Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 13 / सर्गः १३

Slōka 1 / श्लोक १

विमानात् तु सुसम्क्रम्य प्राकारम् हरि यूथपः ।
हनूमान् वेगवान् आसीद् यथा विद्युद् घन अन्तरे ॥५-१३-१॥

Slōka 2 / श्लोक २

सम्परिक्रम्य हनुमान् रावणस्य निवेशनान् ।
अदृष्ट्वा जानकीम् सीताम् अब्रवीद् वचनम् कपिः ॥५-१३-२॥

Slōka 3 / श्लोक ३

भूयिष्ठम् लोडिता लन्का रामस्य चरता प्रियम् ।
न हि पश्यामि वैदेहीम् सीताम् सर्व अन्ग शोभनाम् ॥५-१३-३॥

Slōka 4 / श्लोक ४

पल्वलानि तटाकानि सराम्सि सरितः तथा ।
नद्यो अनूपवन अन्ताः च दुर्गाः च धरणी धराः ॥५-१३-४॥

Slōka 5 / श्लोक ५

लोडिता वसुधा सर्वा न च पश्यामि जानकीम् ।
इह सम्पातिना सीता रावणस्य निवेशने ॥५-१३-५॥

Slōka 6 / श्लोक ६

आख्याता गृध्र राजेन न च पश्यामि ताम् अहम् ।
किम् नु सीता अथ वैदेही मैथिली जनक आत्मजा ॥५-१३-६॥

Slōka 7 / श्लोक ७

उपतिष्ठेत विवशा रावणम् दुष्ट चारिणम् ।
क्षिप्रम् उत्पततो मन्ये सीताम् आदाय रक्षसः ॥५-१३-७॥

Slōka 8 / श्लोक ८

बिभ्यतो राम बाणानाम् अन्तरा पतिता भवेत् ।
अथवा ह्रियमाणायाः पथि सिद्ध निषेविते ॥५-१३-८॥

Slōka 9 / श्लोक ९

मन्ये पतितम् आर्याया हृदयम् प्रेक्ष्य सागरम् ।
रावणस्य ऊरु वेगेन भुजाभ्याम् पीडितेन च ॥५-१३-९॥

Slōka 10 / श्लोक १०

तया मन्ये विशाल अक्ष्या त्यक्तम् जीवितम् आर्यया ।
उपरि उपरि वा नूनम् सागरम् क्रमतः तदा ॥५-१३-१०॥

Slōka 11 / श्लोक ११

विवेष्टमाना पतिता समुद्रे जनक आत्मजा ।
आहो क्षुद्रेण च अनेन रक्षन्ती शीलम् आत्मनः ॥५-१३-११॥

Slōka 12 / श्लोक १२

अबन्धुर् भक्षिता सीता रावणेन तपस्विनी ।
अथवा राक्षस इन्द्रस्य पत्नीभिर् असित ईक्षणा ॥५-१३-१२॥

Slōka 13 / श्लोक १३

अदुष्टा दुष्ट भावाभिर् भक्षिता सा भविष्यति ।
सम्पूर्ण चन्द्र प्रतिमम् पद्म पत्र निभ ईक्षणम् ॥५-१३-१३॥

Slōka 14 / श्लोक १४

रामस्य ध्यायती वक्त्रम् पन्चत्वम् कृपणा गता ।
हा राम लक्ष्मण इति एव हा अयोध्येति च मैथिली ॥५-१३-१४॥

Slōka 15 / श्लोक १५

विलप्य बहु वैदेही न्यस्त देहा भविष्यति ।
अथवा निहिता मन्ये रावणस्य निवेशने ॥५-१३-१५॥

Slōka 16 / श्लोक १६

नूनम् लालप्यते मन्दम् पन्जरस्था इव शारिका ।
जनकस्य कुले जाता राम पत्नी सुमध्यमा ॥५-१३-१६॥

Slōka 17 / श्लोक १७

कथम् उत्पल पत्र अक्षी रावणस्य वशम् व्रजेत् ।
विनष्टा वा प्रनष्टा वा मृता वा जनक आत्मजा ॥५-१३-१७॥

Slōka 18 / श्लोक १८

रामस्य प्रिय भार्यस्य न निवेदयितुम् क्षमम् ।
निवेद्यमाने दोषः स्याद् दोषः स्याद् अनिवेदने ॥५-१३-१८॥

