सुन्दरकाण्डम्
Chapter 17 / सर्गः १७
Slōka 1 / श्लोक १
ततः कुमुदषण्डाभो निर्मलम् निर्मलोदयः ।
प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ।। ५-१७- १।।
Slōka 2 / श्लोक २
साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः ।
चन्द्रमा रश्मभिः शीतैः सिषेवे पवनात्मजम् ।। ५-१७-२।।
Slōka 3 / श्लोक ३
स ददर्श ततः सीताम् पूर्णचन्द्रनिभाननाम् ।
शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ।। ५-१७-३।।
Slōka 4 / श्लोक ४
दिदृक्षमाणो वैदेहीम् हनुमान् मारुतात्मजः ।
स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ।। ५-१७-४।।
Slōka 5 / श्लोक ५
एकाक्षीमेककर्णाम् च कर्णप्रावरणाम् तथा ।
अकर्णाम् शङ्कुकर्णाम् च मस्तकोच्छ्वासनासिकाम् ।। ५-१७-५।।
Slōka 6 / श्लोक ६
अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् ।
ध्वस्तकेशीम् तथाकेशीम् केशकम्बलधारिणीम् ।। ५-१७-६।।
Slōka 7 / श्लोक ७
लम्बकर्णललाटाम् च लम्बोदरपयोधराम् ।
लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्याम् लम्बजानुकाम् ।। ५-१७-७।।
Slōka 8 / श्लोक ८
ह्रस्वाम् दीर्घाम् च कुब्जाम् विकटाम् वामनां तथा ।
करालाम् भुग्नवक्त्राम् च पिङ्गाक्षीम् विकृताननाम् ।। ५-१७-८।।
Slōka 9 / श्लोक ९
विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः ।
कालायसमहाशूलकूटमुद्गधारिणीः ।। ५-१७-९।।
Slōka 10 / श्लोक १०
वराहमृगशार्दूलमहिषाजशिवामुखीः ।
गजोष्ट्र हयपादीश्च निखातशिरसोपराः ।। ५-१७-१०।।
Slōka 11 / श्लोक ११
एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः ।
गोकर्णीर्हस्तिकर्णीईश्च हरिकर्णीस्तथापराः ।। ५-१७-११।।
Slōka 12 / श्लोक १२
अतिनासाश्च तिर्यङ्नासा अनासिकाः ।
गजनन्निभनासाश्च ललाटोच्च्वासनासिकाः ।। ५-१७-१२।।
Slōka 13 / श्लोक १३
हस्तिपादा महापादा गोपादाः पादचूळिकाः ।
अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः ।। ५-१७-१३।।
Slōka 14 / श्लोक १४
अतिमात्रस्यनेत्राश्च दीर्घजिह्वानखास्तथा ।
अजामुखीर्हस्तिमुखीर्गोमुखाः सूकरीमुखीः ।। ५-१७-१४।।
Slōka 15 / श्लोक १५
हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः ।
शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ।। ५-१७-१५।।
Slōka 16 / श्लोक १६
कराळा धूम्रकेशीश्च राक्षसीर्विकृताननाः ।
पिबन्तीः सततं पानं सदा मां ससुराप्रियाः ।। ५-१७-१६।।
Slōka 17 / श्लोक १७
मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः ।
ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ।। ५-१७-१७।।
Slōka 18 / श्लोक १८
स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ।
तस्याधस्ताच्च ताम् देवीम् राजपुत्रीमनिन्दिताम् ।। ५-१७-१८।।
Slōka 19 / श्लोक १९
लक्षयामास लक्ष्मीवान् हनुमान् जन्कात्मजाम् ।
निष्प्रभाम् षोकसन्तप्ताम् मलसम्कुलमूर्धजाम् ।। ५-१७-१९।।
Slōka 20 / श्लोक २०
क्षीणपुण्याम् च्युताम् भूमौ ताराम् निपतितामिव ।
चारित्रव्यपदेशाड्यां भर्तृदर्शनदुर्गताम् ।। ५-१७-२०।।
Slōka 21 / श्लोक २१
भूषणैरुत्तमोर्हीनाम् भर्तृवात्सल्यभूषणाम् ।
राक्षसाधिपसम्रुद्धाम् बन्धुभिश्च विना कृताम् ।। ५-१७-२१।।
Slōka 22 / श्लोक २२
वियूथाम् सिम्हसम्रुद्धाम् बद्धाम् गजवधूमिव ।
चन्द्ररेखाम् पयोदान्ते शारदाब्रैरिवावृताम् ।। ५-१७-२२।।
Slōka 23 / श्लोक २३
क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ।
स ताम् भर्तवशे युक्तामयुक्ताम् राक्षसीवशे ।। ५-१७-२३।।
Slōka 24 / श्लोक २४
अशोकवनिकामध्ये शोकसागरमाप्लुताम् ।
ताभिः परिवृताम् तत्र सग्रहामिव रोहिणीम् ।। ५-१७-२४।।
Slōka 25 / श्लोक २५
ददर्श हनुमान् देवीम् लतामकुसुमामिव ।
सा मलेन च दिग्धाङ्गीवपुषा चाप्यलंकृता ।। ५-१७-२५।।
Slōka 26 / श्लोक २६
मृणाली पङ्कदिग्धेव विभाति च न भाति च ।
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ।। ५-१७-२६।।
Slōka 27 / श्लोक २७
संवृताम् मृगशाबाक्षीं ददर्श हनुमान् कपिः ।
ताम् देवीं दीनवदनामदीनां भर्तृतेजसा ।। ५-१७-२७।।
Slōka 28 / श्लोक २८
रक्षिताम् स्वेन शीलेन सीतामसितलोचनाम् ।
ताम् दृष्ट्वा हनुमान् सीताम् मृगशाबनिभेक्षणाम् ।मृगकन्यामिव त्रस्ताम् वीक्षमाणाम् समन्ततः ।। ५-१७-२८।।
Slōka 29 / श्लोक २९
दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः ।
सम्घातमिव शोकानाम् दुःखस्योर्मिमिवोथिताम् ।। ५-१७-२९।।
Slōka 30 / श्लोक ३०
ताम् क्षमां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ।
प्रहर्षमतुलम् लेभे मारुतिः प्रेक्ष्य मैथिलीम् ।। ५-१७-३०।।
Slōka 31 / श्लोक ३१
हर्षजानि च सोऽश्रूणि ताम् दृष्ट्वा मदिरेक्षणाम् ।
मुमुचे हनुमांस्तत्र नमश्चक्रे च राघवम् ।। ५-१७-३१।।
Slōka 32 / श्लोक ३२
नमस्कृत्वा रामाय लक्ष्मणाय च वीर्यवान् ।
सीतादर्शनसम्हृष्टो हनुमान् सम्वृतोऽभवत् ।। ५-१७-३२