सुन्दरकाण्डम्
Chapter 7 / सर्गः ७
Slōka 1 / श्लोक १
स वेश्म जालम् बलवान् ददर्श ।
व्यासक्त वैदूर्य सुवर्ण जालम् ।यथा महत् प्राव्Rषि मेघ जालम् ।विद्युत् पिनद्धम् सविहम्ग जालम् ॥५-७-१॥
Slōka 2 / श्लोक २
निवेशनानाम् विविधाः च शालाः ।
प्रधान शन्ख आयुध चाप शालाः ।मनो हराः च अपि पुनर् विशाला ।ददर्श वेश्म अद्रिषु चन्द्र शालाः ॥५-७-२॥
Slōka 3 / श्लोक ३
गृहाणि नाना वसु राजितानि ।
देव असुरैः च अपि सुपूजितानि ।सर्वैः च दोषैः परिवर्जितानि ।कपिर् ददर्श स्व बल अर्जितानि ॥५-७-३॥
Slōka 4 / श्लोक ४
तानि प्रयत्न अभिसमाहितानि ।
मयेन साक्षाद् इव निर्मितानि ।मही तले सर्व गुण उत्तराणि ।ददर्श लन्का अधिपतेर् ग्Rहाणि ॥५-७-४॥
Slōka 5 / श्लोक ५
ततो ददर्श उच्च्रित मेघ रूपम् ।
मनो हरम् कान्चन चारु रूपम् ।रक्षो अधिपस्य आत्म बल अनुरूपम् ।गृह उत्तमम् हि अप्रतिरूप रूपम् ॥५-७-५॥
Slōka 6 / श्लोक ६
मही तले स्वर्गम् इव प्रकीर्णम् ।
श्रिया ज्वलन्तम् बहु रत्न कीर्णम् ।नाना तरूणाम् कुसुम अवकीर्णम् ।गिरेर् इव अग्रम् रजसा अवकीर्णम् ॥५-७-६॥
Slōka 7 / श्लोक ७
नारी प्रवेकैर् इव दीप्यमानम् ।
तडिद्भिर् अम्भोदवद् अर्च्यमानम् ।हम्स प्रवेकैर् इव वाह्यमानम् ।श्रिया युतम् खे सुक्Rताम् विमानम् ॥५-७-७॥
Slōka 8 / श्लोक ८
यथा नग अग्रम् बहु धातु चित्रम् ।
यथा नभः च ग्रह चन्द्र चित्रम् ।ददर्श युक्ती कृत मेघ चित्रम् ।विमान रत्नम् बहु रत्न चित्रम् ॥५-७-८॥
Slōka 9 / श्लोक ९
मही कृता पर्वत राजि पूर्णा ।
शैलाः कृता वृक्ष वितान पूर्णाः ।वृक्षाः क्Rताः पुष्प वितान पूर्णाः ।पुष्पम् क्Rतम् केसर पत्र पूर्णम् ॥५-७-९॥
Slōka 10 / श्लोक १०
कृतानि वेश्मानि च पाण्डुराणि ।
तथा सुपुष्पा अपि पुष्करिण्यः ।पुनः च पद्मानि सकेसराणि ।धन्यानि चित्राणि तथा वनानि ॥५-७-१०॥
Slōka 11 / श्लोक ११
पुष्प आह्वयम् नाम विराजमानम् ।
रत्न प्रभाभिः च विवर्धमानम् ।वेश्म उत्तमानाम् अपि च उच्च मानम् ।महा कपिः तत्र महा विमानम् ॥५-७-११॥
Slōka 12 / श्लोक १२
कृताः च वैदूर्यमया विहम्गा ।
रूप्य प्रवालैः च तथा विहम्गाः ।चित्राः च नाना वसुभिर् भुजम्गा ।जात्या अनुरूपाः तुरगाः शुभ अन्गाः ॥५-७-१२॥
Slōka 13 / श्लोक १३
प्रवाल जाम्बूनद पुष्प पक्षाः ।
सलीलम् आवर्जित जिह्म पक्षाः ।कामस्य साक्षाद् इव भान्ति पक्षाः ।कृता विहम्गाः सुमुखाः सुपक्षाः ॥५-७-१३॥
Slōka 14 / श्लोक १४
नियुज्यमानाः च गजाः सुहस्ताः ।
सकेसराः च उत्पल पत्र हस्ताः ।बभूव देवी च कृता सुहस्ता ।लक्ष्मीः तथा पद्मिनि पद्म हस्ता ॥५-७-१४॥
Slōka 15 / श्लोक १५
इति इव तद् ग्Rहम् अभिगम्य शोभनम् ।
सविस्मयो नगम् इव चारु शोभनम् ।पुनः च तत् परम सुगन्धि सुन्दरम् ।हिम अत्यये नगम् इव चारु कन्दरम् ॥५-७-१५॥
Slōka 16 / श्लोक १६
ततः स ताम् कपिर् अभिपत्य पूजिताम् ।
चरन् पुरीम् दश मुख बाहु पालिताम् ।अदृश्य ताम् जनक सुताम् सुपूजिताम् ।सुदुह्खिताम् पति गुण वेग निर्जिताम् ॥५-७-१६॥
Slōka 17 / श्लोक १७
ततः तदा बहु विध भावित आत्मनः ।
कृत आत्मनो जनक सुताम् सुवर्त्मनः ।अपश्यतो अभवद् अतिदुह्खितम् मनः ।सुचक्षुषः प्रविचरतो महात्मनः ॥५-७-१७॥