Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 30 / सर्गः ३०

Slōka 1 / श्लोक १

हनुमानपि विश्रान्तः सर्वं शुश्राव तत्त्वतः ।
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ।। ५.३०.१।।।।

Slōka 2 / श्लोक २

अवेक्षमाणस्तां देवीं देवतामिव नन्दने ।
ततो बहुविधां चिन्तां चिन्तयामास वानरः ।। ५.३०.२।।।।

Slōka 3 / श्लोक ३

यां कपीनां सहस्राणि सुबहून्ययुतानि च ।
दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ।। ५.३०.३।।।।

Slōka 4 / श्लोक ४

चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता ।
गूढेन चरता तावदवेक्षितमिदं मया ।। ५.३०.४।।।।

Slōka 5 / श्लोक ५

राक्षसानां विशेषश्च पुरी चेयमवेक्षिता ।
राक्षसाधिपतेरस्य प्रभावो रावणस्य च ।। ५.३०.५।।।।

Slōka 6 / श्लोक ६

युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः ।
समाश्वासयितुं भार्यां पतिदर्शनकांक्षिणीम् ।। ५.३०.६।।।।

Slōka 7 / श्लोक ७

अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् ।
अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम् ।। ५.३०.७।।।।

Slōka 8 / श्लोक ८

यद्यप्यहमिमां देवीं शोकोपहतचेतनाम् ।
अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ।। ५.३०.८।।।।

Slōka 9 / श्लोक ९

गते हि मयि तत्रेयं राजपुत्री यशस्विनी ।
परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ।। ५.३०.९।।।।

Slōka 10 / श्लोक १०

मया च स महाबाहुः पूर्णचन्द्रनिभाननः ।
समाश्वासयितुं न्याय्यः सीतादर्शनलालसः ।। ५.३०.१०।।।।

Slōka 11 / श्लोक ११

निशाचरीणां प्रत्यक्षमनर्हं चापि भाषणम् ।
कथं तु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ।। ५.३०.११।।।।

Slōka 12 / श्लोक १२

अनेन रात्रिशेषेण यदि नाश्वास्यते मया ।
सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ।। ५.३०.१२।।।।

Slōka 13 / श्लोक १३

रामश्च यदि पृच्छेन्मां किं मां सीता ऽब्रवीद्वचः ।
किमहं दं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ।। ५.३०.१३।।।।

Slōka 14 / श्लोक १४

सीतासन्देशरहितं मामितस्त्वरया गतम् ।
निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा ।। ५.३०.१४।।।।

Slōka 15 / श्लोक १५

यदि चोद्योजयिष्यामि भर्तारं रामकारणात् ।
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ।। ५.३०.१५।।।।

Slōka 16 / श्लोक १६

अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः ।
शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ।। ५.३०.१६।।।।

Slōka 17 / श्लोक १७

अहं त्वति तनुश्चैव वानरश्च विशेषतः ।
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ।। ५.३०.१७।।।।

Slōka 18 / श्लोक १८

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ।वानरस्य विशेषेण कथं स्यादभिभाषणम् ।। ५.३०.१८।।।।

Slōka 19 / श्लोक १९

अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ।
मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ।। ५.३०.१९।।।।

Slōka 20 / श्लोक २०

सेयमालोक्य मे रूपं जानकी भाषितं तथा ।
रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति ।। ५.३०.२०।।।।

Slōka 21 / श्लोक २१

ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी ।
जानमाना विशालाक्षी रावणं कामरूपिणम् ।। ५.३०.२१।।।।

Slōka 22 / श्लोक २२

सीतया च कृते शब्दे सहसा राक्षसीगणः ।
नानाप्रहरणो घोरः समेयादन्तकोपमः ।। ५.३०.२२।।।।

Slōka 23 / श्लोक २३

ततो मां संपरिक्षिप्य सर्वतो विकृताननाः ।
वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ।। ५.३०.२३।।।।

Slōka 24 / श्लोक २४

गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् ।
दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः ।। ५.३०.२४।।।।

Slōka 25 / श्लोक २५

मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् ।
राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः ।। ५.३०.२५।।।।

Slōka 26 / श्लोक २६

ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि ।
राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने ।। ५.३०.२६।।।।

Slōka 27 / श्लोक २७

ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः ।
आपतेयुर्विमर्दे ऽस्मिन् वेगेनोद्विग्नकारिणः ।। ५.३०.२७।।।।

Slōka 28 / श्लोक २८

संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम् ।
शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः ।। ५.३०.२८।।।।

Slōka 29 / श्लोक २९

मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः ।
स्यादियं चागृहीतार्था मम च ग्रहणं भवेत् ।। ५.३०.२९।।।।

Slōka 30 / श्लोक ३०

हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ।
विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ।। ५.३०.३०।।।।

Slōka 31 / श्लोक ३१

उद्देशे नष्टमार्गे ऽस्मिन् राक्षसैः परिवारिते ।
सागरेण परिक्षिप्ते गुप्त वसति जानकी ।। ५.३०.३१।।।।

Slōka 32 / श्लोक ३२

विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ।
नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने ।। ५.३०.३२।।।।

Slōka 33 / श्लोक ३३

विमृशंश्च न पश्यामि यो हते मयि वानरः ।
शतयोजनविस्तीर्णं लङ्गयेत महोदधिम् ।। ५.३०.३३।।।।

Slōka 34 / श्लोक ३४

कामं हन्तुं समर्थो ऽस्मि सहस्राण्यपि रक्षसाम् ।
नतु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः ।। ५.३०.३४।।।।

Slōka 35 / श्लोक ३५

असत्यानि च युद्धानि संशयो मे न रोचते ।
कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम् ।। ५.३०.३५।।।।

Slōka 36 / श्लोक ३६

प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे ।
एष दोषो महान् हि स्यान्मम सीताभिभाषणे ।। ५.३०.३६।।।।

Slōka 37 / श्लोक ३७

भूताश्चार्था विनश्यन्ति देशकालविरोधिताः ।
विक्लवं दूतमासाद्य तमः सूर्योदये यथा ।। ५.३०.३७।।।।

Slōka 38 / श्लोक ३८

अर्थानर्थान्तरे बुद्धिर्निश्चिता ऽपि न शोभते ।
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ।। ५.३०.३८।।।।

Slōka 39 / श्लोक ३९

न विनश्येत् कथं कार्यं वैक्लव्यं न कथं भवेत् ।
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ।। ५.३०.३९।।।।

Slōka 40 / श्लोक ४०

कथं नु खलु वाक्यं मे श्रुणुयान्नोद्विजेत वा ।
इति संचिन्त्य हनुमांश्चकार मतिमान् मतिम् ।। ५.३०.४०।।।।

Slōka 41 / श्लोक ४१

राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन् ।
नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम् ।। ५.३०.४१।।।।

Slōka 42 / श्लोक ४२

इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः ।
शुभानि धर्मयुक्तानि वचनानि समर्पयन् ।। ५.३०.४२।।।।

Slōka 43 / श्लोक ४३

श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम् ।
श्रद्धास्यति यथा हीयं तथा सर्वं समादधे ।। ५.३०.४३।।।।

Slōka 44 / श्लोक ४४

इति स बहुविधं महानुभावो जगतिपतेः प्रमदामवेक्षमाणः ।
मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान् ।। ५.३०.४४।।