उत्तरकाण्डम्डम्
Chapter 36 / सर्गः ३६
Slōka 1 / श्लोक १
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः ।
शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ।। ७.३६.१ ॥
Slōka 2 / श्लोक २
चलकुण्डलमौलिस्रक्तपनीयविभूषणः ।
पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे ।। ७.३६.२ ॥
Slōka 3 / श्लोक ३
तं तु वेदविदा तेन लम्बाभरणशोभिना ।
वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ।। ७.३६.३ ॥
Slōka 4 / श्लोक ४
स्पृष्टमात्रस्ततः सो ऽथ सलीलं पद्मयोनिना ।
जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ।। ७.३६.४ ॥
Slōka 5 / श्लोक ५
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा ।
चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ।। ७.३६.५ ॥
Slōka 6 / श्लोक ६
मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिता ऽभवन् ।
शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ।। ७.३६.६ ॥
Slōka 7 / श्लोक ७
ततस्त्रियुग्मस्त्रिककुत्ऺित्रधामा त्रिदशार्चितः ।
उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ।। ७.३६.७ ॥
Slōka 8 / श्लोक ८
भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः ।
जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ।। ७.३६.८ ॥
Slōka 9 / श्लोक ९
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति ।
तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये ।। ७.३६.९ ॥
Slōka 10 / श्लोक १०
ततः सहस्रनयनः प्रीतियुक्तः शुभाननः ।
कुशेशयमयीं मालामुत्क्षिप्येदं वचो ऽब्रवीत् ।। ७.३६.१० ॥
Slōka 11 / श्लोक ११
मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः ।
नाम्ना वै कपिशार्दूलो भविता हनुमानिति ।। ७.३६.११ ॥
Slōka 12 / श्लोक १२
अहमस्य प्रदास्यामि परमं वरमद्भुतम् ।
इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ।। ७.३६.१२ ॥
Slōka 13 / श्लोक १३
मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः ।
तेजसो ऽस्य मदीयस्य ददामि शतिकां कलाम् ।। ७.३६.१३ ॥
Slōka 14 / श्लोक १४
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति ।
तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति ।। ७.३६.१४ ॥
Slōka 15 / श्लोक १५
नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने ।
वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति ।वर्षायुतशतेनापि मत्पाशादुदकादपि ।। ७.३६.१५ ॥
Slōka 16 / श्लोक १६
यमो दण्डादवध्यत्वमरोगत्वं च नित्यशः ।
वरं ददामि सन्तुष्ट अविषादं च संयुगे ।। ७.३६.१६ ॥
Slōka 17 / श्लोक १७
गदेयं मामिका नैनं संयुगेषु वधिष्यति ।
इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ।। ७.३६.१७ ॥
Slōka 18 / श्लोक १८
मत्तो मदायुधानां च न वध्यो ऽयं भविष्यति ।
इत्येवं शङ्करेणापि दत्तो ऽस्य परमो वरः ।। ७.३६.१८ ॥
Slōka 19 / श्लोक १९
सर्वेषां ब्रह्मदण्डानामवध्यो ऽयं भविष्यति ।
दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ।। ७.३६.१९ ॥
Slōka 20 / श्लोक २०
विश्वकर्मा च दृष्ट्वैनं बालसूर्योपमं शिशुम् ।
शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः ।। ७.३६.२० ॥
Slōka 21 / श्लोक २१
मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे ।
तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति ।। ७.३६.२१ ॥
Slōka 22 / श्लोक २२
ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम् ।
चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ।। ७.३६.२२ ॥
Slōka 23 / श्लोक २३
अमित्राणां भयकरो मित्राणामभयङ्करः ।
अजेयो भविता पुत्रस्तव मारुत मारुतिः ।। ७.३६.२३ ॥
Slōka 24 / श्लोक २४
कामरूपः कामचारी कामगः प्लवतां वरः ।
भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति ।। ७.३६.२४ ॥
Slōka 25 / श्लोक २५
रावणोत्सादनार्थानि रामप्रियकरणि च ।
रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ।। ७.३६.२५ ॥
Slōka 26 / श्लोक २६
एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह ।
यथागतं ययुः सर्वे पितामहपुरोगमाः ।। ७.३६.२६ ॥
Slōka 27 / श्लोक २७
सो ऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् ।
अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ।। ७.३६.२७ ॥
Slōka 28 / श्लोक २८
प्राप्य राम वरानेष वरदानसमन्वितः ।
बलेनात्मनि संस्थेन सो ऽपूर्यत यथा ऽर्णवः ।। ७.३६.२८ ॥
Slōka 29 / श्लोक २९
तरसा पूर्यमाणो ऽपि तदा वानरपुङ्गवः ।
आश्रमेषु महर्षीणामपराध्यति निर्भयः ।। ७.३६.२९ ॥
Slōka 30 / श्लोक ३०
स्रुग्भाण्डान्यग्निहोत्रं च वल्कलाजिनसञ्चयान् ।
भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम् ।। ७.३६.३० ॥
Slōka 31 / श्लोक ३१
एवंविधानि कर्माणि प्रावर्तत महाबलः ।
सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः ।। ७.३६.३१ ॥
Slōka 32 / श्लोक ३२
जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः ।
। ७.३६.३२ ॥
Slōka 33 / श्लोक ३३
