किष्किन्धाकाण्डम्डम्
Chapter 14 / सर्गः १४
Slōka 1 / श्लोक १
Slōka 1
सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पालिताम् ।
वृक्षैर् आत्मानम् आवृत्य व्यतिष्ठन् गहने वने ॥४-१४-१॥
Slōka 2 / श्लोक २
Slōka 2
विसार्य सर्वतो दृष्टिम् कानने कानन प्रियः ।
सुग्रीवो विपुल ग्रीवः क्रोधम् आहारयद् भृशम् ॥४-१४-२॥
Slōka 3 / श्लोक ३
Slōka 3
ततः तु निनदम् घोरम् कृत्वा युद्धाय च आह्वयत् ।
परिवारैः परिवृतो नादैर् भिन्दन् इव अंबरम् ॥४-१४-३॥
Slōka 4 / श्लोक ४
Slōka 4
गर्जन् इव महामेघो वायु वेग पुरस्सरः ।
अथ बालार्क सदृशो दृप्त सिम्ह गतिः ततः ॥४-१४-४॥
Slōka 5 / श्लोक ५
Slōka 5
दृष्ट्वा रामम् क्रिया दक्षम् सुग्रीवो वाक्यम् अब्रवीत् ।
हरि वागुरया व्याप्तम् तप्त कांचन तोरणाम् ॥४-१४-५॥
Slōka 6 / श्लोक ६
Slōka 6
प्राप्ताः स्म ध्वज यंत्र आढ्याम् किष्किन्धाम् वालिनः पुरीम् ।
प्रतिज्ञा या कृता वीर त्वया वालि वधे पुरा ॥४-१४-६॥
Slōka 7 / श्लोक ७
Slōka 7
सफलाम् कुरु ताम् क्षिप्रम् लताम् काल इव आगतः ।
एवम् उक्तः तु धर्मात्मा सुग्रीवेण स राघवः ॥४-१४-७॥
Slōka 8 / श्लोक ८
Slōka 8
तम् एव उवाच वचनम् सुग्रीवम् शत्रु सूदनः ।
कृत अभिज्ञान चिह्नः त्वम् अनया गज साह्वया ॥४-१४-८॥
Slōka 9 / श्लोक ९
Slōka 9
लक्ष्मणेन समुत्पाट्य एषा कण्ठे कृता तव ।
सोभासे अपि अधिकम् वीर लतया कण्ठसक्तया ॥४-१४-९॥
Slōka 10 / श्लोक १०
Slōka 10
विपरीत इव आकाशे सूर्यो नक्षत्र मालया ।
अद्य वालि समुत्थम् ते भयम् वैरम् च वानर ॥४-१४-१०॥
Slōka 11 / श्लोक ११
Slōka 11
एकेन अहम् प्रमोक्ष्यामि बाण मोक्षेण संयुगे ।
मम दर्शय सुग्रीव वैरिणम् भ्रातृ रूपिणम् ॥४-१४-११॥
Slōka 12 / श्लोक १२
Slōka 12
वाली विनिहतो यावद् वने पांसुषु चेष्टते ।
यदि दृष्टि पथम् प्राप्तो जीवन् स विनिवर्तते ॥४-१४-१२॥
Slōka 13 / श्लोक १३
Slōka 13
ततो दोषेण मा गच्छेत् सद्यो गर्हेच्च माम् भवान् ।
प्रत्यक्षम् सप्त ते साला मया बाणेन दारिताः ॥४-१४-१३॥
Slōka 14 / श्लोक १४
Slōka 14
ततो वेत्सि बलेन अद्य वालिनम् निहतम् मया ।
अनृतम् न उक्त पूर्वम् मे चिरम् कृच्छ्रे अपि तिष्ठता ॥४-१४-१४॥
Slōka 15 / श्लोक १५
Slōka 15
धर्म लोभ परीतेन न च वक्ष्ये कथंचन ।
सफलाम् च करिष्यामि प्रतिज्ञाम् जहि संभ्रमम् ॥४-१४-१५॥
Slōka 16 / श्लोक १६
Slōka 16
प्रसूतम् कलमक्षेत्रे वर्षेण इव शतक्रतुः ।
तद् आह्वान निमित्तम् च वालिनो हेममालिनः ॥४-१४-१६॥
Slōka 17 / श्लोक १७
Slōka 17
सुग्रीव कुरु तम् शब्दम् निष्पतेद् येन वानरः ।
जितकाशी जयश्लाघी त्वया च अधर्षितः पुरात् ॥४-१४-१७॥
Slōka 18 / श्लोक १८
Slōka 18
निष्पतिष्यति असंगेन वाली स प्रियसम्युगः ।
रिपूणाम् धर्षितम् श्रुत्वा मर्षयन्ति न संयुगे ॥४-१४-१८॥
Slōka 19 / श्लोक १९
Slōka 19
जानन्तः तु स्वकम् वीर्यम् स्त्री समक्षम् विशेषतः ।
स तु राम वचः श्रुत्वा सुग्रीवो हेमपिंगलः ॥४-१४-१९॥
Slōka 20 / श्लोक २०
Slōka 20
ननर्द क्रूर नादेन विनिर्भिन्दन् इव अम्बरम् ।
तत्र शब्देन वित्रस्ता गावो यान्ति हतप्रभाः ॥४-१४-२०॥
Slōka 21 / श्लोक २१
Slōka 21
राजदोष परामृष्टाः कुलस्त्रिय इव आकुलाः ।
द्रवन्ति च मृगाः शीघ्रम् भग्ना;इव रणे हयाः ।पतन्ति च खगा भूमौ क्षीण पुण्या इव ग्रहाः ॥४-१४-२१॥
Slōka 22 / श्लोक २२
Slōka 22
ततः स जीमूत कृत प्रणादोनादम् हि अमुंचत् त्वरया प्रतीतः ।
सूर्यात्मजः शौर्य विवृद्ध तेजाःसरित् पतिर्वा अनिल चंचल ऊर्मिः ॥४-१४-२२॥