अयोध्याकाण्डम्
Chapter 100 / सर्गः १००
Slōka 1 / श्लोक १
जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ।
ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥ २.१००.१॥
Slōka 2 / श्लोक २
कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् ।
भ्रातरं भरतं राम: परिजग्राह बाहुना ॥ २.१००.२॥
Slōka 3 / श्लोक ३
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघव: ।
अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥ २.१००.३॥
Slōka 4 / श्लोक ४
क्व नु ते ऽभूत् पिता तात यदरण्यं त्वमागत: ।
न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ २.१००.४॥
Slōka 5 / श्लोक ५
चिरस्य बत पश्यामि दूराद्भरतमागतम् ।
दुष्प्रतीकमरण्ये ऽस्मिन् किं तात वनमागत: ॥ २.१००.५॥
Slōka 6 / श्लोक ६
कच्चिद्धारयते तात राजा यत्त्वमिहागत: ।
कच्चिन्न दीन: सहसा राजा लोकान्तरं गत: ॥ २.१००.६॥
Slōka 7 / श्लोक ७
कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ २.१००.७॥
Slōka 8 / श्लोक ८
कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ २.१००.८॥
Slōka 9 / श्लोक ९
कच्चिद्दशरथो राजा कुशली सत्यसङ्गर: ।
राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चय: ॥ २.१००.९॥
Slōka 10 / श्लोक १०
स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युति: ।
इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ २.१००.१०॥
Slōka 11 / श्लोक ११
सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती ।
सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ॥ २.१००.११॥
Slōka 12 / श्लोक १२
कच्चिद्विनयसम्पन्न: कुलपुत्रो बहुश्रुत: ।
अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहित: ॥ २.१००.१२॥
Slōka 13 / श्लोक १३
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजु: ।
हुतं च होष्यमाणं च काले वेदयते सदा ॥ २.१००.१३॥
Slōka 14 / श्लोक १४
कच्चिद्देवान् पितऽन् मातऽर्गुरून् पितृसमानपि ।
वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ २.१००.१४॥
Slōka 15 / श्लोक १५
इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् ।
सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ २.१००.१५॥
Slōka 16 / श्लोक १६
कच्चिदात्मसमा: शूरा: श्रुतवन्तो जितेन्द्रिया: ।
कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिण: ॥ २.१००.१६॥
Slōka 17 / श्लोक १७
मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।
सुसंवृतो मन्त्रधरैरमात्यै: शास्त्रकोविदै: ॥ २.१००.१७॥
Slōka 18 / श्लोक १८
कच्चिन्निद्रावशं नैषी: कच्चित्काले प्रबुध्यसे ।
कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ २.१००.१८॥
Slōka 19 / श्लोक १९
कच्चिन्मन्त्रयसे नैक: कच्चिन्न बहुभि: सह ।
कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ २.१००.१९॥
Slōka 20 / श्लोक २०
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।
क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ॥ २.१००.२०॥
Slōka 21 / श्लोक २१
कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुन: ।
विदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवा: ॥ २.१००.२१॥
Slōka 22 / श्लोक २२
कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिता: ।
त्वया वा वा ऽमात्यैर्बुध्यते तात मन्त्रितम् ॥ २.१००.२२॥
Slōka 23 / श्लोक २३
कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम् ।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्नि:श्रेयसं महत् ॥ २.१००.२३॥
Slōka 24 / श्लोक २४
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपति: ।
अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ २.१००.२४॥
Slōka 25 / श्लोक २५
एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षण: ।
राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ २.१००.२५॥
Slōka 26 / श्लोक २६
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमा: ।
जघन्यास्तु जघन्येषु भृत्या: कर्मसु योजिता: ॥ २.१००.२६॥
Slōka 27 / श्लोक २७
अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् ।
श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ २.१००.२७॥
Slōka 28 / श्लोक २८
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् ।
राष्ट्रं तवानुजानन्ति मन्त्रिण: कैकयीसुत ॥ २.१००.२८॥
Slōka 29 / श्लोक २९
कच्चित्त्वां नावजानन्ति याजका: पतितं यथा ।
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रिय: ॥ २.१००.२९॥
Slōka 30 / श्लोक ३०
उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् ।
शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ २.१००.३०॥
Slōka 31 / श्लोक ३१
कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचि: ।
कुलीनश्चानुरक्तश्च दक्ष: सेनापति: कृत: ॥ २.१००.३१॥
Slōka 32 / श्लोक ३२
बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदा: ।
दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिता: ॥ २.१००.३२॥
Slōka 33 / श्लोक ३३
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।
सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ २.१००.३३॥
Slōka 34 / श्लोक ३४
कालातिक्रमणाच्चैव भक्तवेतनयोर्भृता: ।
भर्त्तु: कुप्यन्ति दुष्यन्ति सो ऽनर्थ: सुमहान् स्मृत: ॥ २.१००.३४॥
Slōka 35 / श्लोक ३५
कच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्रा: प्रधानत: ।
कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिता: ॥ २.१००.३५॥
Slōka 36 / श्लोक ३६
कच्चिज्जानपदो विद्वान् दक्षिण: प्रतिभानवान् ।
यथोक्तवादी दूतस्ते कृतो भरत पण्डित: ॥ २.१००.३६॥
Slōka 37 / श्लोक ३७
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकै: ॥ २.१००.३७॥
Slōka 38 / श्लोक ३८
कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा ।
दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ॥ २.१००.३८॥
Slōka 39 / श्लोक ३९
कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे ।
अनर्थकुशला ह्येते बाला: पण्डितमानिन: ॥ २.१००.३९॥
