Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 45 / सर्गः ४५

Slōka 1 / श्लोक १

ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः ।
निर्युयुर्भवनात्तस्मात् सप्त सप्तार्चिवर्चसः ।। ५.४५.१।।।।

Slōka 2 / श्लोक २

महाबलपरीवारा धनुष्मन्तो महाबलाः ।
कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः ।। ५.४५.२।।।।

Slōka 3 / श्लोक ३

हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः ।
तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः ।। ५.४५.३।।।।

Slōka 4 / श्लोक ४

तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः ।
विस्फारयन्तः संहृष्टास्तडित्वन्त इवाम्बुदाः ।। ५.४५.४।।।।

Slōka 5 / श्लोक ५

जनन्यस्तु ततस्तेषां विदित्वा किङ्करान् हतान् ।
बभूवुः शोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ।। ५.४५.५।।।।

Slōka 6 / श्लोक ६

ते परस्परसङ्घर्षात्तप्तकाञ्चनभूषणाः ।
अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम् ।। ५.४५.६।।।।

Slōka 7 / श्लोक ७

सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः ।
वृष्टिमन्त इवाम्भोदा विचेरुर्नैर्ऋताम्बुदाः ।। ५.४५.७।।।।

Slōka 8 / श्लोक ८

अवकीर्णस्ततस्ताभिर्हनुमाञ्छरवृष्टिभिः ।
अभवत् संवृताकारः शैलराडिव वृष्टिभिः ।। ५.४५.८।।।।

Slōka 9 / श्लोक ९

स शरान् मोघयामास तेषामाशुचरः कपिः ।
रथवेगं च वीराणां विचरन् विमले ऽम्बरे ।। ५.४५.९।।।।

Slōka 10 / श्लोक १०

स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते ।
धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे ।। ५.४५.१०।।।।

Slōka 11 / श्लोक ११

स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम् ।
चकार हनुमान् वेगं तेषु रक्षस्सु वीर्यवान् ।। ५.४५.११।।।।

Slōka 12 / श्लोक १२

तलेनाभ्यहनत् कांश्चित् पादैः कांश्चित् परन्तपः ।
मुष्टिना ऽभ्यहनत् कांश्चिन्नखैः कांश्चिद् व्यदारयत् ।। ५.४५.१२।।।।

Slōka 13 / श्लोक १३

प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः ।
केचित्तस्य निनादेन तत्रैव पतिता भुवि ।। ५.४५.१३।।।।

Slōka 14 / श्लोक १४

ततस्तेष्ववसन्नेषु भूमौ निपतितेषु च ।
तत्सैन्यमगमत्सर्वं दिशो भयार्दितम् ।। ५.४५.१४।।।।

Slōka 15 / श्लोक १५

विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः ।
भग्ननीडध्वजच्छत्त्रैर्भूश्च कीर्णा ऽभवद्रथैः ।। ५.४५.१५।।।।

Slōka 16 / श्लोक १६

स्रवता रुधिरेणाथस्रवन्त्यो दर्शिताः पथि ।
विविधैश्च स्वरैर्लङ्का ननाद विकृतं तदा ।। ५.४५.१६।।।।

Slōka 17 / श्लोक १७

स तान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः ।
युयुत्सुरन्यैः पुनरेव राक्षसैस्तमेव वीरो ऽभिजगाम तोरणम् ।। ५.४५.१७।।