उत्तरकाण्डम्डम्
Chapter 4 / सर्गः ४
Slōka 1 / श्लोक १
श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः ।
कथमासीत्तु लङ्कायां सम्भवो रक्षसां पुरा ।। ७.४.१ ॥
Slōka 2 / श्लोक २
ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् ।
तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानो ऽभ्यभाषत ।। ७.४.२ ॥
Slōka 3 / श्लोक ३
भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् ।
श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः ।। ७.४.३ ॥
Slōka 4 / श्लोक ४
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् ।
इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया ।। ७.४.४ ॥
Slōka 5 / श्लोक ५
रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि ।
रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ।। ७.४.५ ॥
Slōka 6 / श्लोक ६
क एषां पूर्वको ब्रह्मन्किन्नामा च बलोत्कटः ।
अपराधं च कं प्राप्य विष्णुना द्राविताः कथम् ।। ७.४.६ ॥
Slōka 7 / श्लोक ७
एतद्विस्तरतः सर्वं कथयस्व ममानघ ।
कुतूहलमिदं मह्यं नुद भानुर्यथा तमः ।। ७.४.७ ॥
Slōka 8 / श्लोक ८
राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम् ।
ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् ।। ७.४.८ ॥
Slōka 9 / श्लोक ९
प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसम्भवः ।
तासां गोपायने सत्त्वानसृजत्पद्मसम्भवः ।। ७.४.९ ॥
Slōka 10 / श्लोक १०
ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः ।
किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ।। ७.४.१० ॥
Slōka 11 / श्लोक ११
प्रजापतिस्तु तान्याह सत्वानि प्रहसन्निव ।
आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ।। ७.४.११ ॥
Slōka 12 / श्लोक १२
रक्षामेति च तत्रान्ये जक्षाम इति चापरे ।
भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् ।। ७.४.१२ ॥
Slōka 13 / श्लोक १३
रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः ।
जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ।। ७.४.१३ ॥
Slōka 14 / श्लोक १४
तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ ।
मधुकैटभसङ्काशौ बभूवतुररिन्दमौ ।। ७.४.१४ ॥
Slōka 15 / श्लोक १५
प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा ।
हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् ।। ७.४.१५ ॥
Slōka 16 / श्लोक १६
स कालभगिनीं कन्यां भयां नाम भयावहाम् ।
उदावहदमेयात्मा स्वयमेव महामतिः ।। ७.४.१६ ॥
Slōka 17 / श्लोक १७
स तस्यां जनयामास हेती राक्षसपुङ्गवः ।
पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ।। ७.४.१७ ॥
Slōka 18 / श्लोक १८
विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः ।
व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ।। ७.४.१८ ॥
Slōka 19 / श्लोक १९
स यदा यौवनं भद्रमनुप्राप्तो निशाचरः ।
ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ।। ७.४.१९ ॥
Slōka 20 / श्लोक २०
सन्ध्यायास्तनयां सो ऽथ सन्ध्यातुल्यां प्रभावतः ।
वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः ।। ७.४.२० ॥
Slōka 21 / श्लोक २१
अवश्यमेव दातव्या परस्मै सेति सन्ध्यया ।
चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ।। ७.४.२१ ॥
Slōka 22 / श्लोक २२
सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः ।
रमते स्म तया सार्धं पौलोम्या मघवानिव ।। ७.४.२२ ॥
Slōka 23 / श्लोक २३
केनचित्त्वथ कालेन राम सालकटङ्कटा ।
विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् ।। ७.४.२३ ॥
Slōka 24 / श्लोक २४
ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् ।
प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ।। ७.४.२४ ॥
Slōka 25 / श्लोक २५
समुत्सृज्य तु सा गर्भं विद्युत्केशरतार्थिनी ।
रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम् ।। ७.४.२५ ॥
Slōka 26 / श्लोक २६
उत्सृष्टस्तु तदा गर्भो घनशब्दसमस्वनः ।
तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः ।निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा ।। ७.४.२६ ॥
Slōka 27 / श्लोक २७
ततो वृषभमास्थाय पार्वत्या सहितः शिवः ।
वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम् ।। ७.४.२७ ॥
Slōka 28 / श्लोक २८
अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् ।
कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः ।। ७.४.२८ ॥
Slōka 29 / श्लोक २९
तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् ।
अमरं चैव तं कृत्वा महादेवो ऽक्षरो ऽव्ययः ।। ७.४.२९ ॥
Slōka 30 / श्लोक ३०
पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया ।
उमयापि वरो दत्तो राक्षसानां नृपात्मज ।। ७.४.३० ॥
Slōka 31 / श्लोक ३१
सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च ।
सद्य एव वयःप्राप्तिर्मातुरेव वयस्समम् ।। ७.४.३१ ॥
Slōka 32 / श्लोक ३२
ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ।
चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरन्दरो यथा ।। ७.४.३२ ।।