Slōka 40 / श्लोक ४०
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधा: ।
बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ २.१००.४०॥
Slōka 41 / श्लोक ४१
वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकै: ।
सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥ २.१००.४१॥
Slōka 42 / श्लोक ४२
ब्राह्मणै: क्षत्ऺित्रयैर्वैश्यै: स्वकर्मनिरतै: सदा ।
जितेन्द्रियैर्महोत्साहैर्वृतामार्यै: सहस्रश: ॥ २.१००.४२॥
Slōka 43 / श्लोक ४३
प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।
कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ २.१००.४३॥
Slōka 44 / श्लोक ४४
कच्चिच्चित्यशतैर्जुष्ट: सुनिविष्टजनाकुल: ।
देवस्थानै: प्रपाभिश्च तटाकैश्चोपशोभित: ॥ २.१००.४४॥
Slōka 45 / श्लोक ४५
प्रहृष्टनरनारीक: समाजोत्सवशोभित: ।
सुकृष्टसीमा पशुमान् हिंसाभि: परिवर्जित: ॥ २.१००.४५॥
Slōka 46 / श्लोक ४६
अदेवमातृको रम्य: श्वापदै: परिवर्जित: ।
परित्यक्तो भयै: सर्वै: खनिभिश्चोपशोभित: ॥ २.१००.४६॥
Slōka 47 / श्लोक ४७
विवर्जितो नरै: पापैर्मम पूर्वै: सुरक्षित: ।
कच्चिज्जनपद: स्फीत: सुखं वसति राघव ॥ २.१००.४७॥
Slōka 48 / श्लोक ४८
कच्चित्ते दयिता: सर्वे कृषिगोरक्षजीविन: ।
वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥ २.१००.४८॥
Slōka 49 / श्लोक ४९
तेषां गुप्तिपरीहारै: कच्चित्ते भरणं कृतम् ।
रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिन: ॥ २.१००.४९॥
Slōka 50 / श्लोक ५०
कच्चित् स्त्रिय: सान्त्वयसि कच्चित्ताश्च सुरक्षिता: ।
कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ २.१००.५०॥
Slōka 51 / श्लोक ५१
कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुका: ।
कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ २.१००.५१॥
Slōka 52 / श्लोक ५२
कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।
उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ २.१००.५२॥
Slōka 53 / श्लोक ५३
कच्चिन्न सर्वे कर्मान्ता: प्रत्यक्षास्ते ऽविशङ्कया ।
सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ २.१००.५३॥
Slōka 54 / श्लोक ५४
कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकै: ।
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ॥ २.१००.५४॥
Slōka 55 / श्लोक ५५
आयस्ते विपुल: कच्चित् कच्चिदल्पतरो व्यय: ।
अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ २.१००.५५॥
Slōka 56 / श्लोक ५६
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ।
योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्यय: ॥ २.१००.५६॥
Slōka 57 / श्लोक ५७
कच्चिदार्य्यो विशुद्धात्मा ऽ ऽक्षारितश्चोरकर्मणा ।
अपृष्ट: शास्त्रकुशलैर्न लोभाद्वध्यते शुचि: ॥ २.१००.५७॥
Slōka 58 / श्लोक ५८
गृहीतश्चैव पृष्टश्च काले दृष्ट: सकारण: ।
कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ २.१००.५८॥
Slōka 59 / श्लोक ५९
व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव ।
अर्थं विरागा: पश्यन्ति तवामात्या बहुश्रुता: ॥ २.१००.५९॥
Slōka 60 / श्लोक ६०
यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव ।
तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासत: ॥ २.१००.६०॥
Slōka 61 / श्लोक ६१
कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव ।
दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ २.१००.६१॥
Slōka 62 / श्लोक ६२
कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् ।
चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥ २.१००.६२॥
Slōka 63 / श्लोक ६३
कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुन: ।
उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ २.१००.६३॥
Slōka 64 / श्लोक ६४
कच्चिदर्थं च धर्मं च कामं च जयतां वर ।
विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ २.१००.६४॥
Slōka 65 / श्लोक ६५
कच्चित्ते ब्राह्मणा: शर्म सर्वशास्त्रार्थकोविदा: ।
आशंसन्ते महाप्राज्ञ पौरजानपदै: सह ॥ २.१००.६५॥
Slōka 66 / श्लोक ६६
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।
अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ २.१००.६६॥
Slōka 67 / श्लोक ६७
एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् ।
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ २.१००.६७॥
Slōka 68 / श्लोक ६८
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वत: ।
कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ २.१००.६८॥
Slōka 69 / श्लोक ६९
दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वत: ।
अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ २.१००.६९॥
Slōka 70 / श्लोक ७०
इन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् ।
कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥ २.१००.७०॥
Slōka 71 / श्लोक ७१
यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ ।
कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥ २.१००.७१॥
Slōka 72 / श्लोक ७२
मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा ।
कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथ: ॥ २.१००.७२॥
Slōka 73 / श्लोक ७३
कच्चित्ते सफला वेदा: कच्चित्ते सफला: क्रिया: ।
कच्चित्ते सफला दारा: कच्चित्ते सफलं श्रुतम् ॥ २.१००.७३॥
Slōka 74 / श्लोक ७४
कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव ।
आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ २.१००.७४॥
Slōka 75 / श्लोक ७५
यां वृत्तिं वर्त्तते तातो यां च न: प्रपितामहा: ।
तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ २.१००.७५॥
Slōka 76 / श्लोक ७६
कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव ।
कच्चिदाशंसमानेभ्यो मित्रेभ्य: सम्प्रयच्छसि ॥ २.१००.७६॥
Slōka 77 / श्लोक ७७
राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधर: प्रजानाम् ।
अवाप्य कृत्स्नां वसुधां यथावदितश्च्युत: स्वर्गमुपैति विद्वान् ॥ २.१००.७७ ॥