अयोध्याकाण्डम्
Chapter 107 / सर्गः १०७
Slōka 1 / श्लोक १
पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रज: ।
प्रत्युवाच तत: श्रीमान् ज्ञातिमध्ये ऽभिसत्कृत: ॥ २.१०७.१॥
Slōka 2 / श्लोक २
उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथा: ।
जात: पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥ २.१०७.२॥
Slōka 3 / श्लोक ३
पुरा भ्रात: पिता न: स मातरं ते समुद्वहन् ।
मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ २.१०७.३॥
Slōka 4 / श्लोक ४
दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिव: ।
सम्प्रहृष्टो ददौ राजा वरमाराधित: प्रभु: ॥ २.१०७.४॥
Slōka 5 / श्लोक ५
तत: सा सम्प्रतिश्राव्य तव माता यशस्विनी ।
अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ २.१०७.५॥
Slōka 6 / श्लोक ६
तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।
तौ च राजा तदा तस्यै नियुक्त: प्रददौ वरौ ॥ २.१०७.६॥
Slōka 7 / श्लोक ७
तेन पित्रा ऽहमप्यत्र नियुक्त: पुरुषर्षभ ।
चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ २.१०७.७॥
Slōka 8 / श्लोक ८
सो ऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वित: ।
सीतया चाप्रतिद्वन्द्व: सत्यवादे स्थित: पितु: ॥ २.१०७.८॥
Slōka 9 / श्लोक ९
भवानपि तथेत्येव पितरं सत्यवादिनम् ।
कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥ २.१०७.९॥
Slōka 10 / श्लोक १०
ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् ।
पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥ २.१०७.१०॥
Slōka 11 / श्लोक ११
श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना ।
गयेन यजमानेन गयेष्वेव पितऽन् प्रति ॥ २.१०७.११॥
Slōka 12 / श्लोक १२
पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुत: ।
तस्मात् पुत्र इति प्रोक्त: पितऽन् यत्पाति वा सुत: ॥ २.१०७.१२॥
Slōka 13 / श्लोक १३
एष्टव्या बहव: पुत्रा गुणवन्तो बहुश्रुता: ।
तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ २.१०७.१३॥
Slōka 14 / श्लोक १४
एवं राजर्षय: सर्वे प्रतीता राजनन्दन ।
तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ॥ २.१०७.१४॥
Slōka 15 / श्लोक १५
अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय ।
शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभि: ॥ २.१०७.१५॥
Slōka 16 / श्लोक १६
प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् ।
आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥ २.१०७.१६॥
Slōka 17 / श्लोक १७
त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् ।
गच्छत्वं पुरवरमद्य सम्प्रहृष्ट: संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥ २.१०७.१७॥
Slōka 18 / श्लोक १८
छायां ते दिनकरभा: प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ।
एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ॥ २.१०७.१८॥
Slōka 19 / श्लोक १९
शत्रुघ्न: कुशलमतिस्तु ते सहाय: सौमित्रिर्मम विदित: प्रधानमित्रम् ।
चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ २.१०७.१९ ॥