उत्तरकाण्डम्डम्
Chapter 17 / सर्गः १७
Slōka 1 / श्लोक १
अथ राजन्महाबाहुर्विचरन्स महीतले ।
हिमवद्वनमासाद्य परिचक्राम रावणः ।। ७.१७.१ ॥
Slōka 2 / श्लोक २
तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् ।
आर्षेण विधिना युक्तां दीप्यन्तीं देवतामिव ।। ७.१७.२ ॥
Slōka 3 / श्लोक ३
स दृष्ट्वा रूपसम्पन्नां कन्यां तां सुमहाव्रताम् ।
काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ।। ७.१७.३ ॥
Slōka 4 / श्लोक ४
किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते ।
नहि युक्ता तवैतस्य रूपस्यैव प्रतिक्रिया ।। ७.१७.४ ।।रूपं ते ऽनुपमं भीरु कामोन्मादकरं नृणाम् ।न युक्तं तपसि स्थातुं निर्गतो ह्येष निर्णयः ।। ७.१७.५ ॥
Slōka 5 / श्लोक ५
कस्यासि किमिदं भद्रे कश्च भर्ता वरानने ।
येन सम्भुज्यसे भीरु स नरः पुण्यभाग्भुवि ।। ७.१७.६ ॥
Slōka 6 / श्लोक ६
पृच्छतः शंस मे सर्वं कस्य हेतोः परिश्रमः ।
एवमुक्ता तु सा कन्या रावणेन यशस्विनी ।। ७.१७.७ ॥
Slōka 7 / श्लोक ७
अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना ।
कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः ।बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः ।। ७.१७.८ ॥
Slōka 8 / श्लोक ८
तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः ।
सम्भूय वाङ्मयी कन्या नाम्ना वेदवती स्मृता ।। ७.१७.९ ॥
Slōka 9 / श्लोक ९
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ।
ते ऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ।। ७.१७.१० ॥
Slōka 10 / श्लोक १०
न च मां स पिता तेभ्यो दत्तवान्राक्षसर्षभ ।
कारणं तद्वदिष्यामि निशाचर निशामय ।। ७.१७.११ ॥
Slōka 11 / श्लोक ११
पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः ।
अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता ।। ७.१७.१२ ॥
Slōka 12 / श्लोक १२
दातुमिच्छति तस्मै तु तच्छ्रुत्वा बलदर्पितः ।
दम्भुर्नाम ततो राजा दैत्यानां कुपितो ऽभवत् ।। ७.१७.१३ ॥
Slōka 13 / श्लोक १३
तेन रात्रौ शयानो मे पिता पापेन हिंसितः ।
। ७.१७.१४ ॥
Slōka 14 / श्लोक १४
ततो मे जननी दीना तच्छरीरं पितुर्मम ।
परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ।। ७.१७.१५ ॥
Slōka 15 / श्लोक १५
ततो मनोरथं सत्यं पितुर्नारायणं प्रति ।
करोमीति तमेवाहं हृदयेन समुद्वहे ।। ७.१७.१६ ॥
Slōka 16 / श्लोक १६
इति प्रतिज्ञामारुह्य चरामि विपुलं तपः ।
एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ।। ७.१७.१७ ॥
Slōka 17 / श्लोक १७
नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् ।
आश्रये नियमं घोरं नारायणपरीप्सया ।विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन ।। ७.१७.१८ ॥
Slōka 18 / श्लोक १८
जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ।
। ७.१७.१९ ॥
Slōka 19 / श्लोक १९
सो ऽब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् ।
अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ।। ७.१७.२० ॥
Slōka 20 / श्लोक २०
अवलिप्ता ऽसि सुश्रोणि यस्यास्ते मतिरीदृशी ।
वृद्धानां मृगशावाक्षि भ्राजते पुण्यसञ्चयः ।। ७.१७.२१ ॥
Slōka 21 / श्लोक २१
त्वं सर्वंगुणसम्पन्ना नार्हसे वक्तुमीदृशम् ।
त्रैलोक्यसुन्दरी भीरु यौवनं ते निवर्तते ।। ७.१७.२२ ॥
Slōka 22 / श्लोक २२
अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः ।
तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगान्यथासुखम् ।। ७.१७.२३ ॥
Slōka 23 / श्लोक २३
कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे ।
वीर्येण तपसा चैव भोगेन च बलेन च ॥
Slōka 24 / श्लोक २४
न मया स समो भद्रे यं त्वं कामयसे ऽङ्गने ।
। ७.१७.२४ ॥
Slōka 25 / श्लोक २५
इत्युक्तवति तस्मिंस्तु वेदवत्यथ सा ऽब्रवीत् ।
। ७.१७.२५ ।।ैव भोगेन च बलेन च ॥
Slōka 26 / श्लोक २६
मा मैवमिति सा कन्या तमुवाच निशाचरम् ।
त्रैलोक्याधिपति विष्णुं सर्वलोकनमस्कृतम् ।त्वदृते राक्षसेन्द्रान्यः को ऽवमन्येत बुद्धिमान् ।। ७.१७.२६ ॥
Slōka 27 / श्लोक २७
एवमुक्तस्तया तत्र वेदवत्या निशाचरः ।
मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् ।। ७.१७.२७ ॥
Slōka 28 / श्लोक २८
ततो वेदवती क्रुद्धा केशान्हस्तेन सा ऽच्छिनत् ।
असिर्भूत्वा करस्तस्याः केशांश्छिन्नांस्तदा ऽकरोत् ।। ७.१७.२८ ॥
Slōka 29 / श्लोक २९
सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् ।
उवाचाग्निं समाधाय मरणाय कृतत्वरा ।। ७.१७.२९ ॥
Slōka 30 / श्लोक ३०
धर्षितायास्त्वयानार्य न मे जीवितमिष्यते ।
रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ।। ७.१७.३० ॥
Slōka 31 / श्लोक ३१
यस्मात्तु धर्षिता चाहं त्वया पापात्मना वने ।
तस्मात्तव वधार्थं हि समुत्पत्स्ये ह्यहं पुनः ।। ७.१७.३१ ॥
Slōka 32 / श्लोक ३२
न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चः ।
शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् ।। ७.१७.३२ ॥
Slōka 33 / श्लोक ३३
यदि त्वस्ति मया किञ्चित्कृतं दत्तं हुतं तथा ।
तस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ।। ७.१७.३३ ॥
Slōka 34 / श्लोक ३४
एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् ।
पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ।। ७.१७.३४ ॥
Slōka 35 / श्लोक ३५
पुनरेव समुद्भूता पद्मे पद्मसमप्रभा ।
तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ।। ७.१७.३५ ॥
Slōka 36 / श्लोक ३६
कन्यां कमलगर्भाभां प्रगृह्य स्वगृहं ययौ ।
प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ।। ७.१७.३६ ॥
Slōka 37 / श्लोक ३७
लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् ।
गृहस्थैषां हि सुश्रोणी त्वद्वधायैव दृश्यते ।। ७.१७.३७ ॥
Slōka 38 / श्लोक ३८
एतच्छ्रुत्वा ऽर्णवे राम तां प्रचिक्षेप रावणः ।
सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा ।। ७.१७.३८ ॥
Slōka 39 / श्लोक ३९
राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती ।
सैषा जनकराजस्य प्रसूता तनया प्रभो ।तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ।। ७.१७.३९ ॥
Slōka 40 / श्लोक ४०
पूर्वं क्रोधाहितः शत्रुर्यया ऽसौ निहतस्तथा ।
उपाश्रयित्वा शैलभस्तव वीर्यममानुषम् ।। ७.१७.४० ॥
Slōka 41 / श्लोक ४१
एवमेषा महाभागा मर्त्येषूत्पत्स्यते पुनः ।
क्षेत्रे हलमुखोत्कृष्टे वेद्यामग्निशिखोपमा ।। ७.१७.४१ ॥
Slōka 42 / श्लोक ४२
एषा वेदवती नाम पूर्वमासीत्कृते युगे ।
त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः ।। ७.१७.४२ ॥
Slōka 43 / श्लोक ४३
उत्पन्ना मैथिलकुले जनकस्य महात्मनः ।
सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ।। ७.१७.४३ ।।