Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 111 / सर्गः १११

Slōka 1 / श्लोक १

एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम् ।
रामायणमिति ख्यातं मुख्यं वाल्मीकीना कृतम् ।। ७.१११.१ ॥

Slōka 2 / श्लोक २

ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरम् ।
येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ।। ७.१११.२ ॥

Slōka 3 / श्लोक ३

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
नित्यं शृण्वन्ति सन्तुष्टाः दिव्यं रामायणं दिवि ।। ७.१११.३ ॥

Slōka 4 / श्लोक ४

इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम् ।
रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः ।। ७.१११.४ ॥

Slōka 5 / श्लोक ५

अपुत्रो लभते पुत्रमधनो लभते धनम् ।
सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ।। ७.१११.५ ॥

Slōka 6 / श्लोक ६

पापान्यपि च यः कुर्यादहन्यहनि मानवः ।
पठत्येकमपि श्लोकं पापात्स परिमुच्यते ।। ७.१११.६ ॥

Slōka 7 / श्लोक ७

वाचकाय च दातव्यं वस्त्रं धेनुं हिरण्यकम् ।
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः ।। ७.१११.७ ॥

Slōka 8 / श्लोक ८

एतदाख्यानमायुष्यं पठन्रामायणं नरः ।
सपुत्रपौत्रो लोके ऽस्मिन्प्रेत्य चेह महीयते ।। ७.१११.८ ॥

Slōka 9 / श्लोक ९

अयोध्या ऽपि पुरी रम्या शून्या वर्षगणान्बहून् ।
ऋषभं प्राप्य राजानं निवासमुपयास्यति ।। ७.१११.९ ॥

Slōka 10 / श्लोक १०

एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम् ।
कृतवान्प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत ।। ७.१११.१० ॥

Slōka 11 / श्लोक ११

अश्वमेधसहस्रस्य वाजपेयायुतस्य च ।
लभते श्रावणादेव सर्गस्यैकस्य मानवः ।। ७.१११.११ ॥

Slōka 12 / श्लोक १२

प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ।
नैमिशादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि ।गतानि तेन लोके ऽस्मिन्येन रामायणं श्रुतम् ।। ७.१११.१२ ॥

Slōka 13 / श्लोक १३

हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति ।
यश्च रामायणं लोके शृणोति सदृशावुभौ ।। ७.१११.१३ ॥

Slōka 14 / श्लोक १४

सम्यक्छ्रद्धासमायुक्तः शृणुते राघवीं कथाम् ।
सर्वपापात्प्रमुच्येत विष्णुलोकं स गच्छति ।। ७.१११.१४ ॥

Slōka 15 / श्लोक १५

आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ।
यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम् ।। ७.१११.१५ ॥

Slōka 16 / श्लोक १६

पुत्रदाराश्च वर्धन्ते सम्पदः सन्ततिस्तथा ।
सत्यमेतद्विदित्वा तु श्रोतव्यं नियतात्मभिः ।। ७.१११.१६ ॥

Slōka 17 / श्लोक १७

गायत्र्याश्च स्वरूपं तद्रामायणमनुत्तमम् ।
। ७.१११.१७ ॥

Slōka 18 / श्लोक १८

अपुत्रो लभते पुत्रमधनो लभते धनम् ।
सर्वपापैः प्रमुच्येत पदमप्यस्य यः पठेत् ।। ७.१११.१८ ॥

Slōka 19 / श्लोक १९

यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह ।
भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् ।। ७.१११.१९ ॥

Slōka 20 / श्लोक २०

चिन्तयेद्राघवं नित्यं श्रेयः प्राप्तुं य इच्छति ।
श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने ।। ७.१११.२० ॥

Slōka 21 / श्लोक २१

यस्त्विदं रघुनाथस्य चरितं सकलं पठेत् ।
सो ऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः ।। ७.१११.२१ ॥

Slōka 22 / श्लोक २२

पिता पितामहस्तस्य तथैव प्रपितामहः ।
तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः ।। ७.१११.२२ ॥

Slōka 23 / श्लोक २३

चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु ।
तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा ।। ७.१११.२३ ॥

Slōka 24 / श्लोक २४

शृण्वन्रामायणं भक्त्या यः पादं पदमेव वा ।
स याति ब्रह्मणः स्थानं ब्रह्मणा पूज्यते सदा ।। ७.१११.२४ ॥

Slōka 25 / श्लोक २५

एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः ।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ।। ७.१११.२५ ।।