यथा केसरिणा त्वेष वायुना सो ऽञ्जनासुतः ।
प्रतिषिद्धो ऽपि मर्यादां लङ्घयत्येव वानरः ।। ७.३६.३३ ॥
Slōka 34 / श्लोक ३४
ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः ।
शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ।। ७.३६.३४ ॥
Slōka 35 / श्लोक ३५
बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम ।
तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः ।यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम् ।। ७.३६.३५ ॥
Slōka 36 / श्लोक ३६
ततस्स हृततेजौजा महर्षिवचनौजसा ।
एषोश्रमाणि तान्येव मृदुभावं गतो ऽचरत् ।। ७.३६.३६ ॥
Slōka 37 / श्लोक ३७
अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता ।
सर्ववानरराजा ऽ ऽसीत्तेजसा भास्करप्रभः ।। ७.३६.३७ ॥
Slōka 38 / श्लोक ३८
स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः ।
स च ऋक्षरजा नाम कालधर्मेण सङ्गतः ।। ७.३६.३८ ॥
Slōka 39 / श्लोक ३९
तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः ।
पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ।। ७.३६.३९ ॥
Slōka 40 / श्लोक ४०
सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् ।
आबाल्यं सख्यमभवदनिलस्याग्निना यथा ।। ७.३६.४० ॥
Slōka 41 / श्लोक ४१
एष शापवशादेव न वेद बलमात्मनः ।
वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ।। ७.३६.४१ ॥
Slōka 42 / श्लोक ४२
न ह्येष राम सुग्रीवो भ्राम्यमाणो ऽपि वालिना ।
। ७.३६.४२ ॥
Slōka 43 / श्लोक ४३
देव जानाति न ह्येष बलमात्मनि मारुतिः ।
ऋषिशापाहृतबलस्तदैष कपिसत्तमः ।। ७.३६.४३ ॥
Slōka 44 / श्लोक ४४
सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे ।
। ७.३६.४४ ॥
Slōka 45 / श्लोक ४५
पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च ।
गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः को ऽभ्यधिको ऽस्ति लोके ।। ७.३६.४५ ॥
Slōka 46 / श्लोक ४६
असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः ।
उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ।। ७.३६.४६ ॥
Slōka 47 / श्लोक ४७
ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः ।
नह्यस्य कश्चित्सदृशो ऽस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ।। ७.३६.४७ ॥
Slōka 48 / श्लोक ४८
सर्वासु विद्यासु तपोविधाने प्रस्पर्धते ऽयो हि गुरुं सुराणाम् ।
सो ऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ।। ७.३६.४८ ॥
Slōka 49 / श्लोक ४९
प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्ययुगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ।
। ७.३६.४९ ॥
Slōka 50 / श्लोक ५०
एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः ।
सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ।। ७.३६.५० ॥
Slōka 51 / श्लोक ५१
तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि ।
हनूमतो बालभावे कर्मैतत्कथितं मया ।। ७.३६.५१ ॥
Slōka 52 / श्लोक ५२
श्रुत्वा ऽगस्त्यस्य कथितं रामः सौमित्रिरेव च ।
विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ।। ७.३६.५२ ॥
Slōka 53 / श्लोक ५३
अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया ।
दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम् ।। ७.३६.५३ ॥
Slōka 54 / श्लोक ५४
श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः ।
प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ।। ७.३६.५४ ॥
Slōka 55 / श्लोक ५५
अद्य मे देवता हृष्टाः पितरः प्रपितामहाः ।
युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः ।। ७.३६.५५ ॥
Slōka 56 / श्लोक ५६
विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः ।
तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ।। ७.३६.५६ ॥
Slōka 57 / श्लोक ५७
पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः ।
क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ।। ७.३६.५७ ॥
Slōka 58 / श्लोक ५८
सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् ।
भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ।। ७.३६.५८ ॥
Slōka 59 / श्लोक ५९
अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान् ।
अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ।। ७.३६.५९ ॥
Slōka 60 / श्लोक ६०
तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः ।
अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ।। ७.३६.६० ॥
Slōka 61 / श्लोक ६१
एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः ।
। ७.३६.६१ ॥
Slōka 62 / श्लोक ६२
एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् ।
राघवश्च तमेवार्थं चिन्तयामास विस्मितः ।। ७.३६.६२ ॥
Slōka 63 / श्लोक ६३
ततो ऽस्तं भास्करे याते विसृज्य नृपवानरान् ।
सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः ।प्रवृत्तायां रजन्यां तु सो ऽन्तःपुरचरो ऽभवत् ।। ७.३६.६३ ।।