Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 58 / सर्गः ५८

Slōka 1 / श्लोक १

एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा ।
प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ।। ७.५८.१ ॥

Slōka 2 / श्लोक २

महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् ।
निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह ।। ७.५८.२ ॥

Slōka 3 / श्लोक ३

निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः ।
न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ।। ७.५८.३ ॥

Slōka 4 / श्लोक ४

एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः ।
उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ।। ७.५८.४ ॥

Slōka 5 / श्लोक ५

रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् ।
न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ।। ७.५८.५ ॥

Slōka 6 / श्लोक ६

सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना ।
सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः ।। ७.५८.६ ॥

Slōka 7 / श्लोक ७

नहुषस्य सुतो राजा ययातिः पौरवर्धनः ।
तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ।। ७.५८.७ ॥

Slōka 8 / श्लोक ८

एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता ।
शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ।। ७.५८.८ ॥

Slōka 9 / श्लोक ९

अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ ।
न तु सा दयिता राज्ञो देवयानी सुमध्यमा ।। ७.५८.९ ॥

Slōka 10 / श्लोक १०

तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ ।
शर्मिष्ठा ऽजनयत्पूरुं देवयानी यदुं तदा ।। ७.५८.१० ॥

Slōka 11 / श्लोक ११

पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च ।
ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ।। ७.५८.११ ॥

Slōka 12 / श्लोक १२

भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः ।
सहसे हृद्गतं दुःखमवमानं च दुःसहम् ।। ७.५८.१२ ॥

Slōka 13 / श्लोक १३

आवां च सहितौ देवि प्रविशाव हुताशनम् ।
राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ।। ७.५८.१३ ॥

Slōka 14 / श्लोक १४

यदि वा सहनीयं ते मामनुज्ञातुमर्हसि ।
क्षम त्वं न क्षमिष्ये ऽहं मरिष्यामि न संशयः ।। ७.५८.१४ ॥

Slōka 15 / श्लोक १५

पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः ।
देवयानी तु सङ्क्रुद्धा सस्मार पितरं तदा ।। ७.५८.१५ ॥

Slōka 16 / श्लोक १६

इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा ।
आगतस्त्वरितं तत्र देवयानी तु यत्र सा ।। ७.५८.१६ ॥

Slōka 17 / श्लोक १७

दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् ।
पिता दुहितरं वाक्यं किमेतदिति चाब्रवीत् ।। ७.५८.१७ ॥

Slōka 18 / श्लोक १८

पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् ।
देवयानी तु सङ्क्रुद्धा पितरं वाक्यमब्रवीत् ।। ७.५८.१८ ॥

Slōka 19 / श्लोक १९

अहमग्निं विषं तीक्ष्णमपो वा मुनिसत्तम ।
भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ।। ७.५८.१९ ॥

Slōka 20 / श्लोक २०

न मां त्वमवजानीषे दुःखितामवमानिताम् ।
वृक्षस्यावज्ञया ब्रह्मंश्छिद्यन्ते वृक्षजीविनः ।। ७.५८.२० ॥

Slōka 21 / श्लोक २१

अवज्ञया च राजर्षिः परिभूय च भार्गव ।
मय्यवज्ञां प्रयुङ्क्ते हि न च मां बहु मन्यते ।। ७.५८.२१ ॥

Slōka 22 / श्लोक २२

तस्यास्तद्वचनं श्रुत्वा कोपेनाभिपरिप्लुतः ।
व्याहर्तुमुपचक्राम भार्गवो नहुषात्मजम् ।। ७.५८.२२ ॥

Slōka 23 / श्लोक २३

यस्मान्मामवजानीषे नाहुष त्वं दुरात्मवान् ।
जरया परया जीर्णः शैथिल्यमुपयास्यसि ।। ७.५८.२३ ॥

Slōka 24 / श्लोक २४

एवमुक्त्वा दुहितरं समाश्वास्य च भार्गवः ।
पुनर्जगाम ब्रह्मर्षिर्भवनं स्वं महायशाः ।। ७.५८.२४ ॥

Slōka 25 / श्लोक २५

स एवमुक्त्वा द्विजपुङ्गवाग्र्यः सुतां समाश्वास्य च देवयानीम् ।
पुनर्ययौ सूर्यसमानतेजा दत्त्वा च शापं नहुषात्मजाय ।। ७.५८.२५ ।।