सुन्दरकाण्डम्
Chapter 55 / सर्गः ५५
Slōka 1 / श्लोक १
लङ्कां समस्तां सन्दीप्य लाङ्गूलाग्निं महाबलः ।
निर्वापयामास तदा समुद्रे हरिसत्तमः ।। 5.55.1 ।।।।
Slōka 2 / श्लोक २
सन्दीप्यमानां विध्वस्तां त्रस्तरक्षोगणां पुरीम् ।
अवेक्ष्य हनुमान् लङ्कां चिन्तयामास वानरः ।। 5.55.2 ।।।।
Slōka 3 / श्लोक ३
तस्याभूत् सुमहांस्त्रासः कुत्सा चात्मन्यजायत ।
लङ्कां प्रदहता कर्म किंस्वित् कृतमिदं मया ।। 5.55.3 ।।।।
Slōka 4 / श्लोक ४
धन्यास्ते पुरुषश्रेष्ठा ये बुद्ध्या कोपमुत्थितम् ।
निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा ।। 5.55.4 ।।।।
Slōka 5 / श्लोक ५
क्रुद्धः पापं न कुर्यात् कः क्रुद्धो हन्याद् गुरूनपि ।
क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत् ।। 5.55.5 ।।।।
Slōka 6 / श्लोक ६
वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित् ।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् ।। 5.55.6 ।।।।
Slōka 7 / श्लोक ७
यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ।। 5.55.7 ।।।।
Slōka 8 / श्लोक ८
धिगस्तु मां सुदुर्बुद्धिं निर्लज्जं पापकृत्तमम् ।
अचिन्तयित्वा तां सीतामग्निदं स्वामिघातकम् ।। 5.55.8 ।।।।
Slōka 9 / श्लोक ९
यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी ।
दग्धा तेन मया भर्तुर्हतं कार्यमजानता ।। 5.55.9 ।।।।
Slōka 10 / श्लोक १०
यदर्थमयमारम्भस्तत्कार्यमवसादितम् ।
मया हि दहता लङ्कां न सीता परिरक्षिता ।। 5.55.10 ।।।।
Slōka 11 / श्लोक ११
ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः ।
तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः ।। 5.55.11 ।।।।
Slōka 12 / श्लोक १२
विनष्टा जानकी नूनं न ह्यदग्धः प्रदृश्यते ।
लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ।। 5.55.12 ।।।।
Slōka 13 / श्लोक १३
यदि तद्विहतं कार्यं मम प्रज्ञाविपर्ययात् ।
इहैव प्राणसंन्यासो ममापि ह्यद्य रोचते ।। 5.55.13 ।।।।
Slōka 14 / श्लोक १४
किमग्नौ निपताम्यद्य अहोस्विद्वडवामुखे ।
शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम् ।। 5.55.14 ।।।।
Slōka 15 / श्लोक १५
कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः ।
तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना ।। 5.55.15 ।।।।
Slōka 16 / श्लोक १६
मया खलु तदेवेदं रोषदोषात् प्रदर्शितम् ।
प्रथितं त्रिषु लोकेषु कपित्वमनवस्थितम् ।। 5.55.16 ।।।।
Slōka 17 / श्लोक १७
धिगस्तु राजसं भावमनीशमनवस्थितम् ।
ईश्वरेणापि यद्रागान्मया सीता न रक्षिता ।। 5.55.17 ।।।।
Slōka 18 / श्लोक १८
विनष्टायां तु सीतायां तावुभौ विनशिष्यतः ।
तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति ।। 5.55.18 ।।।।
Slōka 19 / श्लोक १९
एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः ।
धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम् ।। 5.55.19 ।।।।
Slōka 20 / श्लोक २०
इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम् ।
भविष्यन्ति प्रजाः सर्वाः शोकसन्तापपीडिताः ।। 5.55.20 ।।।।
Slōka 21 / श्लोक २१
तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः ।
रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः ।। 5.55.21 ।।।।
Slōka 22 / श्लोक २२
इति चिन्तयस्तस्य निमित्तान्युपपेदिरे ।
पूर्वमप्युपलब्धानि साक्षात्पुनरचिन्तयत् ।। 5.55.22 ।।।।
Slōka 23 / श्लोक २३
अथवा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा ।
न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते ।। 5.55.23 ।।।।
Slōka 24 / श्लोक २४
न हि धर्मात्मनस्तस्य भार्याममिततेजसः ।
स्वाचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः ।। 5.55.24 ।।।।
Slōka 25 / श्लोक २५
नूनं रामप्रभावेन वैदेह्याः सुकृतेन च ।
यन्मां दहनकर्मा ऽयं नादहद्धव्यवाहनः ।। 5.55.25 ।।।।
Slōka 26 / श्लोक २६
त्रयाणां भरतादीनां भार्तऽणां देवता च या ।
रामस्य च मनःकान्ता सा कथं विनशिष्यति ।। 5.55.26 ।।।।
Slōka 27 / श्लोक २७
यद्वा दहनकर्मा ऽयं सर्वत्र प्रभुरव्ययः ।
न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति ।। 5.55.27 ।।।।
Slōka 28 / श्लोक २८
पुनश्चाचिन्तयत्तत्र हनुमान् विस्मितस्तदा ।
हिरण्यनाभस्य गिरेर्जलमध्ये प्रदर्शनम् ।। 5.55.28 ।।।।
Slōka 29 / श्लोक २९
तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि ।
अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति ।। 5.55.29 ।।।।
Slōka 30 / श्लोक ३०
स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम् ।
शुश्राव हनुमान् वाक्यं चारणानां महात्मनाम् ।। 5.55.30 ।।।।
Slōka 31 / श्लोक ३१
अहो खलु कृतं कर्म दुष्करं हि हनूमता ।
अग्निं विसृजता ऽभीक्ष्णं भीमं राक्षसवेश्मनि ।। 5.55.31 ।।।।
Slōka 32 / श्लोक ३२
प्रपलायितरक्षः स्त्रीबालवृद्धसमाकुला ।
जनकोलाहलाध्माता क्रन्दन्तीवाद्रिकन्दरे ।। 5.55.32 ।।।।
Slōka 33 / श्लोक ३३
दग्धेयं नगरी सर्वा साट्टप्राकारतोरणा ।
जानकी न च दग्धेति विस्मयो ऽद्भुत एव नः ।। 5.55.33 ।।।।
Slōka 34 / श्लोक ३४
स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।
ऋषिवाक्यैश्च हनुमानभवत् प्रीतभानसः ।। 5.55.34 ।।।।
Slōka 35 / श्लोक ३५
ततः कपिः प्राप्तमनोरथार्थस्तामक्षतां राजसुतां विदित्वा ।
प्रत्यक्षतस्तां पुनरेव दृष्ट्वा प्रतिप्रयाणाय मतिं चकार ।। 5.55.35 ।।