Star (-) Watch (-)

Ramayana

युद्धकाण्डम्

Chapter 14 / सर्गः १४

Slōka 1 / श्लोक १

निशाचरेन्द्रस्य निशम्य वाक्यम् ।
स कुम्भकर्णस्य च गर्जितानि ।विभीषणो राक्षसराजमुख्य ।मुवाच वाक्यम् हितम्र्थयुक्तम् ॥६-१४-१॥।।

Slōka 2 / श्लोक २

वृतो हि बाह्वन्तरभोगराशि ।
श्चिन्ताविषः सुस्मिततीक्षणदम्ष्ट्रः ।पञ्चाङ्गुलीपञ्चशिरोऽतिकायः ।सीतामहाहिस्तव केन राजन् ॥६-१४-२॥।।

Slōka 3 / श्लोक ३

यावन्न लङ्का समभिद्रवन्ति ।
वलीमुखाः पर्वतकूटमात्राः ।दम्ष्ट्रयुधाश्चैव नखायुधाश्च ।प्रदीयताम् दाशरथाय मैथिली ॥६-१४-३॥।।

Slōka 4 / श्लोक ४

यावन्न गृह्णन्ति शिराम्सि बाणा ।
रामेरिता राक्षसपुङ्गवानाम् ।वज्रोपमा वायुसमानवेगाः ।प्रदीयताम् दाशरथाय मैथिली ॥६-१४-४॥।।

Slōka 5 / श्लोक ५

न कुम्भकर्णेन्द्रजितौ च राजम् ।
स्तथा महापार्श्वमहोदरौ वा ।निकुम्भकुम्भौ च तथातिकायः ।स्थातुम् समर्था युधि राघवस्य ॥६-१४-५॥।।

Slōka 6 / श्लोक ६

जीवम्स्तु रामस्य न मोक्स्यसे त्वम् ।
गुप्तः सवित्राप्यथवा मरुद्भिः ।न वासवस्याङ्कगतो न मृत्यो ।र्नभो न पातालमनुप्रविष्टः ॥६-१४-६॥।।

Slōka 7 / श्लोक ७

निशम्य वाक्यम् तु विभीषणस्य ।
ततः प्रहस्तो वचनम् बभाषे ।न नो भयम् विद्म न दैवतेभ्यो ।न दानवेभ्योऽप्यथवा कदाचित् ॥६-१४-७॥।।

Slōka 8 / श्लोक ८

न यक्षगन्धर्वमहोरगेभ्यो ।
भयम् न सम्ख्ये पतगोरगेभ्यः ।कथम् नु रामाद्भविता भयम् नो ।नरेन्द्रपुत्रात्समरे कदाचित् ॥६-१४-८॥।।

Slōka 9 / श्लोक ९

प्रहस्तवाक्यम् त्वहितम् निशम्य ।
विभीषणो राजहितानुकाङिक्षी ।ततो महार्थम् वचनम् बभाषे ।धर्मार्थकामेषु निविष्टबुद्धिः ॥६-१४-९॥।।

Slōka 10 / श्लोक १०

प्रहस्त राजा च महोदरश्च ।
त्वम् कुम्भकर्णश्च यथार्थजातम् ।ब्रवीत रामम् प्रति तन्न शक्यम् ।यथा गतिः स्वर्गमधर्मबुद्धेः ॥६-१४-१०॥।।

Slōka 11 / श्लोक ११

वधस्तु रामस्य मया त्वया च ।
प्रहस्त सर्वैरपि राक्षसैर्वा ।कथम् भवेदर्थविशारदस्य ।महार्णवम् तर्तु मिवाप्लवस्य ॥६-१४-११॥।।

Slōka 12 / श्लोक १२

धर्मप्रधानस्य महारथस्य ।
इक्स्वाकुवम्शप्रभवस्य राज्ञः ।पुरोऽस्य देवाश्च तथाविधस्य ।कृत्येषु शक्तस्य भवन्ति मूढाः ॥६-१४-१२॥।।

Slōka 13 / श्लोक १३

तीक्षणा न तावत्तव कङ्कपत्रा ।
दुरापदा राघवविप्रमुक्ताः ।भित्त्वाशरीरम् प्रविशन्ति बाणाः ।प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१३॥।।

Slōka 14 / श्लोक १४

भित्त्वा न तावत्प्रविशन्ति कायम् ।
प्राणान्तकास्तेऽशनितुल्य्वेगाः ।शिताः शरा राघवविप्रमुक्ताः ।प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१४॥।।

Slōka 15 / श्लोक १५

न रावणो नाइबलस्त्रीशीर्षो ।
न कुम्भकर्णस्य सुतो निकुभः ।न चेन्द्रजिद्दाशरथिम् प्रसोढुम् ।त्वम् वा रणे शक्रसमम् समर्थः ॥६-१४-१५॥।।

Slōka 16 / श्लोक १६

देवान्तको वापि नरान्तको वा ।
तथातिकायोऽतिरथो महात्मा ।अकम्पननश्चाद्रिसमानसारः ।स्थातुम् न शक्ता युधि राघवस्य ॥६-१४-१६॥।।

Slōka 17 / श्लोक १७

अयम् च राजा न्यसनाभिभूतो ।
मित्रैरमित्रप्रतिमैर्भवद्भिः ।अन्वास्यते राक्षसनाशनार्थे ।तीक्षणः प्रकृत्या ह्यसमीक्ष्यकारी ॥६-१४-१७॥।।

Slōka 18 / श्लोक १८

अनन्तभोगेन सहस्रमूर्ध्ना ।
वागेन भीमेन महाबलेन ।बलात्परिक्षिप्तमिमम् भवन्तो ।राजानमुत्क्षिप्य विमोचयन्तु ॥६-१४-१८॥।।

Slōka 19 / श्लोक १९

यावद्धि केशग्रहणात्सुहृद्भिः ।
समेत्य सर्वैः परिपूर्णकामैः ।निगृह्य राजा परिरक्षितव्यो ।भूतैर्यथा भीमबलैर्गृहीअः ॥६-१४-१९॥।।

Slōka 20 / श्लोक २०

सुवारिणा राघवसागरेण ।
प्रच्चाद्यमानस्तरसा भवद्भिः ।प्रच्चाद्यमानस्तरसा भवद्भिः ।युक्तस्त्वयम् तारयितुम् समेत्य ।काकुत्थ्सपातालमुखे पतन्सः ॥६-१४-२०॥।।

Slōka 21 / श्लोक २१

इदम् पुरस्यास्य सराक्षसस्य ।
राज्ञश्च पथ्यम् ससुहृज्जनस्य ।सम्यग्घि वाक्यम् स्वमतम् ब्रवीमि ।नरेन्द्रपुत्राय ददातु मैथिलीम् ॥६-१४-२१॥।।

Slōka 22 / श्लोक २२

परस्य वीर्यम् स्वबलम् च बुद्ध्वा ।
स्थानम् क्षयम् चैव तथैव वृद्धिम् ।तथा स्वपक्षे प्यनुमृश्य बुद्ध्या ।वद्त् क्षमम् स्वामिहितम् स मन्त्री ॥६-१४-२२॥