उत्तरकाण्डम्डम्
Chapter 37 / सर्गः ३७
Slōka 1 / श्लोक १
अभिषिक्ते तु काकुत्स्थे धर्मेण विदितात्मनि ।
व्यतीता या निशा पूर्वा पौराणां हर्षवर्धिनी ।। ७.३७.१ ॥
Slōka 2 / श्लोक २
तस्यां रजन्यां व्युष्टायां प्रातर्नृपतिबोधकाः ।
वन्दिनः समुपातिष्ठन्सौम्या नृपतिवेश्मनि ।। ७.३७.२ ॥
Slōka 3 / श्लोक ३
ते रक्तकण्ठिनः सर्वे किन्नरा इव शिक्षिताः ।
तुष्टुवुर्नपतिं वीरं यथावत् सम्प्रहर्षिणः ।। ७.३७.३ ॥
Slōka 4 / श्लोक ४
वीर सौम्य प्रबुध्यस्व कौसल्याप्रीतिवर्धन ।
जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ।। ७.३७.४ ॥
Slōka 5 / श्लोक ५
विक्रमस्ते यथा विष्णो रूपं चैवाश्विनोरिव ।
बुद्ध्या बृहस्पतेस्तुल्यः प्रजापतिसमो ह्यसि ।। ७.३७.५ ॥
Slōka 6 / श्लोक ६
क्षमा ते पृथिवीतुल्या तेजसा भास्करोपमः ।
वेगस्ते वायुना तुल्यो गाम्भीर्यमुदधेरिव ।। ७.३७.६ ॥
Slōka 7 / श्लोक ७
अप्रकम्प्यो यता स्थाणुश्चन्द्रे सौम्यत्वमीदृशम् ।
नेदृशाः पार्थिवाः पूर्वं भवितारो नराधिप ।। ७.३७.७ ॥
Slōka 8 / श्लोक ८
यथा त्वमतिदुर्धर्षो धर्मनित्यः प्रजाहितः ।
न त्वां जहाति कीर्तिश्च लक्ष्मीश्च पुरुषर्षभ ।। ७.३७.८ ॥
Slōka 9 / श्लोक ९
श्रीश्च धर्मश्च काकुत्स्थ त्वयि नित्यं प्रतिष्ठितौ ।
एताश्चान्याश्च मधुरा वन्दिभिः परिकीर्तिताः ।। ७.३७.९ ॥
Slōka 10 / श्लोक १०
सूताश्च संस्तवैर्दिव्यैर्बोधयन्ति स्म राघवम् ।
स्तुतिभिः स्तूयमानाभिः प्रत्यबुध्यत राघवः ।। ७.३७.१० ॥
Slōka 11 / श्लोक ११
स तद्विहाय शयनं पाण्डराच्छादनास्तृतम् ।
उत्तस्थौ नागशयनाद्धरिर्नारायणो यथा ।। ७.३७.११ ॥
Slōka 12 / श्लोक १२
तमुत्थितं महात्मानं प्रह्वाः प्राञ्जलयो नराः ।
सलिलं भाजनैः शुभ्रैरुपतस्थुः सहस्रशः ।। ७.३७.१२ ॥
Slōka 13 / श्लोक १३
कृतोदकशुचिर्भूत्वा काले हुतहुताशनः ।
देवागारं जगामाशु पुण्यमिक्ष्वाकुसेवितम् ।। ७.३७.१३ ॥
Slōka 14 / श्लोक १४
तत्र देवान्पितऽन्विप्रानर्चयित्वा यथाविधि ।
बाह्यकक्षान्तरं रामो निर्जगाम जनैर्वृतः ।। ७.३७.१४ ॥
Slōka 15 / श्लोक १५
उपतस्थुर्महात्मानो मन्त्रिणः सपुरोहिताः ।
वसिष्ठप्रमुखाः सर्वे दीप्यमाना इवाग्नयः ।। ७.३७.१५ ॥
Slōka 16 / श्लोक १६
क्षत्रियाश्च महात्मानो नानाजनपदेश्वराः ।
रामस्योपाविशन्पार्श्वे शक्रस्येव यथा ऽमराः ।। ७.३७.१६ ॥
Slōka 17 / श्लोक १७
भरतो लक्ष्मणश्चात्र शत्रुघ्नश्च महायशाः ।
उपासाञ्चक्रिरे हृष्टा वेदास्त्रय इवाध्वरम् ।। ७.३७.१७ ॥
Slōka 18 / श्लोक १८
याताः प्राञ्जलयो भूत्वा किङ्करा मुदिताननाः ।
मुदिता नाम पार्श्वस्था बहवः समुपाविशन् ।। ७.३७.१८ ॥
Slōka 19 / श्लोक १९
वानराश्च महावीर्या विंशतिः कामरूपिणः ।
सुग्रीवप्रमुखा राममुपासन्ते महौजसः ।। ७.३७.१९ ॥
Slōka 20 / श्लोक २०
विभीषणश्च रक्षोभिश्चतुर्भिः परिवारितः ।
उपासते महात्मानं धनेशमिव गुह्यकाः ।। ७.३७.२० ॥
Slōka 21 / श्लोक २१
तथा निगमवृद्धाश्च कुलीना ये च मानवाः ।
शिरसा ऽ ऽवन्द्य राजानमुपासन्ते विचक्षणाः ।। ७.३७.२१ ॥
Slōka 22 / श्लोक २२
तथा परिवृतो राजा श्रीमद्भिर्ऋषिभिर्वृतः ।
राजभिश्च महावीर्यैर्वानरैश्च सराक्षसैः ।। ७.३७.२२ ॥
Slōka 23 / श्लोक २३
यथा देवेश्वरो नित्यमृषिभिः समुपास्यते ।
अधिकस्तेन रूपेण सहस्राक्षाद्विरोचते ।। ७.३७.२३ ॥
Slōka 24 / श्लोक २४
तेषां समुपविष्टानां तास्ताः सुमधुराः कथाः ।
कथ्यन्ते धर्मसंयुक्ताः पुराणज्ञैर्महात्मभिः ।। ७.३७.२४ ।।