उत्तरकाण्डम्डम्
Chapter 25 / सर्गः २५
Slōka 1 / श्लोक १
स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् ।
भगिनीं च समाश्वास्य हृष्टः स्वस्थतरो ऽभवत् ।। ७.२५.१ ॥
Slōka 2 / श्लोक २
ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् ।
तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ।। ७.२५.२ ॥
Slōka 3 / श्लोक ३
ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् ।
ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव ।। ७.२५.३ ॥
Slōka 4 / श्लोक ४
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् ।
ददर्श स्वसुतं तत्र मेघनादं भयावहम् ।। ७.२५.४ ॥
Slōka 5 / श्लोक ५
तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः ।
अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ।। ७.२५.५ ॥
Slōka 6 / श्लोक ६
उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये ।
रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ।। ७.२५.६ ॥
Slōka 7 / श्लोक ७
अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् ।
यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः ।। ७.२५.७ ॥
Slōka 8 / श्लोक ८
अग्निष्टोमो ऽश्वमेधश्च यज्ञो बहुसुवर्णकः ।
राजसूयस्तथा यज्ञो गोमेधो वैष्ववस्तथा ।। ७.२५.८ ॥
Slōka 9 / श्लोक ९
माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे ।
वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ।। ७.२५.९ ॥
Slōka 10 / श्लोक १०
कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् ।
मायां च तामसीं नाम यया सम्पद्यते तमः ।। ७.२५.१० ॥
Slōka 11 / श्लोक ११
एतया किल सङ्ग्रामे मायया राक्षसेश्वर ।
प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः ।। ७.२५.११ ॥
Slōka 12 / श्लोक १२
अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् ।
अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे ।। ७.२५.१२ ॥
Slōka 13 / श्लोक १३
एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्ते ऽयं दशानन ।
अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुस्स्थितो ह्यहम् ।। ७.२५.१३ ॥
Slōka 14 / श्लोक १४
ततो ऽब्रवीदृशग्रीवो न शोभनमिदं कृतम् ।
पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ।। ७.२५.१४ ॥
Slōka 15 / श्लोक १५
एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः ।
आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ।। ७.२५.१५ ॥
Slōka 16 / श्लोक १६
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः ।
स्त्रियो ऽवतारयामास सर्वास्ता बाष्पगद्गदाः ।। ७.२५.१६ ॥
Slōka 17 / श्लोक १७
लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् ।
तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत् ।। ७.२५.१७ ॥
Slōka 18 / श्लोक १८
ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः ।
धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ।। ७.२५.१८ ॥
Slōka 19 / श्लोक १९
ज्ञातींस्तान्धर्षयित्वेमास्त्वया ऽ ऽनीता वराङ्गनाः ।
त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ।। ७.२५.१९ ॥
Slōka 20 / श्लोक २०
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् ।
को ऽयं यस्तु त्वया ऽ ऽख्यातो मधुरित्येव नामतः ।। ७.२५.२० ॥
Slōka 21 / श्लोक २१
विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् ।
श्रूयतामस्य पापस्य कर्मणः फलमागतम् ।। ७.२५.२१ ॥
Slōka 22 / श्लोक २२
मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः ।
माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ।। ७.२५.२२ ॥
Slōka 23 / श्लोक २३
पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यको ऽभवत् ।
तस्य कुम्भीनसी नाम दुहितुर्दुहिता ऽभवत् ।। ७.२५.२३ ॥
Slōka 24 / श्लोक २४
मातृष्वसुरथास्माकं सा च कन्या ऽनलोद्भवा ।
भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा ।। ७.२५.२४ ॥
Slōka 25 / श्लोक २५
सा हृता, मधुना राजन्राक्षसेन बलीयसा ।
यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ।। ७.२५.२५ ॥
Slōka 26 / श्लोक २६
कुम्भकर्णे महाराज निद्रामनुभवत्यथ ।
निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान् ।। ७.२५.२६ ॥
Slōka 27 / श्लोक २७
धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव ।
श्रुत्वा ऽपि तन्महाराज क्षान्तमेव हतो न सः ।। ७.२५.२७ ॥
Slōka 28 / श्लोक २८
यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः ।
तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ।। ७.२५.२८ ॥
Slōka 29 / श्लोक २९
अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते ।
विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः ।दौरात्म्येनात्मनोद्धूतस्तप्ताम्भ इव सागरः ।। ७.२५.२९ ॥
Slōka 30 / श्लोक ३०
ततो ऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः ।
कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ।। ७.२५.३० ॥
Slōka 31 / श्लोक ३१
भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः ।
वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ।। ७.२५.३१ ॥
Slōka 32 / श्लोक ३२
अद्य तं समरे हत्वा मधुं रावणनिर्भयम् ।
सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ।। ७.२५.३२ ॥
Slōka 33 / श्लोक ३३
अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् ।
नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ।। ७.२५.३३ ॥
Slōka 34 / श्लोक ३४
इन्द्रजित्त्वग्रतः (अग्रतः) सैन्यात्सैनिकान्परिगृह्य च ।
जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ।। ७.२५.३४ ॥
Slōka 35 / श्लोक ३५
विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत् ।
शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ।। ७.२५.३५ ॥
Slōka 36 / श्लोक ३६
खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः ।
राक्षसाः प्रययुः सर्वे कृत्वा ऽ ऽकाशं निरन्तरम् ।। ७.२५.३६ ॥
Slōka 37 / श्लोक ३७
दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः ।
रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ।। ७.२५.३७ ॥
Slōka 38 / श्लोक ३८
स तु गत्वा मधुपुरं प्रविश्य च दशाननः ।
न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ।। ७.२५.३८ ॥
Slōka 39 / श्लोक ३९
सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ।
। ७.२५.३९ ॥
Slōka 40 / श्लोक ४०
तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा ।
तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ।। ७.२५.४० ॥
Slōka 41 / श्लोक ४१
रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते ।
साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज ।भर्तारं न ममेहाद्य हन्तुर्महसि मानद ।। ७.२५.४१ ॥
Slōka 42 / श्लोक ४२
न हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते ।
भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ।। ७.२५.४२ ॥
Slōka 43 / श्लोक ४३
सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् ।
त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम् ।। ७.२५.४३ ॥
Slōka 44 / श्लोक ४४
रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् ।
क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ।। ७.२५.४४ ॥
Slōka 45 / श्लोक ४५
सह तेन गमिष्यामि सुरलोकं जयावहे ।
तव कारुण्यसौहार्दान्निवृत्तो ऽस्मि मधोर्वधात् ।। ७.२५.४५ ॥
Slōka 46 / श्लोक ४६
इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् ।
अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः ।। ७.२५.४६ ॥
Slōka 47 / श्लोक ४७
एष प्राप्तो दशग्रीवो मम भ्राता महाबलः ।
सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ।। ७.२५.४७ ॥
Slōka 48 / श्लोक ४८
तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस ।
स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ।। ७.२५.४८ ॥
Slōka 49 / श्लोक ४९
तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ।
। ७.२५.४९ ॥
Slōka 50 / श्लोक ५०
ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः ।
पूजयमास धर्मेण रावणं राक्षसाधिपम् ।। ७.२५.५० ॥
Slōka 51 / श्लोक ५१
प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् ।
तत्र चैकां निशामुष्य गमनायोपचक्रमे ।। ७.२५.५१ ॥
Slōka 52 / श्लोक ५२
ततः कैलासमासाद्य शैलं वैश्रवणालयम् ।
राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ।। ७.२५.५२ ।।