Star (-) Watch (-)

Ramayana

अरण्यकाण्डम्

Chapter 67 / सर्गः ६७

Slōka 1 / श्लोक १

पूर्वजो अपि उक्त मात्रः तु लक्ष्मणेन सुभाषितम् ।
सार ग्राही महासारम् प्रतिजग्राह राघवः ॥३-६७-१॥

Slōka 2 / श्लोक २

स निगृह्य महाबाहुः प्रवृद्धम् रोषम् आत्मनः ।
अवष्टभ्य धनुः चित्रम् रामो लक्ष्मणम् अब्रवीत् ॥३-६७-२॥

Slōka 3 / श्लोक ३

किम् करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण ।
केन उपायेन पश्येयम् सीताम् इह विचिन्तय ॥३-६७-३॥

Slōka 4 / श्लोक ४

तम् तथा परिताप आर्तम् लक्ष्मणो रामम् अब्रवीत् ।
इदम् एव जनस्थानम् त्वम् अन्वेषितुम् अर्हसि ॥३-६७-४॥

Slōka 5 / श्लोक ५

राक्षसैः बहुभिः कीर्णम् नाना द्रुम लता आयुतम् ।
सन्ति इह गिरि दुर्गाणि निर्दराः कंदराणि च ॥३-६७-५॥

Slōka 6 / श्लोक ६

गुहाः च विविधा घोरा नाना मृग गण आकुलाः ।
आवासाः किन्नराणाम् च गन्धर्व भवनानि च ॥३-६७-६॥

Slōka 7 / श्लोक ७

तानि युक्तो मया सार्धम् समन्वेषितुम् अर्हसि ।
त्वत् विधा बुद्धि संपन्ना माहात्मानो नरर्षभ ॥३-६७-७॥

Slōka 8 / श्लोक ८

आपत्सु न प्रकंपन्ते वायु वेगैः इव अचलाः ।
इति उक्तः तत् वनम् सर्वम् विचचार स लक्ष्मणः ॥३-६७-८॥

Slōka 9 / श्लोक ९

क्रुद्धो रामः शरम् घोरम् संधाय धनुषि क्षुरम् ।
ततः पर्वत कूट आभम् महा भागम् द्विज उत्तमम् ॥३-६७-९॥

Slōka 10 / श्लोक १०

ददर्श पतितम् भूमौ क्षतज आर्द्रम् जटायुषम् ।
तम् दृष्ट्वा गिरि शृंग आभम् रामो लक्ष्मणम् अब्रवीत् ॥३-६७-१०॥

Slōka 11 / श्लोक ११

अनेन सीता वैदेही भक्षिता न अत्र संशयः ।
गृध्र रूपम् इदम् व्यक्तम् रक्षो भ्रमति काननम् ॥३-६७-११॥

Slōka 12 / श्लोक १२

भक्षयित्वा विशालाक्षीम् आस्ते सीताम् यथा सुखम् ।
एनम् वधिष्ये दीप्त अग्रैः घोरैः बाणैः अजिह्मगैः ॥३-६७-१२॥

Slōka 13 / श्लोक १३

इति उक्त्वा अभ्यपतत् गृध्रम् सन्धाय धनुषि क्षुरम् ।
क्रुद्धो रामः समुद्र अन्ताम् चालयन् इव मेदिनीम् ॥३-६७-१३॥

Slōka 14 / श्लोक १४

तम् दीन दीनया वाचा स फेनम् रुधिरम् वमन् ।
अभ्यभाषत पक्षी तु रामम् दशरथ आत्मजम् ॥३-६७-१४॥

Slōka 15 / श्लोक १५

याम् ओषधिम् इव आयुष्मन् अन्वेषसि महा वने ।
सा देवी मम च प्राणा रावणेन उभयम् हृतम् ॥३-६७-१५॥

Slōka 16 / श्लोक १६

त्वया विरहिता देवी लक्ष्मणेन च राघव ।
ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥३-६७-१६॥

Slōka 17 / श्लोक १७

सीताम् अभ्यवपन्नो अहम् रावणः च रणे मया ।
विध्वंसित रथः च अत्र पातितो धरणी तले ॥३-६७-१७॥

Slōka 18 / श्लोक १८

एतत् अस्य धनुः भग्नम् एतत् अस्य शरावरम् ।
अयम् अस्य रणे राम भग्नः सांग्रामिको रथः ॥३-६७-१८॥

Slōka 19 / श्लोक १९

अयम् तु सारथिः तस्य मत् पक्ष निहतो भुविः ।
परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः ॥३-६७-१९॥

Slōka 20 / श्लोक २०

सीताम् आदाय वैदेहीम् उत्पपात विहायसम् ।
रक्षसा निहतम् पूर्वम् न माम् हन्तुम् त्वम् अर्हसि ॥३-६७-२०॥

Slōka 21 / श्लोक २१

रामः तस्य तु विज्ञाय सीता सक्ताम् प्रियाम् कथाम् ।
गृध्र राजम् परिष्वज्य परित्यज्य महत् धनुः ॥३-६७-२१॥

Slōka 22 / श्लोक २२

निपपात अवशो भूमौ रुरोद सह लक्ष्मण ।
द्विगुणीकृत ताप आर्तो रामो धीरतरो अपि सन् ॥३-६७-२२॥

Slōka 23 / श्लोक २३

एकम् एक अयने कृच्छ्रे निःश्वसन्तम् मुहुर् मुहुः ।
समीक्ष्य दुःखितो रामः सौमित्रिम् इदम् अब्रवीत् ॥३-६७-२३॥

Slōka 24 / श्लोक २४

राज्यम् भ्रष्टम् वने वासः सीता नष्टा मृते द्विजः ।
ईदृशी इयम् मम अलक्ष्मीः दहेत् अपि पावकम् ॥३-६७-२४॥

Slōka 25 / श्लोक २५

संपूर्णम् अपि चेत् अद्य प्रतरेयम् महोदधिम् ।
सो अपि नूनम् मम अलक्ष्म्या विशुष्येत् सरिताम् पतिः ॥३-६७-२५॥

Slōka 26 / श्लोक २६

न अस्ति अभाग्यतरो लोके मत्तो अस्मिन् स चराचरे ।
येन इयम् महती प्राप्ता मया व्यसन वागुरा ॥३-६७-२६॥

Slōka 27 / श्लोक २७

अयम् पितृ वयस्यो मे गृध्र राजो जरा अन्वितः ।
शेते विनिहतो भूमौ मम भाग्य विपर्ययात् ॥३-६७-२७॥

Slōka 28 / श्लोक २८

इति एवम् उक्त्वा बहुशो राघवः सह लक्ष्मणः ।
जटायुषम् च पस्पर्श पितृ स्नेहम् निदर्शयन् ॥३-६७-२८॥

Slōka 29 / श्लोक २९

निकृत्त पक्षम् रुधिर अवसिक्तम्तम् गृध्र राजम् परिरभ्य रामः ।
क्व मैथिलि प्राण समा मम इतिविमुच्य वाचम् निपपात भूमौ ॥३-६७-२९॥