उत्तरकाण्डम्डम्
Chapter 42 / सर्गः ४२
Slōka 1 / श्लोक १
स विसृज्य ततो रामः पुष्पकं हेमभूषितम् ।
प्रविवेश महाबाहुरशोकवनिकां तदा ।। ७.४२.१ ॥
Slōka 2 / श्लोक २
चन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि ।
देवदारुवनैश्चापि समन्तादुपशोभिताम् ।। ७.४२.२ ॥
Slōka 3 / श्लोक ३
चम्पकाशोकपुन्नागमधूकपनसासनैः ।
शोभितां पारिजातैश्च विधूमज्वलनप्रभैः ।। ७.४२.३ ॥
Slōka 4 / श्लोक ४
लोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः ।
मन्दारकदलीगुल्मलताजालसमावृताम् ।। ७.४२.४ ॥
Slōka 5 / श्लोक ५
प्रियङ्गुभिः कदम्बैश्च तथा च वकुलैरपि ।
जम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ।। ७.४२.५ ॥
Slōka 6 / श्लोक ६
सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः ।
दिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ।। ७.४२.६ ॥
Slōka 7 / श्लोक ७
तथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः ।
चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः ।। ७.४२.७ ॥
Slōka 8 / श्लोक ८
कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः ।
शोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ।। ७.४२.८ ॥
Slōka 9 / श्लोक ९
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ।
नीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ।। ७.४२.९ ॥
Slōka 10 / श्लोक १०
सुरभीणि च पुष्पाणि माल्यानि विविधानि च ।
दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ।। ७.४२.१० ॥
Slōka 11 / श्लोक ११
माणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः ।
फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ।। ७.४२.११ ॥
Slōka 12 / श्लोक १२
दात्यूहशुकसङ्घुष्टा हंससारसनादिताः ।
तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ।। ७.४२.१२ ॥
Slōka 13 / श्लोक १३
प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः ।
तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ।। ७.४२.१३ ॥
Slōka 14 / श्लोक १४
शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् ।
तत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम् ।। ७.४२.१४ ॥
Slōka 15 / श्लोक १५
प्रस्तराः पुष्पशबला नभस्तारागणैरिव ।
नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ।तथाभूतं हि रामस्य काननं सन्निवेशनम् ।। ७.४२.१५ ॥
Slōka 16 / श्लोक १६
बह्वासनगृहोपेतां लतागृहसमावृताम् ।
अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ।। ७.४२.१६ ॥
Slōka 17 / श्लोक १७
आसने च शुभाकारे पुष्पप्रकरभूषिते ।
कुशास्तरणसंस्तीर्णे रामः सन्निषसाद ह ।। ७.४२.१७ ॥
Slōka 18 / श्लोक १८
सीतामादायं हस्तेन मधुमैरेयकं शुचि ।
पाययामास काकुत्स्थः शचीमिव पुरन्दरः ।। ७.४२.१८ ॥
Slōka 19 / श्लोक १९
मांसानि च समृष्टानि फलानि विविधानि च ।
रामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन् ।। ७.४२.१९ ॥
Slōka 20 / श्लोक २०
उपानृत्यंश्च राजानं नृत्यगीतविशारदाः ।
बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः ।। ७.४२.२० ॥
Slōka 21 / श्लोक २१
मनोभिरामा रामास्ता रामो रमयतां वरः ।
रमयामास धर्मात्मा नित्यं परमभूषितः ।। ७.४२.२१ ॥
Slōka 22 / श्लोक २२
स तया सीतया सार्धमासीनो विरराज ह ।
अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ।। ७.४२.२२ ॥
Slōka 23 / श्लोक २३
एवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् ।
रमयामास वैदेहीमहन्यहनि देववत् ।। ७.४२.२३ ॥
Slōka 24 / श्लोक २४
तथा तयोर्विहरतोः सीताराघवयोश्चिरम् ।
अत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा ।। ७.४२.२४ ॥
Slōka 25 / श्लोक २५
दशवर्षसहस्राणि गतानि सुमहात्मनोः ।
प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ।। ७.४२.२५ ॥
Slōka 26 / श्लोक २६
पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् ।
शेषं दिवसभागार्धमन्तःपुरगतो ऽभवत् ।। ७.४२.२६ ॥
Slōka 27 / श्लोक २७
सीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै ।
श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ।। ७.४२.२७ ॥
Slōka 28 / श्लोक २८
अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा ।
त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ।। ७.४२.२८ ॥
Slōka 29 / श्लोक २९
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् ।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ।। ७.४२.२९ ॥
Slōka 30 / श्लोक ३०
अब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् ।
अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ।। ७.४२.३० ॥
Slōka 31 / श्लोक ३१
किमिच्छसि वरारोहे कामः किं क्रियतां तव ।
। ७.४२.३१ ॥
Slōka 32 / श्लोक ३२
स्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् ।
तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ।। ७.४२.३२ ॥
Slōka 33 / श्लोक ३३
गङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् ।
फलमूलाशिनां देव पादमूलेषु वर्तितुम् ।। ७.४२.३३ ॥
Slōka 34 / श्लोक ३४
एष मे परमः कामो यन्मूलफलभोजिनाम् ।
अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने ।। ७.४२.३४ ॥
Slōka 35 / श्लोक ३५
तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा ।
विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ।। ७.४२.३५ ॥
Slōka 36 / श्लोक ३६
एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् ।
मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ।। ७.४२.३६ ।।