Star (-) Watch (-)

Ramayana

सुन्दरकाण्डम्

Chapter 68 / सर्गः ६८

Slōka 1 / श्लोक १

अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमः ।
तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै ।। ५.६८.१ ।।।।

Slōka 2 / श्लोक २

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया ।
यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ।। ५.६८.२ ।।।।

Slōka 3 / श्लोक ३

यदि वा मन्यसे वीर वसैकाहमरिन्दम ।
कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि ।। ५.६८.३ ।।।।

Slōka 4 / श्लोक ४

मम चाप्यल्पभाग्यायाः सान्निध्यात्तव वीर्यवन् ।
अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् ।। ५.६८.४ ।।।।

Slōka 5 / श्लोक ५

गते हि त्वयि विक्रान्ते पुनरागमनाय वै ।
प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।। ५.६८.५ ।।।।

Slōka 6 / श्लोक ६

तवादर्शनजः शोको भूयो मां परितापयेत् ।
दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् ।। ५.६८.६ ।।।।

Slōka 7 / श्लोक ७

अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।। ५.६८.७ ।।।।

Slōka 8 / श्लोक ८

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।। ५.६८.८ ।।।।

Slōka 9 / श्लोक ९

त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।
शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ।। ५.६८.९ ।।।।

Slōka 10 / श्लोक १०

तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।
किं पश्यसि समाधानं ब्रूहि कार्यविदां वर ।। ५.६८.१० ।।।।

Slōka 11 / श्लोक ११

काममस्य त्वमेवैकः कार्यस्य परिसाधने ।
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः ।। ५.६८.११ ।।८.१० ।।।।

Slōka 12 / श्लोक १२

बलैः समग्रैर्यदि मां हत्वा रावणमाहवे ।
विजयी स्वां पुरीं रामो नयेत्तत् स्याद्यशस्करम् ।। ५.६८.१२ ।।।।

Slōka 13 / श्लोक १३

यथा ऽहं तस्य वीरस्य वनादुपधिना हृता ।
रक्षसा तद्भया देव तथा नार्हति राघवः ।। ५.६८.१३ ।।।।

Slōka 14 / श्लोक १४

बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।
मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। ५.६८.१४ ।।।।

Slōka 15 / श्लोक १५

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।
भवत्याहवशूरस्य तथा त्वमुपपादय ।। ५.६८.१५ ।।।।

Slōka 16 / श्लोक १६

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।
निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् ।। ५.६८.१६ ।।।।

Slōka 17 / श्लोक १७

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।
सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ।। ५.६८.१७ ।।।।

Slōka 18 / श्लोक १८

तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः ।
मनस्सङ्कल्पसम्पाता निदेशे हरयः स्थिताः ।। ५.६८.१८ ।।।।

Slōka 19 / श्लोक १९

येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।
न च कर्मसु सीदन्ति महत्स्वमिततेजसः ।। ५.६८.१९ ।।।।

Slōka 20 / श्लोक २०

असकृत्तैर्महाभागैर्वानरैर्बलदर्पितैः ।
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ।। ५.६८.२० ।।।।

Slōka 21 / श्लोक २१

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ।। ५.६८.२१ ।।।।

Slōka 22 / श्लोक २२

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।
न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ।। ५.६८.२२ ।।।।

Slōka 23 / श्लोक २३

तदलं परितापेन देवि मन्युर्व्यपैतु ते ।
एकोत्पातेन वै लङ्कामेष्यन्ति हरियूथपाः ।। ५.६८.२३ ।।।।

Slōka 24 / श्लोक २४

मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।
त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः ।। ५.६८.२४ ।।।।

Slōka 25 / श्लोक २५

अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् ।
लक्ष्मणं च धनुष्पाणीं लङ्काद्वारमुपस्थितम् ।। ५.६८.२५ ।।।।

Slōka 26 / श्लोक २६

नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।
वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि सङ्गतान् ।। ५.६८.२६ ।।।।

Slōka 27 / श्लोक २७

शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।
नर्दतां कपिमुख्यानामचिराच्छ्रोष्यसि स्वनम् ।। ५.६८.२७ ।।।।

Slōka 28 / श्लोक २८

निवृत्तवनवासं च त्वया सार्धमरिन्दमम् ।
अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ।। ५.६८.२८ ।।।।

Slōka 29 / श्लोक २९

ततो मया वाग्भिरदीनभाषिणा शिवाभिरिष्टाभिरभिप्रसादिता ।
जगाम शान्तिं मम मैथिलात्मजा तवापि शोकेन तदा ऽभिपीडिता ।। ५.६८.२९ ।।