अयोध्याकाण्डम्
Chapter 79 / सर्गः ७९
Slōka 1 / श्लोक १
ततः प्रभात समये दिवसे अथ चतुर्दशे ।
समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥२-७९-१॥
Slōka 2 / श्लोक २
गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः ।
रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥२-७९-२॥
Slōka 3 / श्लोक ३
त्वम् अद्य भव नो राजा राज पुत्र महा यशः ।
सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥२-७९-३॥
Slōka 4 / श्लोक ४
आभिषेचनिकम् सर्वम् इदम् आदाय राघव ।
प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥२-७९-४॥
Slōka 5 / श्लोक ५
राज्यम् गृहाण भरत पितृ पैतामहम् महत् ।
अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥२-७९-५॥
Slōka 6 / श्लोक ६
आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् ।
भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥२-७९-६॥
Slōka 7 / श्लोक ७
ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः ।
न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥२-७९-७॥
Slōka 8 / श्लोक ८
रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः ।
अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥२-७९-८॥
Slōka 9 / श्लोक ९
युज्यताम् महती सेना चतुर् अन्ग महा बला ।
आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥२-७९-९॥
Slōka 10 / श्लोक १०
आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् ।
पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥२-७९-१०॥
Slōka 11 / श्लोक ११
तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् ।
आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥२-७९-११॥
Slōka 12 / श्लोक १२
न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् ।
वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥२-७९-१२॥
Slōka 13 / श्लोक १३
क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च ।
रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥२-७९-१३॥
Slōka 14 / श्लोक १४
एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् ।
प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥२-७९-१४॥
Slōka 15 / श्लोक १५
एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् ।
यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥२-७९-१५॥
Slōka 16 / श्लोक १६
अनुत्तमम् तत् वचनम् नृप आत्मज ।
प्रभाषितम् सम्श्रवणे निशम्य च ।प्रहर्षजाः तम् प्रति बाष्प बिन्दवो ।निपेतुर् आर्य आनन नेत्र सम्भवाः ॥२-७९-१६॥
Slōka 17 / श्लोक १७
ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः ।
सामात्याः सपरिषदो वियात शोकाः ।पन्थानम् नर वर भक्तिमान् जनः च ।व्यादिष्टः तव वचनाच् च शिल्पि वर्गः ॥२-७९-१७॥