Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 19 / सर्गः १९

Slōka 1 / श्लोक १

तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः ।
आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ।। ५.१९.१।।।।

Slōka 2 / श्लोक २

दुःखार्ता रुदती सीता वेपमाना तपस्विनी ।
चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ।। ५.१९.२।।।।

Slōka 3 / श्लोक ३

तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ।
निवर्तय मनो मत्तः स्वजने क्रियतां मनः ।। ५.१९.३।।।।

Slōka 4 / श्लोक ४

न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् ।
अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् ।कुलं सम्प्राप्तया पुण्यं कुले महति जातया ।।५.१९.४।।।।

Slōka 5 / श्लोक ५

एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी ।
राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ।। ५.१९.५।।।।

Slōka 6 / श्लोक ६

नाहमौपयिकी भार्या परभार्या सती तव ।
साधु धर्ममवेक्षस्व साधु साधुव्रतं चर ।। ५.१९.६।।।।

Slōka 7 / श्लोक ७

यथा तव तथान्येषां रक्ष्या दारा निशाचर ।
आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् ।। ५.१९.७।।।।

Slōka 8 / श्लोक ८

अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् ।
नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् ।। ५.१९.८।।।।

Slōka 9 / श्लोक ९

इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ।
वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः ।। ५.१९.९।।।।

Slōka 10 / श्लोक १०

अकृतात्मानमासाद्य राजानमनये रतम् ।
समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ।। ५.१९.१०।।।।

Slōka 11 / श्लोक ११

तथेयं त्वां समासाद्य लङ्का रत्नौघ सङ्कुला ।
अपराधात्तवैकस्य नचिराद्विनशिष्यति ।। ५.१९.११।।।।

Slōka 12 / श्लोक १२

स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः ।
अभिनन्दन्ति भूतानि विनाशे पापकर्मणः ।। ५.१९.१२।।।।

Slōka 13 / श्लोक १३

एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः ।
दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ।। ५.१९.१३।।।।

Slōka 14 / श्लोक १४

शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ।
अनन्या राघवेणाहं भास्करेण प्रभा यथा ।। ५.१९.१४।।।।

Slōka 15 / श्लोक १५

उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् ।
कथं नामोपधास्यामि भुजमन्यस्य कस्य चित् ।। ५.१९.१५।।।।

Slōka 16 / श्लोक १६

अहमौपयिकी भार्या तस्यैव वसुधापतेः ।
व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः ।। ५.१९.१६।।।।

Slōka 17 / श्लोक १७

साधु रावण रामेण मां समानय दुःखिताम् ।
वने वाशितया सार्धं करेण्वेव गजाधिपम् ।। ५.१९.१७।।।।

Slōka 18 / श्लोक १८

मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता ।
वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः ।। ५.१९.१८।।।।

Slōka 19 / श्लोक १९

वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश् चिरम् ।
त्वद्विधं न तु सङ्क्रुद्धो लोकनाथः स राघवः ।। ५.१९.१९।।।।

Slōka 20 / श्लोक २०

रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ।
शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ।। ५.१९.२०।।।।

Slōka 21 / श्लोक २१

इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ।
इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः ।। ५.१९.२१।।।।

Slōka 22 / श्लोक २२

रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः ।
असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः ।। ५.१९.२२।।।।

Slōka 23 / श्लोक २३

राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् ।
उद्धरिष्यति वेगेन वैनतेय इवोरगान् ।। ५.१९.२३।।।।

Slōka 24 / श्लोक २४

अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः ।
असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ।। ५.१९.२४।।।।

Slōka 25 / श्लोक २५

जनस्थाने हतस्थाने निहते रक्षसां बले ।
अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ।। ५.१९.२५।।।।

Slōka 26 / श्लोक २६

आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः ।
गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम ।। ५.१९.२६।।।।

Slōka 27 / श्लोक २७

न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया ।
शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव ।। ५.१९.२७।।।।

Slōka 28 / श्लोक २८

तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् ।
वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ।। ५.१९.२८।।।।

Slōka 29 / श्लोक २९

क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह ।
तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ।। ५.१९.२९।।