सुन्दरकाण्डम्
Chapter 56 / सर्गः ५६
Slōka 1 / श्लोक १
ततस्तु शिंशुपामूले जानकीं पर्यवस्थिताम् ।
अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम् ।। 5.56.1 ।।।।
Slōka 2 / श्लोक २
ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।
भर्तृस्नेहान्वितं वाक्यं हनुमन्तमभाषत ।। 5.56.2 ।।।।
Slōka 3 / श्लोक ३
काममस्य त्वमेवैकः कार्यस्य परिसाधने ।
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ।। 5.56.3 ।।।।
Slōka 4 / श्लोक ४
शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।
मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। 5.56.4 ।।।।
Slōka 5 / श्लोक ५
तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।
भवत्याहवशूरस्य तथा त्वमुपपादय ।। 5.56.5 ।।।।
Slōka 6 / श्लोक ६
तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।
निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ।। 5.56.6 ।।।।
Slōka 7 / श्लोक ७
क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।
यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।। 5.56.7 ।।।।
Slōka 8 / श्लोक ८
एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।
गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत् ।। 5.56.8 ।।।।
Slōka 9 / श्लोक ९
ततः स कपिशार्दूलः स्वामिसन्दर्शनोत्सुकः ।
आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ।। 5.56.9 ।।।।
Slōka 10 / श्लोक १०
तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः ।
सोत्तरीयमिवाम्भोदैः श्रृङ्गान्तरविलम्बिभिः ।। 5.56.10 ।।।।
Slōka 11 / श्लोक ११
बोध्यमानमिव प्रीत्या दिवाकरकरैः शुभैः ।
उन्मिषन्तमिवोद्धूतैर्लोचनैरिव धातुभिः ।। 5.56.11 ।।।।
Slōka 12 / श्लोक १२
तोयौघनिस्वनैर्मन्द्रैः प्राधीतमिव पर्वतम् ।
प्रगीतमिव विस्पष्टैर्नानाप्रस्रवणस्वनैः ।। 5.56.12 ।।।।
Slōka 13 / श्लोक १३
देवदारुभिरत्युच्चैरूर्ध्वबाहुमिव स्थितम् ।
प्रपातजलनिर्घोषैः प्राक्रृष्टमिव सर्वतः ।। 5.56.13 ।।।।
Slōka 14 / श्लोक १४
वेपमानमिव श्यामैः कम्पमानैः शरद्घनैः ।
वेणुभिमारुतोद्धूतैः कूजन्तमिव कीचकैः ।। 5.56.14 ।।।।
Slōka 15 / श्लोक १५
निःश्वसन्तमिवामर्षाद्घोरैराशीविषोत्तमैः ।
नीहारकृतगम्भीरैर्ध्यायन्तमिव गह्वरैः ।। 5.56.15 ।।।।
Slōka 16 / श्लोक १६
मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः ।
जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः ।। 5.56.16 ।।।।
Slōka 17 / श्लोक १७
कूटैश्च बहुधाकीर्णैः शोभितं बहुकन्दरैः ।
सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम् ।। 5.56.17 ।।।।
Slōka 18 / श्लोक १८
लतावितानैर्विततैः पुष्पवद्भिरलङ्कृतम् ।
नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम् ।बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् ।। 5.56.18 ।।।।
Slōka 19 / श्लोक १९
महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् ।
लतापादपसङ्घातं सिंहाध्युषितकन्दरम् ।। 5.56.19 ।।।।
Slōka 20 / श्लोक २०
व्याघ्रसङ्घसमाकीर्णं स्वादुमूलकफलद्रुमम् ।
। 5.56.20 ।।।।
Slōka 21 / श्लोक २१
तमारुरोह हनुमान् पर्वतं पवनात्मजः ।
रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः ।। 5.56.21 ।।।।
Slōka 22 / श्लोक २२
तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु ।
सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः ।। 5.56.22 ।।।।
Slōka 23 / श्लोक २३
स तमारुह्य शैलेन्द्रं व्यवर्धत व्यवर्धत महाकपिः ।
दक्षिणादुत्तरं पारं प्रार्थयन् लवणाम्भसः ।। 5.56.23 ।।।।
Slōka 24 / श्लोक २४
अधिरूह्य ततो वीरः पर्वतं पवनात्मजः ।
ददर्श सागरं भीमं मीनोरगनिषेवितम् ।। 5.56.24 ।।।।
Slōka 25 / श्लोक २५
स मारुत इवाकाशं मारुतस्यात्मसम्भवः ।
प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ।। 5.56.25 ।।।।
Slōka 26 / श्लोक २६
स तदा पीडितस्तेन कपिना पर्वतोत्तमः ।
ररास सह तैर्भूतैः प्रविशन् वसुधातलम् ।कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ।। 5.56.26 ।।।।
Slōka 27 / श्लोक २७
तस्योरुवेगोन्मथिताः पादपाः पुष्पशालिनः ।
निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ।। 5.56.27 ।।।।
Slōka 28 / श्लोक २८
कन्दरान्तरसंस्थानां पीडितानां महौजसाम् ।
सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे ।। 5.56.28 ।।।।
Slōka 29 / श्लोक २९
स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणाः ।
विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ।। 5.56.29 ।।।।
Slōka 30 / श्लोक ३०
अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः ।
निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः ।। 5.56.30 ।।।।
Slōka 31 / श्लोक ३१
किन्नरोरगगन्धर्वयक्षविद्याधरास्तदा ।
पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ।। 5.56.31 ।।।।
Slōka 32 / श्लोक ३२
स च भूमिधरः श्रीमान् बलिना तेन पीडितः ।
सवृक्षशिखरोदग्रः प्रविवेश रसातलम् ।। 5.56.32 ।।।।
Slōka 33 / श्लोक ३३
दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः ।
धरण्यां समतां यातः स बभूव धराधरः ।। 5.56.33 ।।।।
Slōka 34 / श्लोक ३४
स लिलङ्घयिषुर्भीमं सलीलं लवणार्णवम् ।
कल्लोलास्फालवेलान्तमुत्पपात नभो हरिः ।। 5.56.34 ।।