka 8 / श्लोक ८
तम् उद्वीक्ष्य सः धर्मात्मा विलपन्तम् अनाथवत् ।
वाचा विक्लवया रामम् इदम् वचनम् अब्रवीत् ॥३-६८-८॥
Slōka 9 / श्लोक ९
सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना ।
मायाम् आस्थाय विपुलाम् वात दुर्दिन संकुलाम् ॥३-६८-९॥
Slōka 10 / श्लोक १०
परिक्लांतस्य मे तात पक्षौ चित्त्वा निशाचरः ।
सीताम् आदाय वैदेहीम् प्रयातो दक्षिणा मुखः ॥३-६८-१०॥
Slōka 11 / श्लोक ११
उपरुध्यन्ति मे प्राणा दृष्टिर् भ्रमति राघव ।
पश्यामि वृक्षान् सौवर्णान् उशीर कृत मूर्धजान् ॥३-६८-११॥
Slōka 12 / श्लोक १२
येन याति मुहूर्तेन सीताम् आदाय रावणः ।
विप्रनष्टम् धनम् क्षिप्रम् तत् स्वामि प्रतिपद्यते ॥३-६८-१२॥
Slōka 13 / श्लोक १३
विन्दो नाम मुहूर्तो असौ स च काकुत्स्थ न अबुधत् ।
त्वत् प्रियाम् जानकीम् हृत्वा रावणो राक्षसेश्वर ।झषवत् बडिशम् गृह्य क्षिप्रम् एव विनश्यति ॥३-६८-१३॥
Slōka 14 / श्लोक १४
न च त्वया व्यथा कार्या जनकस्य सुताम् प्रति ।
वैदेह्या रंस्यसे क्षिप्रम् हत्वा तम् रणमूर्धनि ॥३-६८-१४॥
Slōka 15 / श्लोक १५
असंमूढस्य गृध्रस्य रामम् प्रति अनुभाषतः ।
आस्यात् सुस्राव रुधिरम् म्रियमाणस्य स अमिषम् ॥३-६८-१५॥
Slōka 16 / श्लोक १६
पुत्रो विश्रवसः साक्षात् भ्राता वैश्रवणस्य च ।
इति उक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥३-६८-१६॥
Slōka 17 / श्लोक १७
ब्रूहि ब्रूहि इति रामस्य ब्रुवाणस्य कृतांजलेः ।
त्यक्त्वा शरीरम् गृध्रस्य जग्मुः प्राणा विहायसम् ॥३-६८-१७॥
Slōka 18 / श्लोक १८
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा ।
विक्षिप्य च शरीरम् स्वम् पपात धरणी तले ॥३-६८-१८॥
Slōka 19 / श्लोक १९
तम् गृध्रम् प्रेक्ष्य ताम्र अक्षम् गत असुम् अचलोपमम् ।
रामः सु बहुभिः दुह्खैः दीनः सौमित्रिम् अब्रवीत् ॥३-६८-१९॥
Slōka 20 / श्लोक २०
बहूनि रक्षसाम् वासे वर्षाणि वसता सुखम् ।
अनेन दण्डकारण्ये विशीर्णम् इह पक्षिणा ॥३-६८-२०॥
Slōka 21 / श्लोक २१
अनेक वार्षिको यः तु चिर काल समुत्थितः ।
सो अयम् अद्य हतः शेते कालो हि दुर्अतिक्रमः ॥३-६८-२१॥
Slōka 22 / श्लोक २२
पश्य लक्ष्मण गृध्रो अयम् उपकारी हतः च मे ।
सीताम् अभ्यवपन्नो हि रावणेन बलीयसा ॥३-६८-२२॥
Slōka 23 / श्लोक २३
गृध्र राज्यम् परित्यज्य पितृ पैतामहम् महत् ।
मम हेतोः अयम् प्राणान् मुमोच पतगेश्वरः ॥३-६८-२३॥
Slōka 24 / श्लोक २४
सर्वत्र खलु दृश्यन्ते साधवो धर्म चारिणः ।
शूराः शरण्याः सौमित्रे तिर्यक् योनि गतेषु अपि ॥३-६८-२४॥
Slōka 25 / श्लोक २५
सीता हरणजं दुःखम् न मे सौम्य तथा गतम् ।
यथा विनाशो गृध्रस्य मत् कृते च परंतप ॥३-६८-२५॥
Slōka 26 / श्लोक २६
राजा दशरथः श्रीमान् यथा मम मया यशाः ।
पूजनीयः च मान्यः च तथा अयम् पतगेश्वरः ॥३-६८-२६॥
Slōka 27 / श्लोक २७
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् ।
गृध्र राजम् दिधक्षामि मत् कृते निधनम् गतम् ॥३-६८-२७॥
Slōka 28 / श्लोक २८
नाथम् पतग लोकस्य चिताम् आरोपयामि अहम् ।
इमम् धक्ष्यामि सौमित्रे हतम् रौद्रेण रक्षसा ॥३-६८-२८॥
Slōka 29 / श्लोक २९
या गतिः यज्ञ शीलानाम् आहित अग्नेः च या गतिः ।
अ पर आवर्तिनाम् या च या च भूमि प्रदायिनाम् ॥३-६८-२९॥
Slōka 30 / श्लोक ३०
मया त्वम् समनुज्ञातो गच्छ लोकान् अनुत्तमान् ।
गृध्र राज महा सत्त्व संस्कृतः च मया व्रज ॥३-६८-३०॥
Slōka 31 / श्लोक ३१
एवम् उक्त्वा चिताम् दीप्ताम् आरोप्य पतगेश्वरम् ।
ददाह रामो धर्मात्मा स्व बन्धुम् इव दुःखितः ॥३-६८-३१॥
Slōka 32 / श्लोक ३२
रामो अथ सह सौमित्रिः वनम् यात्वा स वीर्यवान् ।
स्थूलान् हत्वा महा रोहीन् अनु तस्तार तम् द्विजम् ॥३-६८-३२॥
Slōka 33 / श्लोक ३३
रोहि मांसानि च उद्धृत्य पेशी कृत्वा महायशाः ।
शकुनाय ददौ रामो रम्ये हरित शाद्वले ॥३-६८-३३॥
Slōka 34 / श्लोक ३४
यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः ।
तत् स्वर्ग गमनम् पित्र्यम् क्षिप्रम् रामो जजाप ह ॥३-६८-३४॥
Slōka 35 / श्लोक ३५
ततो गोदावरीम् गत्वा नदीम् नर वर आत्मजौ ।
उदकम् चक्रतुः तस्मै गृध्र राजाय तौ उभौ ॥३-६८-३५॥
Slōka 36 / श्लोक ३६
शास्त्र दृष्टेन विधिना जले गृधाय राघवौ ।
स्नात्वा तौ गृध्र राजाय उदकम् चक्रुः तदा ॥३-६८-३६॥
Slōka 37 / श्लोक ३७
स गृध्र राजः कृतवान् यशस्करम्सु दुष्करम् कर्म रणे निपातितः ।
महर्षि कल्पेन च संस्कृतः तदाजगाम पुण्याम् गतिम् आत्मनः शुभाम् ॥३-६८-३७॥
Slōka 38 / श्लोक ३८
कृतोदकौ तौ अपि पक्षि सत्तमेस्थिराम् च बुद्धिम् प्रणिधाय जग्मुतुः ।
प्रवेश्य सीता अधिगमने ततो मनोवनम् सुरेन्द्रौ इव विष्णु वासवौ ॥३-६८-३८॥