अयोध्याकाण्डम्
Chapter 92 / सर्गः ९२
Slōka 1 / श्लोक १
ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: ।
कृतातिथ्यो भरद्वाजं कामादभिजगाम ऺह ॥ २.९२.१॥
Slōka 2 / श्लोक २
तमृषि: पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् ।
हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ॥ २.९२.२॥
Slōka 3 / श्लोक ३
कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता ।
समग्रस्ते जन: कच्चिदातिथ्ये शंस मे ऽनघ ॥ २.९२.३॥
Slōka 4 / श्लोक ४
तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च ।
आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥ २.९२.४॥
Slōka 5 / श्लोक ५
सुखोषितो ऽस्मि भगवन् समग्रबलवाहन: ।
तर्पित: सर्वकामैश्च सामात्यो बलवत्त्वया ॥ २.९२.५॥
Slōka 6 / श्लोक ६
अपेतक्लमसन्तापा: सुभिक्षा: सुप्रतिश्रया: ।
अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिता: ॥ २.९२.६॥
Slōka 7 / श्लोक ७
आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम ।
समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥ २.९२.७॥
Slōka 8 / श्लोक ८
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मन: ।
आचक्ष्व कतमो मार्ग: कियानिति च शंस मे ॥ २.९२.८॥
Slōka 9 / श्लोक ९
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् ।
प्रत्युवाच महातेजा भरद्वाजो महातपा: ॥ २.९२.९॥
Slōka 10 / श्लोक १०
भरतार्द्धतृतीयेषु योजनेष्वजने वने ।
चित्रकूटो गिरिस्तत्र रम्यनिर्दरकानन: ॥ २.९२.१०॥
Slōka 11 / श्लोक ११
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी ।
पुष्ऺिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ॥ २.९२.११॥
Slōka 12 / श्लोक १२
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वत: ।
तयो: पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ २.९२.१२॥
Slōka 13 / श्लोक १३
दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा ।
गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते ।वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥ २.९२.१३॥
Slōka 14 / श्लोक १४
प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषित: ।
हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥ २.९२.१४॥
Slōka 15 / श्लोक १५
वेपमाना कृशा ऺदीना सह देव्या सुमित्रया ।
कौसल्या तत्र जग्राह कराभ्यां चरणौ मुने: ॥ २.९२.१५॥
Slōka 16 / श्लोक १६
असमृद्धेन कामेन सर्वलोकस्य गर्हिता ।
कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥ २.९२.१६॥
Slōka 17 / श्लोक १७
तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् ।
अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ २.९२.१७॥
Slōka 18 / श्लोक १८
तत: पप्रच्छ भरतं भरद्वाजो दृढव्रत: ।
विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ॥ २.९२.१८॥
Slōka 19 / श्लोक १९
एवमुक्तस्तु भरतो भरद्वाजेन धार्मिक: ।
उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविद: ॥ २.९२.१९॥
Slōka 20 / श्लोक २०
यामिमां भगवन् दीनां शोकानशनकर्शिताम् ।
पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥ २.९२.२०॥
Slōka 21 / श्लोक २१
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् ।
कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥ २.९२.२१॥
Slōka 22 / श्लोक २२
अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मना: ।
कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥ २.९२.२२॥
Slōka 23 / श्लोक २३
एतस्यास्तु सुतौ देव्या: कुमारौ देववर्णिनौ ।
उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥ २.९२.२३॥
Slōka 24 / श्लोक २४
यस्या: कृते नरव्याघ्रौ जीवनाशमितो गतौ ।
राजपुत्रविहीनश्च स्वर्गं दशरथो गत: ॥ २.९२.२४॥
Slōka 25 / श्लोक २५
क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् ।
ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ॥ २.९२.२५॥
Slōka 26 / श्लोक २६
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् ।
यतो मूलं हि पश्यामि व्यसनं महदात्मन: ॥ २.९२.२६॥
Slōka 27 / श्लोक २७
इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा ।
स निशश्वास ताम्राक्षो नाग: क्रुद्ध इव श्वसन् ॥ २.९२.२७॥
Slōka 28 / श्लोक २८
भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा ।
प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥ २.९२.२८॥
Slōka 29 / श्लोक २९
न दोषेणावगन्तव्या कैकेयी भरत त्वया ।
रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ॥ २.९२.२९॥
Slōka 30 / श्लोक ३०
देवानां दानवानां च ऋषीणां भावितात्मनाम् ।
हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥ २.९२.३०॥
Slōka 31 / श्लोक ३१
अभिवाद्य तु संसिद्ध: कृत्वा चैनं प्रदक्षिणम् ।
आमन्त्र्य भरत: सेन्यं युज्यतामित्यचोदयत् ॥ २.९२.३१॥
Slōka 32 / श्लोक ३२
ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् ।
अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जन: ॥ २.९२.३२॥
Slōka 33 / श्लोक ३३
गजकन्या गजाश्चैव हेमकक्ष्या: पताकिन: ।
जीमूता इव घर्मान्ते सघोषा: सम्प्रतस्थिरे ॥ २.९२.३३॥
Slōka 34 / श्लोक ३४
विविधान्यपि यानानि महान्ति च लघूनि च ।
प्रययु: सुमहार्हाणि पादैरेव पदातय: ॥ २.९२.३४॥
Slōka 35 / श्लोक ३५
अथ यानप्रवेकैस्तु कौसल्याप्रमुखा: स्त्रिय: ।
रामदर्शनकांक्षिण्य: प्रययुर्मुदितास्तदा ॥ २.९२.३५॥
Slōka 36 / श्लोक ३६
चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् ।
आस्थाय प्रययौ श्रीमान् भरत: सपरिच्छद: ॥ २.९२.३६॥
Slōka 37 / श्लोक ३७
सा प्रयाता महासेना गजवाजिरथाकुला ।
दक्षिणां दिशमावृत्य महामेघ इवोत्थित: ॥ २.९२.३७॥
Slōka 38 / श्लोक ३८
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभि: ।
गङ्गाया: परवेलायां गिरिष्वपि नदीषु च ॥ २.९२.३८॥
Slōka 39 / श्लोक ३९
सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् ।
महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥ २.९२.३९ ॥