Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 61 / सर्गः ६१

Slōka 1 / श्लोक १

ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः ।
अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ।। ५.६१.१ ।।।।

Slōka 2 / श्लोक २

प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरस्सराः ।
महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ।। ५.६१.२ ।।।।

Slōka 3 / श्लोक ३

मेरुमन्दरसङ्काशा मत्ता इव महागजाः ।
छादयन्त इवाकाशं महाकाया महाबलाः ।। ५.६१.३ ।।।।

Slōka 4 / श्लोक ४

सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम् ।
हनूमन्तं महावेगं वहन्त इव दृष्टिभिः ।। ५.६१.४ ।।।।

Slōka 5 / श्लोक ५

राघवे चार्थनिर्वृत्तिं कर्तुं च परमं यशः ।
समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः ।। ५.६१.५ ।।।।

Slōka 6 / श्लोक ६

प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः ।
सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः ।। ५.६१.६ ।।।।

Slōka 7 / श्लोक ७

प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः ।
नन्दनोपममासेदुर्वनं द्रुमलतायुतम् ।। ५.६१.७ ।।।।

Slōka 8 / श्लोक ८

यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम् ।
अधृष्यं सर्वभूतानां सर्वभूतमनोहरम् ।। ५.६१.८ ।।।।

Slōka 9 / श्लोक ९

यद्रक्षति महावीर्यः सदा दधिमुखः कपिः ।
मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः ।। ५.६१.९ ।।।।

Slōka 10 / श्लोक १०

ते तद्वनमुपागम्य बभूवुः परमोत्कटाः ।
वानरा वानरेन्द्रस्य मनः कान्ततमं महत् ।। ५.६१.१० ।।।।

Slōka 11 / श्लोक ११

ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत् ।
कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः ।। ५.६१.११ ।।।।

Slōka 12 / श्लोक १२

ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन् ।
अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे ।। ५.६१.१२ ।।।।

Slōka 13 / श्लोक १३

अङ्गदेनानुमतास्सन्तस्ततो मुदिताः तत्प्रेरिताः प्रनृत्यन्तो ऽभवन् ।
। ५.६१.१३ ।।।।

Slōka 14 / श्लोक १४

गायन्ति केचित् प्रणमन्ति केचिन्नृत्यन्ति केचित् प्रहसन्ति केचित् ।
पतन्ति केचिद्विचरन्ति केचित् प्लवन्ति केचित् प्रलपन्ति केचित् ।। ५.६१.१४ ।।।।

Slōka 15 / श्लोक १५

परस्परं केचिदुपाश्रयन्ते परस्परं केचिदुपाक्रमन्ते ।
परस्परं केचिदुपब्रुवन्ते परस्परं केचिदुपारमन्ते ।। ५.६१.१५ ।।।।

Slōka 16 / श्लोक १६

द्रुमाद् द्रुमं केचिदभिद्रवन्ते क्षितौ नगाग्रान्निपतन्ति केचित् ।
महीतलात् केचिदुदीर्णवेगा महाद्रुमाग्राण्यभिसम्पतन्ति ।। ५.६१.१६ ।।।।

Slōka 17 / श्लोक १७

गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति ।
रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नुपैति ।। ५.६१.१७ ।।।।

Slōka 18 / श्लोक १८

समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कटसत्त्वचेष्टम् ।
न चात्र कश्चिन्न बभूव मत्तो न चात्र कश्चिन्न बभूव तृप्तः ।। ५.६१.१८ ।।।।

Slōka 19 / श्लोक १९

ततो वनं तत्परिभक्ष्यमाणं द्रुमांश्च विध्वंसितपत्रपुष्पान् ।
समीक्ष्य कोपदृधिवक्रनामा निवारयामास कपिः कपींस्तान् ।। ५.६१.१९ ।।।।

Slōka 20 / श्लोक २०

स तैः प्रवृद्धैः परिभर्त्स्यमानो वनस्य गोप्ता हरिवीरवृद्धः ।
चकार भूयो मतिमुग्रतेजा वनस्य रक्षां प्रति वानरेभ्यः ।। ५.६१.२० ।।।।

Slōka 21 / श्लोक २१

उवाच कांश्चित् परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जवान ।
समेत्य कैश्चित् कलहं चकार तथैव साम्नोपजगाम कंश्चित् ।। ५.६१.२१ ।।।।

Slōka 22 / श्लोक २२

स तैर्मदात् सम्परिवार्य वाक्यैर्बलाच्च तेन प्रतिवार्यमाणैः ।
प्रधर्षितस्त्यक्तभयैः समेत्य प्रकृष्यते चाप्यनवेक्ष्य दोषम् ।। ५.६१.२२ ।।।।

Slōka 23 / श्लोक २३

नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समापयन्तः ।
मदात् कपिं तं कपयः समग्रा महावनं निर्विषयं च चक्रुः ।। ५.६१.२३ ।।