Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 66 / सर्गः ६६

Slōka 1 / श्लोक १

यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् ।
तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ।। ७.६६.१ ॥

Slōka 2 / श्लोक २

ततो ऽर्धरात्रसमये बालका मुनिदारकाः ।
वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम् ।। ७.६६.२ ॥

Slōka 3 / श्लोक ३

भगवन्रामपत्नी सा प्रसूता दारकद्वयम् ।
ततो रक्षां महातेजः कुरु भूतविनाशिनीम् ।। ७.६६.३ ॥

Slōka 4 / श्लोक ४

तेषां तद्वचनं श्रुत्वा महर्षिः समुपागमत् ।
बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ।। ७.६६.४ ॥

Slōka 5 / श्लोक ५

जगाम तत्र हृष्टात्मा ददर्श च कुमारकौ ।
भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् ।। ७.६६.५ ॥

Slōka 6 / श्लोक ६

कुशमुष्टिमुपादाय लवं चैव तु स द्विजः ।
वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् ।। ७.६६.६ ॥

Slōka 7 / श्लोक ७

यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसत्कृतैः ।
निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ।। ७.६६.७ ॥

Slōka 8 / श्लोक ८

यश्चावरो भवेत्ताभ्यां लवेन स समाहितः ।
निर्मार्जनीयो वृद्धाभिर्लव इत्येव नामतः ।। ७.६६.८ ॥

Slōka 9 / श्लोक ९

एवं कुशलवौ नाम्ना तावुभौ यमजातकौ ।
मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः ।। ७.६६.९ ॥

Slōka 10 / श्लोक १०

तां रक्षां जगृहुस्ताश्च मुनिहस्तात्समाहिताः ।
अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः ।। ७.६६.१० ॥

Slōka 11 / श्लोक ११

तथा तां क्रियमाणां च वृद्धाभिर्जन्म नाम च ।
सङ्कीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ ।। ७.६६.११ ॥

Slōka 12 / श्लोक १२

अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम् ।
पर्णशालां ततो गत्वा मातर्दिष्ट्येति चाब्रवीत् ।। ७.६६.१२ ॥

Slōka 13 / श्लोक १३

तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः ।
व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमः ।। ७.६६.१३ ॥

Slōka 14 / श्लोक १४

प्रभाते सुमहावीर्यः कृत्वा पौर्वाह्णिकीं क्रियाम् ।
मुनिं प्राञ्जलिरामन्त्र्य ययौ पश्चान्मुखः पुनः ।। ७.६६.१४ ॥

Slōka 15 / श्लोक १५

स गत्वा यमुनातीरं सप्तरात्रोषितः पथि ।
ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् ।। ७.६६.१५ ॥

Slōka 16 / श्लोक १६

स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः ।
कथाभिरभिरूपाभिर्वासं चक्रे महायशाः ।। ७.६६.१६ ॥

Slōka 17 / श्लोक १७

स काञ्चनाद्यैर्मुनिभिः समेतो रघुप्रवीरो रजनीं तदानीम् ।
कथाप्रकारैर्बहुभिर्महात्मा विरामयामास नरेन्द्रसूनुः ।। ७.६६.१७ ।।