Slōka 19 / श्लोक १९

कथम् नु खलु कर्तव्यम् विषमम् प्रतिभाति मे ।
अस्मिन्न् एवम् गते कर्ये प्राप्त कालम् क्षमम् च किम् ॥५-१३-१९॥

Slōka 20 / श्लोक २०

भवेद् इति मतिम् भूयो हनुमान् प्रविचारयन् ।
यदि सीताम् अदृष्ट्वा अहम् वानर इन्द्र पुरीम् इतः ॥५-१३-२०॥

Slōka 21 / श्लोक २१

गमिष्यामि ततः को मे पुरुष अर्थो भविष्यति ।
मम इदम् लन्घनम् व्यर्थम् सागरस्य भविष्यति ॥५-१३-२१॥

Slōka 22 / श्लोक २२

प्रवेशः चिव लन्काया राक्षसानाम् च दर्शनम् ।
किम् वा वक्ष्यति सुग्रीवो हरयो व समागताः ॥५-१३-२२॥

Slōka 23 / श्लोक २३

किष्किन्धाम् समनुप्राप्तौ तौ वा दशरथ आत्मजौ ।
गत्वा तु यदि काकुत्स्थम् वक्ष्यामि परम् अप्रियम् ॥५-१३-२३॥

Slōka 24 / श्लोक २४

न दृष्टा इति मया सीता ततः त्यक्ष्यन्ति जीवितम् ।
परुषम् दारुणम् क्रूरम् तीक्ष्णम् इन्द्रिय तापनम् ॥५-१३-२४॥

Slōka 25 / श्लोक २५

सीता निमित्तम् दुर्वाक्यम् श्रुत्वा स न भविष्यति ।
तम् तु कृच्च्र गतम् दृष्ट्वा पन्चत्व गत मानसम् ॥५-१३-२५॥

Slōka 26 / श्लोक २६

भृश अनुरक्तो मेधावी न भविष्यति लक्ष्मणः ।
विनष्टौ भ्रातरौ श्रुत्वा भरतो अपि मरिष्यति ॥५-१३-२६॥

Slōka 27 / श्लोक २७

भरतम् च मृतम् दृष्ट्वा शत्रुघ्नो न भविष्यति ।
पुत्रान् मृतान् समीक्ष्य अथ न भविष्यन्ति मातरः ॥५-१३-२७॥

Slōka 28 / श्लोक २८

कौसल्या च सुमित्रा च कैकेयी च न सम्शयः ।
कृतज्ञः सत्य सम्धः च सुग्रीवः प्लवग अधिपः ॥५-१३-२८॥

Slōka 29 / श्लोक २९

रामम् तथा गतम् दृष्ट्वा ततः त्यक्ष्यन्ति जीवितम् ।
दुर्मना व्यथिता दीना निरानन्दा तपस्विनी ॥५-१३-२९॥

Slōka 30 / श्लोक ३०

पीडिता भर्तृ शोकेन रुमा त्यक्ष्यति जीवितम् ।
वालिजेन तु दुह्खेन पीडिता शोक कर्शिता ॥५-१३-३०॥

Slōka 31 / श्लोक ३१

पन्चत्व गमने राज्ञः तारा अपि न भविष्यति ।
माता पित्रोर् विनाशेन सुग्रीव व्यसनेन च ॥५-१३-३१॥

Slōka 32 / श्लोक ३२

कुमारो अपि अन्गदः कस्माद् धारयिष्यति जीवितम् ।
भर्तृजेन तु शोकेन अभिभूता वन ओकसः ॥५-१३-३२॥

Slōka 33 / श्लोक ३३

शिराम्सि अभिहनिष्यन्ति तलैर् मुष्टिभिर् एव च ।
सान्त्वेन अनुप्रदानेन मानेन च यशस्विना ॥५-१३-३३॥

Slōka 34 / श्लोक ३४

लालिताः कपि राजेन प्राणामः त्यक्ष्यन्ति वानराः ।
न वनेषु न शैलेषु न निरोधेषु वा पुनः ॥५-१३-३४॥

Slōka 35 / श्लोक ३५

क्रीडाम् अनुभविष्यन्ति समेत्य कपि कुन्जराः ।
सपुत्र दाराः सामात्या भर्तृ व्यसन पीडिताः ॥५-१३-३५॥

