अयोध्याकाण्डम्
Chapter 104 / सर्गः १०४
Slōka 1 / श्लोक १
तं तु राम: समाज्ञाय भ्रातरं गुरुवत्सलम् ।
लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥ २.१०४.१॥
Slōka 2 / श्लोक २
किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया ।
यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ॥ २.१०४.२॥
Slōka 3 / श्लोक ३
किं निमित्तमिमं देशं कृष्णाजिनजटाधर: ।
हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥ २.१०४.३॥
Slōka 4 / श्लोक ४
इत्युक्त: कैकयीपुत्र: काकुत्स्थेन महात्मना ।
प्रगृह्य बलवद्भूय: प्राञ्जलिर्वाक्यमब्रवीत् ॥ २.१०४.४॥
Slōka 5 / श्लोक ५
आर्य्यं तात: परित्यज्य कृत्वा कर्म सुदुष्करम् ।
गत: स्वर्गं महाबाहु: पुत्रशोकाभिपीडित: ॥ २.१०४.५॥
Slōka 6 / श्लोक ६
स्त्रिया नियुक्त: कैकेय्या मम मात्रा परन्तप ।
चकार सुमहत्पापमिदमात्मयशोहरम् ॥ २.१०४.६॥
Slōka 7 / श्लोक ७
सा राज्यफलमप्राप्य विधवा शोककर्शिता ।
पतिष्यति महाघोरे निरये जननी मम ॥ २.१०४.७॥
Slōka 8 / श्लोक ८
तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि ।
अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ॥ २.१०४.८॥
Slōka 9 / श्लोक ९
इमा: प्रकृतय: सर्वा विधवा मातरश्च या: ।
त्वत्सकाशमनुप्राप्ता: प्रसादं कर्त्तुमर्हसि ॥ २.१०४.९॥
Slōka 10 / श्लोक १०
तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद ।
राज्यं प्राप्नुहि धर्मेण सकामान् सुहृद: कुरु ॥ २.१०४.१०॥
Slōka 11 / श्लोक ११
भवत्वविधवा भूमि: समग्रा पतिना त्वया ।
शशिना विमलेनेव शारदी रजनी यथा ॥ २.१०४.११॥
Slōka 12 / श्लोक १२
एभिश्च सचिवै: सार्द्धं शिरसा याचितो मया ।
भ्रातु: शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ॥ २.१०४.१२॥
Slōka 13 / श्लोक १३
तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् ।
पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥ २.१०४.१३॥
Slōka 14 / श्लोक १४
एवमुक्त्वा महाबाहु: सबाष्प: कैकयीसुत: ।
रामस्य शिरसा पादौ जग्राह विधिवत्पुन: ॥ २.१०४.१४॥
Slōka 15 / श्लोक १५
तं मत्तमिव मातङ्गं नि:श्वसन्तं पुन:पुन: ।
भ्रातरं भरतं राम: परिष्वज्येदमब्रवीत् ॥ २.१०४.१५॥
Slōka 16 / श्लोक १६
कुलीन: सत्त्वसम्पन्नस्तेजस्वी चरितव्रत: ।
राज्यहेतो: कथं पापमाचरेत्त्वद्विधो जन: ॥ २.१०४.१६॥
Slōka 17 / श्लोक १७
न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन ।
न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ॥ २.१०४.१७॥
Slōka 18 / श्लोक १८
कामकारो महाप्राज्ञ गुरूणां सर्वदा ऽनघ ।
उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ २.१०४.१८॥
Slōka 19 / श्लोक १९
वयमस्य यथा लोके सङ्ख्याता: सौम्य साधुभि: ।
भार्य्या: पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ॥ २.१०४.१९॥
Slōka 20 / श्लोक २०
वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् ।
राज्ये वापि महाराजो मां वासयितुमीश्वर: ॥ २.१०४.२०॥
Slōka 21 / श्लोक २१
यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् ।
तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥ २.१०४.२१॥
Slōka 22 / श्लोक २२
एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव ।
मातापितृभ्यामुक्तो ऽहं कथमन्यत् समाचरे ॥ २.१०४.२२॥
Slōka 23 / श्लोक २३
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् ।
वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥ २.१०४.२३॥
Slōka 24 / श्लोक २४
एवं कृत्वा महाराजो विभागं लोकसन्निधौ ।
व्यादिश्य च महातेजा दिवं दशरथो गत: ॥ २.१०४.२४॥
Slōka 25 / श्लोक २५
स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव ।
पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥ २.१०४.२५॥
Slōka 26 / श्लोक २६
चतुर्दशसमा: सौम्य दण्डकारण्यमाश्रित: ।
उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥ २.१०४.२६॥
Slōka 27 / श्लोक २७
यदब्रवीन्मां नरलोकसत्कृत: पिता महात्मा विबुधाधिपोपम: ।
तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ॥ २.१०४.२७ ॥