Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 51 / सर्गः ५१

Slōka 1 / श्लोक १

तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना ।
तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ।। ७.५१.१ ॥

Slōka 2 / श्लोक २

पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः ।
वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ।। ७.५१.२ ॥

Slōka 3 / श्लोक ३

तमाश्रमं महातेजाः पिता ते सुमहायशाः ।
पुरोहितं महात्मानं दिदृक्षुरगमस्त्वयम् ।। ७.५१.३ ॥

Slōka 4 / श्लोक ४

स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा ।
उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ।। ७.५१.४ ॥

Slōka 5 / श्लोक ५

तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभिवादयत् ।
स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥

Slōka 6 / श्लोक ६

पाद्येन फलमूलैश्च उवास मुनिभिः सह ।
। ७.५१.५ ॥

Slōka 7 / श्लोक ७

तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ।
बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि ।। ७.५१.६ ॥

Slōka 8 / श्लोक ८

ततः कथायां कस्याञ्चित्प्राञ्जलिः प्रग्रहो नृपः ।
उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ।। ७.५१.७ ॥

Slōka 9 / श्लोक ९

भगवन्किं प्रमाणेन मम वंशो भविष्यति ।
किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ।। ७.५१.८ ॥

Slōka 10 / श्लोक १०

रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् ।
काम्यया भगवन्बूहि वंशस्यास्य गतिं मम ।। ७.५१.९ ॥

Slōka 11 / श्लोक ११

तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च ।
दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ।। ७.५१.१० ॥

Slōka 12 / श्लोक १२

शृणु राजन्पुरावृत्तं तदा देवासुरे युधि ।
दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ।। ७.५१.११ ॥

Slōka 13 / श्लोक १३

तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ।
। ७.५१.१२ ॥

Slōka 14 / श्लोक १४

तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः ।
चक्रेण शितधारेण भृगुपत्न्याः शिरो ऽहरत् ।। ७.५१.१३ ॥

Slōka 15 / श्लोक १५

ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः ।
शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ।। ७.५१.१४ ॥

Slōka 16 / श्लोक १६

यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः ।
तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन ।। ७.५१.१५ ॥

Slōka 17 / श्लोक १७

तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ।
। ७.५१.१६ ॥

Slōka 18 / श्लोक १८

शापाभिहतचेतास्स स्वात्मना भावितो ऽभवत् ।
। ७.५१.१७ ॥

Slōka 19 / श्लोक १९

अर्चयामास तं देवं भृगुः शापेन पीडितः ।
तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः ।लोकानां संहितार्थं तु तं शापं ग्राह्यमुक्तवान् ।। ७.५१.१९ ॥

Slōka 20 / श्लोक २०

इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ।
इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ।। ७.५१.२० ॥

Slōka 21 / श्लोक २१

राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ।
तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत् ।। ७.५१.२१ ॥

Slōka 22 / श्लोक २२

अयोध्यायाः पती रामो दीर्घकालं भविष्यति ।
सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य ये ऽनुगाः ।। ७.५१.२२ ॥

Slōka 23 / श्लोक २३

दश वर्षसहस्राणि दश वर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ।। ७.५१.२३ ॥

Slōka 24 / श्लोक २४

समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः ।
राजवंशांश्च बहुशो बहून्संस्थापयिष्यति ।। ७.५१.२४ ॥

Slōka 25 / श्लोक २५

द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु ।
अन्यत्र न त्वयोध्यायां सत्यमेतन्नसंशयः ।। ७.५१.२५ ॥

Slōka 26 / श्लोक २६

सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ।
। ७.५१.२६ ॥

Slōka 27 / श्लोक २७

स सर्वमखिलं राज्ञो वंशस्याह गतागतम् ।
आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ।। ७.५१.२७ ॥

Slōka 28 / श्लोक २८

तूष्णीम्भूते तदा तस्मिन्राजा दशरथो मुनौ ।
अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ।। ७.५१.२८ ॥

Slōka 29 / श्लोक २९

एतद्वचो मया तत्र मुनिना व्याहृतं पुरा ।
श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ।। ७.५१.२९ ॥

Slōka 30 / श्लोक ३०

एवं गते न सन्तापं कर्तुमर्हसि राघव ।
सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ।। ७.५१.३० ॥

Slōka 31 / श्लोक ३१

श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् ।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ।। ७.५१.३१ ॥

Slōka 32 / श्लोक ३२

ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ।
अस्तमर्के गते वासं केशिन्यां तावथोषतुः ।। ७.५१.३२ ।।