Slōka 36 / श्लोक ३६

शैल अग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च ।
विषम् उद्बन्धनम् वा अपि प्रवेशम् ज्वलनस्य वा ॥५-१३-३६॥

Slōka 37 / श्लोक ३७

उपवासम् अथो शस्त्रम् प्रचरिष्यन्ति वानराः ।
घोरम् आरोदनम् मन्ये गते मयि भविष्यति ॥५-१३-३७॥

Slōka 38 / श्लोक ३८

इक्ष्वाकु कुल नाशः च नाशः चैव वन ओकसाम् ।
सो अहम् न एव गमिष्यामि किष्किन्धाम् नगरीम् इतः ॥५-१३-३८॥

Slōka 39 / श्लोक ३९

न हि शक्ष्यामि अहम् द्रष्टुम् सुग्रीवम् मैथिलीम् विना ।
मयि अगच्चति च इहस्थे धर्म आत्मानौ महा रथौ ॥५-१३-३९॥

Slōka 40 / श्लोक ४०

आशया तौ धरिष्येते वनराः च मनस्विनः ।
हस्त आदानो मुख आदानो नियतो वृक्ष मूलिकः ॥५-१३-४०॥

Slōka 41 / श्लोक ४१

वानप्रस्थो भविष्यामि अदृष्ट्वा जनक आत्मजाम् ।
सागर अनूपजे देशे बहु मूल फल उदके ॥५-१३-४१॥

Slōka 42 / श्लोक ४२

चिताम् कृत्वा प्रवेक्ष्यामि समिद्धम् अरणी सुतम् ।
उपविष्टस्य वा सम्यग् लिन्गिनम् साधयिष्यतः ॥५-१३-४२॥

Slōka 43 / श्लोक ४३

शरीरम् भक्षयिष्यन्ति वायसाः श्वापदानि च ।
इदम् अपि ऋषिभिर् दृष्टम् निर्याणम् इति मे मतिः ॥५-१३-४३॥

Slōka 44 / श्लोक ४४

सम्यग् आपः प्रवेक्ष्यामि न चेत् पश्यामि जानकीम् ।
सुजात मूला सुभगा कीर्ति माला यशस्विनी ॥५-१३-४४॥

Slōka 45 / श्लोक ४५

प्रभग्ना चिर रात्री इयम् मम सीताम् अपश्यतः ।
तापसो वा भविष्यामि नियतो वृक्ष मूलिकः ॥५-१३-४५॥

Slōka 46 / श्लोक ४६

न इतः प्रतिगमिष्यामि ताम् अदृष्ट्वा असित ईक्षणाम् ।
यदि इतः प्रतिगच्चामि सीताम् अनधिगम्य ताम् ॥५-१३-४६॥

Slōka 47 / श्लोक ४७

अन्गदः सहितैः सर्वैर् वानरैर् न भविष्यति ।
विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम् ॥५-१३-४७॥

Slōka 48 / श्लोक ४८

तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवति सम्गमः ।
एवम् बहु विधम् दुह्खम् मनसा धारयन् मुहुः ॥५-१३-४८॥

Slōka 49 / श्लोक ४९

न अध्यगच्चत् तदा पारम् शोकस्य कपि कुन्जरः ।
रावणम् वा वधिष्यामि दशग्रीवम् महा बलम् ॥५-१३-४९॥

Slōka 50 / श्लोक ५०

कामम् अस्तु हृता सीता प्रत्याचीर्णम् भविष्यति ।
अथवा एनम् समुत्क्षिप्य उपरि उपरि सागरम् ॥५-१३-५०॥

Slōka 51 / श्लोक ५१

रामाय उपहरिष्यामि पशुम् पशु पतेर् इव ।
इति चिन्ता समापन्नः सीताम् अनधिगम्य ताम् ॥५-१३-५१॥

Slōka 52 / श्लोक ५२

ध्यान शोका परीत आत्मा चिन्तयाम् आस वानरः ।
यावत् सीताम् न पश्यामि राम पत्नीम् यशस्विनीम् ॥५-१३-५२॥

Slōka 53 / श्लोक ५३

तावद् एताम् पुरीम् लन्काम् विचिनोमि पुनः पुनः ।
सम्पाति वचनाच् च अपि रामम् यदि आनयामि अहम् ॥५-१३-५३॥

