Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 2 / सर्गः २

Slōka 1 / श्लोक १

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
कुम्भयोनिर्मिहातेजा राममेतदुवाच ह ।। ७.२.१ ॥

Slōka 2 / श्लोक २

शृणु राम कथावृत्तं तस्य तेजोबलं महत् ।
जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ।। ७.२.२ ॥

Slōka 3 / श्लोक ३

तावत्ते रावणस्येदं कुलं जन्म च राघव ।
वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ।। ७.२.३ ॥

Slōka 4 / श्लोक ४

पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ।
पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ।। ७.२.४ ॥

Slōka 5 / श्लोक ५

नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ।
प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ।। ७.२.५ ॥

Slōka 6 / श्लोक ६

प्रजापतिसुतत्वेन देवानां वल्लभो हि सः ।
हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ।। ७.२.६ ॥

Slōka 7 / श्लोक ७

स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ।
तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ।। ७.२.७ ॥

Slōka 8 / श्लोक ८

तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ।
गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ।। ७.२.८ ॥

Slōka 9 / श्लोक ९

देवपन्नगकन्याश्च राजर्षितनयाश्च याः ।
क्रीडन्त्यो ऽप्सरसश्चैव तं देशमुपपेदिरे ।। ७.२.९ ॥

Slōka 10 / श्लोक १०

सर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य च ।
नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ।। ७.२.१० ॥

Slōka 11 / श्लोक ११

देशस्य रमणीयत्वात्पुलस्त्यो यत्र स द्विजः ।
गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ।मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ।। ७.२.११ ॥

Slōka 12 / श्लोक १२

अथ क्रुद्धो महातेजा व्याजहार महामुनिः ।
या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ।। ७.२.१२ ॥

Slōka 13 / श्लोक १३

तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः ।
ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ।। ७.२.१३ ॥

Slōka 14 / श्लोक १४

तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ।
। ७.२.१४ ॥

Slōka 15 / श्लोक १५

गत्वाश्रमपदं तत्र विचचार सुनिर्भया ।
न सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् ।। ७.२.१५ ॥

Slōka 16 / श्लोक १६

तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः ।
स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ।। ७.२.१६ ॥

Slōka 17 / श्लोक १७

सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् ।
अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ।। ७.२.१७ ॥

Slōka 18 / श्लोक १८

वभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः ।
इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वा ऽ ऽश्रमे स्थिता ।। ७.२.१८ ॥

Slōka 19 / श्लोक १९

तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् ।
किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ।। ७.२.१९ ॥

Slōka 20 / श्लोक २०

सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् ।
न जाने कारणं तात येन मे रूपमीदृशम् ।। ७.२.२० ॥

Slōka 21 / श्लोक २१

किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।
पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ।। ७.२.२१ ॥

Slōka 22 / श्लोक २२

न च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् ।
रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ।। ७.२.२२ ॥

Slōka 23 / श्लोक २३

तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।
ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ।। ७.२.२३ ॥

Slōka 24 / श्लोक २४

स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ।
गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ।। ७.२.२४ ॥

Slōka 25 / श्लोक २५

भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।
भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ।। ७.२.२५ ॥

Slōka 26 / श्लोक २६

तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते ।
शुश्रूषणपरा नित्यं भविष्यति न संशयः ।। ७.२.२६ ॥

Slōka 27 / श्लोक २७

तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा ।
जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ।। ७.२.२७ ॥

Slōka 28 / श्लोक २८

दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः ।
सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ।। ७.२.२८ ॥

Slōka 29 / श्लोक २९

तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः ।
प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ।। ७.२.२९ ॥

Slōka 30 / श्लोक ३०

परितुष्टो ऽस्मि सुश्रोणि गुणानां सम्पदा भृशम् ।
तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ।। ७.२.३० ॥

Slōka 31 / श्लोक ३१

उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ।
यस्मात्तु विश्रुतो वेदस्त्वयैषो ऽध्ययतो मम ।। ७.२.३१ ॥

Slōka 32 / श्लोक ३२

तस्मात्स विश्रवा नाम भविष्यति न संशयः ।
एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ।। ७.२.३२ ॥

Slōka 33 / श्लोक ३३

अचिरेणैव कालेनासूत विश्रवसं सुतम् ।
त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ।। ७.२.३३ ॥

Slōka 34 / श्लोक ३४

श्रुतिमान्समदर्शी च व्रताचाररतस्तथा ।
पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ।। ७.२.३४ ।।