Star (-) Watch (-)

Ramayana

अयोध्याकाण्डम्

Chapter 94 / सर्गः ९४

Slōka 1 / श्लोक १

दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: ।
वैदेह्या: प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ॥ २.९४.१॥

Slōka 2 / श्लोक २

अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।
भार्य्याममरसङ्काश: शचीमिव पुरन्दर: ॥ २.९४.२॥

Slōka 3 / श्लोक ३

न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभव: ।
मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ २.९४.३॥

Slōka 4 / श्लोक ४

पश्येममचलं भद्रे नानाद्विजगणायुतम् ।
शिखरै: खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ॥ २.९४.४॥

Slōka 5 / श्लोक ५

केचिद्रजतसङ्काशा: केचित् क्षतजसन्निभा: ।
पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभा: ॥ २.९४.५॥

Slōka 6 / श्लोक ६

पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभा: ।
विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिता: ॥ २.९४.६॥

Slōka 7 / श्लोक ७

नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृत: ।
अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुत: ॥ २.९४.७॥

Slōka 8 / श्लोक ८

आम्रजम्ब्वसनैर्लोध्रै: प्रियालै: पनसैर्धवै: ।
अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभि: ॥ २.९४.८॥

Slōka 9 / श्लोक ९

काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा ।
बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकै: ॥ २.९४.९॥

Slōka 10 / श्लोक १०

पुष्पवद्भि: फलोपेतैश्छायावद्भिर्मनोरमै: ।
एवमादिभिराकीर्ण: श्रियं पुष्यत्ययं गिरि: ॥ २.९४.१०॥

Slōka 11 / श्लोक ११

शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् ।
किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विन: ॥ २.९४.११॥

Slōka 12 / श्लोक १२

शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च ।
पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥ २.९४.१२॥

Slōka 13 / श्लोक १३

जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् ।
स्रवद्भिर्भात्ययं शैल: स्रवन्मद इव द्विप: ॥ २.९४.१३॥

Slōka 14 / श्लोक १४

गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् ।
घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ २.९४.१४॥

Slōka 15 / श्लोक १५

यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते ।
लक्ष्मणेन च वत्स्यामि न मां शोक: प्रधक्ष्यति ॥ २.९४.१५॥

Slōka 16 / श्लोक १६

बहुपुष्पफले रम्ये नानाद्विजगणायुते ।
विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ॥ २.९४.१६॥

Slōka 17 / श्लोक १७

अनेन वनवासेन मया प्राप्तं फलद्वयम् ।
पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ २.९४.१७॥

Slōka 18 / श्लोक १८

वैदेहि रमसे कच्चिच्चित्रकूटे मया सह ।
पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ॥ २.९४.१८॥

Slōka 19 / श्लोक १९

इदमेवामृतं प्राहू राज्ञि राजर्षय: परे ।
वनवासं भवार्थाय प्रेत्य मे प्रपितामहा: ॥ २.९४.१९॥

Slōka 20 / श्लोक २०

शिला: शैलस्य शोभन्ते विशाला: शतशो ऽभित: ।
बहुला बहुलैर्वर्णैर्नीलपीतसितारुणै: ॥ २.९४.२०॥

Slōka 21 / श्लोक २१

निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव ।
ओषध्य: स्वप्रभालक्ष्या भ्राजमाना: सहस्रश: ॥ २.९४.२१॥

Slōka 22 / श्लोक २२

केचित् क्षयनिभा देशा: केचिदुद्यानसन्निभा: ।
केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥ २.९४.२२॥

Slōka 23 / श्लोक २३

भित्त्वेव वसुधां भाति चित्रकूट: समुत्थित: ।
चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वत: शुभ: ॥ २.९४.२३॥

Slōka 24 / श्लोक २४

कुष्ठपुन्नागस्ऺथगरभूर्जपत्रोत्तरच्छदान् ।
कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ॥ २.९४.२४॥

Slōka 25 / श्लोक २५

मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रज: ।
कामिभिर्वनिते पश्य फलानि विविधानि च ॥ २.९४.२५॥

Slōka 26 / श्लोक २६

वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् ।
पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदक: ॥ २.९४.२६॥

Slōka 27 / श्लोक २७

इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च ।
रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमै: परै: स्थित: ॥ २.९४.२७ ॥