Slōka 54 / श्लोक ५४

अपश्यन् राघवो भार्याम् निर्दहेत् सर्व वानरान् ।
इह एव नियत आहारो वत्स्यामि नियत इन्द्रियः ॥५-१३-५४॥

Slōka 55 / श्लोक ५५

न मत् कृते विनश्येयुः सर्वे ते नर वानराः ।
अशोक वनिका च अपि महती इयम् महा द्रुमा ॥५-१३-५५॥

Slōka 56 / श्लोक ५६

इमाम् अभिगमिष्यामि न हि इयम् विचिता मया ।
वसून् रुद्रामः तथा आदित्यान् अश्विनौ मरुतो अपि च ॥५-१३-५६॥

Slōka 57 / श्लोक ५७

नमः कृत्वा गमिष्यामि रक्षसाम् शोक वर्धनः ।
जित्वा तु राक्षसान् देवीम् इक्ष्वाकु कुल नन्दिनीम् ॥५-१३-५७॥

Slōka 58 / श्लोक ५८

सम्प्रदास्यामि रामाया यथा सिद्धिम् तपस्विने ।
स मुहूर्तम् इव ध्यात्वा चिन्ता विग्रथित इन्द्रियः ॥५-१३-५८॥

Slōka 59 / श्लोक ५९

उदतिष्ठन् महा बाहुर् हनूमान् मारुत आत्मजः ।
नमो अस्तु रामाय सलक्ष्मणाय ।देव्यै च तस्यै जनक आत्मजायै ।नमो अस्तु रुद्र इन्द्र यम अनिलेभ्यो ।नमो अस्तु चन्द्र अर्क मरुद् गणेभ्यः ॥५-१३-५९॥

Slōka 60 / श्लोक ६०

स तेभ्यः तु नमः कृत्वा सुग्रीवाय च मारुतिः ।
दिशः सर्वाः समालोक्य अशोक वनिकाम् प्रति ॥५-१३-६०॥

Slōka 61 / श्लोक ६१

स गत्वा मनसा पूर्वम् अशोक वनिकाम् शुभाम् ।
उत्तरम् चिन्तयाम् आस वानरो मारुत आत्मजः ॥५-१३-६१॥

Slōka 62 / श्लोक ६२

ध्रुवम् तु रक्षो बहुला भविष्यति वन आकुला ।
अशोक वनिका चिन्त्या सर्व सम्स्कार सम्स्कृता ॥५-१३-६२॥

Slōka 63 / श्लोक ६३

रक्षिणः च अत्र विहिता नूनम् रक्षन्ति पादपान् ।
भगवान् अपि सर्व आत्मा न अतिक्षोभम् प्रवायति ॥५-१३-६३॥

Slōka 64 / श्लोक ६४

सम्क्षिप्तो अयम् मया आत्मा च राम अर्थे रावणस्य च ।
सिद्धिम् मे सम्विधास्यन्ति देवाः सर्षि गणाः त्व् इह ॥५-१३-६४॥

Slōka 65 / श्लोक ६५

ब्रह्मा स्वयम्भूर् भगवान् देवाः चैव दिशन्तु मे ।
सिद्धिम् अग्निः च वायुः च पुरु हूतः च वज्रधृत् ॥५-१३-६५॥

Slōka 66 / श्लोक ६६

वरुणः पाश हस्तः च सोम आदित्यै तथैव च ।
अश्विनौ च महात्मानौ मरुतः सर्व एव च ॥५-१३-६६॥

Slōka 67 / श्लोक ६७

सिद्धिम् सर्वाणि भूतानि भूतानाम् चैव यः प्रभुः ।
दास्यन्ति मम ये च अन्ये अदृष्टाः पथि गोचराः ॥५-१३-६७॥

Slōka 68 / श्लोक ६८

तद् उन्नसम् पाण्डुर दन्तम् अव्रणम् ।
शुचि स्मितम् पद्म पलाश लोचनम् ।द्रक्ष्ये तद् आर्या वदनम् कदा न्व् अहम् ।प्रसन्न तारा अधिप तुल्य दर्शनम् ॥५-१३-६८॥

Slōka 69 / श्लोक ६९

क्षुद्रेण पापेन नृशम्स कर्मणा ।
सुदारुण अलाम्कृत वेष धारिणा।बल अभिभूता अबला तपस्विनी ।कथम् नु मे दृष्ट पथे अद्य सा भवेत् ॥५-१३-६९॥