उत्तरकाण्डम्डम्
Chapter 99 / सर्गः ९९
Slōka 1 / श्लोक १
रजन्यां तु प्रभातायां समानीय महामुनीन् ।
गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ।। ७.९९.१ ॥
Slōka 2 / श्लोक २
ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु ।
भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ।। ७.९९.२ ॥
Slōka 3 / श्लोक ३
प्रविष्टायां तु सीतायां भूतलं सत्यसम्पदा ।
तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ।। ७.९९.३ ॥
Slōka 4 / श्लोक ४
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् ।
शोकेन परमायस्तो न शान्तिं मनसा ऽगमत् ।। ७.९९.४ ॥
Slōka 5 / श्लोक ५
विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् ।
जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च ।। ७.९९.५ ॥
Slōka 6 / श्लोक ६
एवं समाप्य यज्ञं तु विधिवत्स तु राघवः ।
ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः ।। ७.९९.६ ॥
Slōka 7 / श्लोक ७
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह ।
इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः ।। ७.९९.७ ॥
Slōka 8 / श्लोक ८
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः ।
यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् ।। ७.९९.८ ॥
Slōka 9 / श्लोक ९
दशवर्षसहस्राणि वाजिमेघानथाकरोत् ।
वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ।। ७.९९.९ ॥
Slōka 10 / श्लोक १०
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः ।
ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ।। ७.९९.१० ॥
Slōka 11 / श्लोक ११
एवं स कालः सुमहान्राज्यस्थस्य महात्मनः ।
धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ।। ७.९९.११ ॥
Slōka 12 / श्लोक १२
अनुरञ्जन्ति राजानमहन्यहनि राघवम् ।
ऋक्षवानररक्षांसि स्थिता रामस्य शासने ।। ७.९९.१२ ॥
Slōka 13 / श्लोक १३
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः ।
हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ।। ७.९९.१३ ॥
Slōka 14 / श्लोक १४
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा ।
नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ।। ७.९९.१४ ॥
Slōka 15 / श्लोक १५
अथ दीर्घस्य कालस्य राममाता यशस्विनी ।
पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ।। ७.९९.१५ ॥
Slōka 16 / श्लोक १६
अन्वियाय सुमित्रा च कैकेयी च यशस्विनी ।
धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ।। ७.९९.१६ ॥
Slōka 17 / श्लोक १७
सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च ।
समागता महाभागाः सर्वधर्मं च लेभिरे ।। ७.९९.१७ ॥
Slōka 18 / श्लोक १८
तासां रामो महादानं काले काले प्रयच्छति ।
मातऽणामविशेषेण ब्राह्मणेषु तपस्विषु ।। ७.९९.१८ ॥
Slōka 19 / श्लोक १९
पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् ।
चकार रामो धर्मात्मा पितऽन्देवान्विवर्धयन् ।। ७.९९.१९ ॥
Slōka 20 / श्लोक २०
एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् ।
यज्ञैर्बहुविधं धर्मं वर्धयानस्य सर्वदा ।। ७.९९.२० ।।