Star (-) Watch (-)

Ramayana

उत्तरकाण्डम्डम्

Chapter 43 / सर्गः ४३

Slōka 1 / श्लोक १

तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ।
कथानां बहुरूपाणां हास्यकाराः समन्ततः ।। ७.४३.१ ॥

Slōka 2 / श्लोक २

विजयो मधुमत्तश्च काश्यपो मङ्गलः कुटः ।
सुराजः कालियो भद्रो दन्तवक्रः सुमागधः ।। ७.४३.२ ॥

Slōka 3 / श्लोक ३

एते कथा बहुविधाः परिहाससमन्विताः ।
कथयन्ति स्म संहृष्टा राघवस्य महात्मनः ।। ७.४३.३ ॥

Slōka 4 / श्लोक ४

ततः कथायां कस्याञ्चिद्राघवः समभाषत ।
काः कथा नगरे भद्र वर्तन्ते विषयेषु च ।। ७.४३.४ ॥

Slōka 5 / श्लोक ५

मामाश्रितानि कान्याहुः पौरजानपदा जनाः ।
किं च सीतां समाश्रित्य भरतं किं च लक्ष्मणम् ।। ७.४३.५ ॥

Slōka 6 / श्लोक ६

किं नु शत्रुघ्नमुद्दिश्य कैकयीं किं नु मातरम् ।
वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ।। ७.४३.६ ॥

Slōka 7 / श्लोक ७

एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ।
स्थिताः कथा शुभाः राजन्वर्तन्ते पुरवासिनाम् ।। ७.४३.७ ॥

Slōka 8 / श्लोक ८

अमुं तु विजयं सौम्य दशग्रीववधार्जितम् ।
भूयिष्ठं स्वपुरे पौरैः कथ्यन्ते पुरुषर्षभ ।। ७.४३.८ ॥

Slōka 9 / श्लोक ९

एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ।
कथयस्व यथातत्त्वं सर्वं निरवशेषतः ।। ७.४३.९ ॥

Slōka 10 / श्लोक १०

शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः ।
श्रुत्वेदानीं शुभं कुर्यां नकुर्यामशुभानि च ।। ७.४३.१० ॥

Slōka 11 / श्लोक ११

कथयस्व च विस्रब्धो निर्भयं विगतज्वरः ।
कथयन्ति यथा पौराः पापा जनपदेषु च ।। ७.४३.११ ॥

Slōka 12 / श्लोक १२

राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ।
प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ।। ७.४३.१२ ॥

Slōka 13 / श्लोक १३

शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् ।
चत्वरापणरथ्यासु वनेषूपवनेषु च ।। ७.४३.१३ ॥

Slōka 14 / श्लोक १४

दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् ।
अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ।। ७.४३.१४ ॥

Slōka 15 / श्लोक १५

रावणश्च दुराधर्षो हतः सबलवाहनः ।
वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः ।। ७.४३.१५ ॥

Slōka 16 / श्लोक १६

हत्वा च रावणं सङ्ख्ये सीतामाहृत्य राघवः ।
अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ।। ७.४३.१६ ॥

Slōka 17 / श्लोक १७

कीदृशं हृदये तस्य सीतासम्भोगजं सुखम् ।
अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ।। ७.४३.१७ ॥

Slōka 18 / श्लोक १८

लङ्कामपि पुरा नीतामशोकवनिकां गताम् ।
रक्षसां वशमापन्नां कथं रामो न कुत्सते ।। ७.४३.१८ ॥

Slōka 19 / श्लोक १९

अस्माकमपि दारेषु सहनीयं भविष्यति ।
यथा हि कुरुते राजा प्रजा तमनुवर्तते ।। ७.४३.१९ ॥

Slōka 20 / श्लोक २०

एवं बहुविधा वाचो वदन्ति पुरवासिनः ।
नगरेषु च सर्वेषु राजञ्जनपदेषु च ।। ७.४३.२० ॥

Slōka 21 / श्लोक २१

तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् ।
उवाच सुहृदः सर्वान्कथमेतद्ब्रवीथ माम् ।। ७.४३.२१ ॥

Slōka 22 / श्लोक २२

सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च ।
प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ।। ७.४३.२२ ॥

Slōka 23 / श्लोक २३

श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् ।
विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ।। ७.४३.२३ ।।