युद्धकाण्डम्
Chapter 27 / सर्गः २७
Slōka 1 / श्लोक १
ताम्स्तु ते सम्प्रक्ष्यामि प्रेक्षमाणस्य यूथपान् ।
राघव अर्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥६-२७-१॥।।
Slōka 2 / श्लोक २
स्निग्धा यस्य बहु श्यामा बाला लान्गूलम् आश्रिताः ।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२७-२॥।।
Slōka 3 / श्लोक ३
प्रगृहीताः प्रकाशन्ते सूर्यस्य इव मरीचयः ।
पृथिव्याम् च अनुकृष्यन्ते हरो नाम एष यूथपः ॥६-२७-३॥।।
Slōka 4 / श्लोक ४
यम् पृष्ठतो अनुगच्चन्ति शतशो अथ सहस्रशः ।
वृक्षानुद्यम्य सहसा लङ्का रोहणतत्पराः ॥६-२७-४॥।।
Slōka 5 / श्लोक ५
यूथपा हरिराजस्य किम्कराः समुपस्थिताः ।
नीलान् इव महामेघाम्स् तिष्ठतो याम्स् तु पश्यसि ॥६-२७-५॥।।
Slōka 6 / श्लोक ६
असितान् जन सम्काशान् युद्धे सत्य पराक्रमान् ।
असम्ख्येयान् अनिर्देश्यान् परम् पारम् इव उदधेः ॥६-२७-६॥।।
Slōka 7 / श्लोक ७
पर्वतेषु च ये केचिद् विषमेषु नदीषु च ।
एते त्वाम् अभिवर्तन्ते राजन्न् ऋष्काः सुदारुणाः ॥६-२७-७॥।।
Slōka 8 / श्लोक ८
एषाम् मध्ये स्थितो राजन् भीम अक्षो भीम दर्शनः ।
पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥६-२७-८॥।।
Slōka 9 / श्लोक ९
ऋक्षवन्तम् गिरि श्रेष्ठम् अध्यास्ते नर्मदाम् पिबन् ।
सर्व ऋक्षाणाम् अधिपतिर् धूम्रो नाम एष यूथपः ॥६-२७-९॥।।
Slōka 10 / श्लोक १०
यवीयान् अस्य तु भ्राता पश्य एनम् पर्वत उपमम्भ्रात्रा समानो रूपेण विशिष्टस् तु पराक्रमे ॥६-२७-१०॥।
।
Slōka 11 / श्लोक ११
स एष जाम्बवान् नाम महायूथप यूथपः ।
प्रशान्तो गुरु वर्ती च सम्प्रहारेष्व् अमर्षणः ॥६-२७-११॥।।
Slōka 12 / श्लोक १२
एतेन साह्यम् सुमहत् कृतम् शक्रस्य धीमता ।
देव असुरे जाम्बवता लब्धाः च बहवो वराः ॥६-२७-१२॥।।
Slōka 13 / श्लोक १३
आरुह्य पर्वत अग्रेभ्यो महाअभ्र विपुलाः शिलाः ।
मुन्चन्ति विपुल आकारा न मृत्योर् उद्विजन्ति च ॥६-२७-१३॥।।
Slōka 14 / श्लोक १४
राक्षसानाम् च सदृशाः पिशाचानाम् च रोमशाः ।
एतस्य सैन्ये बहवो विचरन्ति अग्नि तेजसः ॥६-२७-१४॥।।
Slōka 15 / श्लोक १५
यम् त्व् एनम् अभिसम्रब्धम् प्लवमानम् इव स्थितम् ।
प्रेक्षन्ते वानराः सर्वे स्थितम् यूथप यूथपम् ॥६-२७-१५॥।।
Slōka 16 / श्लोक १६
एष राजन् सहस्र अक्षम् पर्युपास्ते हरि ईश्वरः ।
बलेन बल सम्पन्नो रम्भो नाम एष यूथपः ॥६-२७-१६॥।।
Slōka 17 / श्लोक १७
यः स्थितम् योजने शैलम् गच्चन् पार्श्वेन सेवते ।
ऊर्ध्वम् तथैव कायेन गतः प्राप्नोति योजनम् ॥६-२७-१७॥।।
Slōka 18 / श्लोक १८
यस्मान् न परमम् रूपम् चतुष्पादेषु विद्यते ।
श्रुतः सम्नादनो नाम वानराणाम् पितामहः ॥६-२७-१८॥।।
Slōka 19 / श्लोक १९
येन युद्धम् तदा दत्तम् रणे शक्रस्य धीमता ।
पराजयः च न प्राप्तः सो अयम् यूथप यूथपः ॥६-२७-१९॥।।
Slōka 20 / श्लोक २०
यस्य विक्रममाणस्य शक्रस्य इव पराक्रमः ।
एष गन्धर्व कन्यायाम् उत्पन्नः कृष्ण वर्त्मना ॥६-२७-२०॥।।
Slōka 21 / श्लोक २१
तत्र देवासुरे युद्धे साह्यार्थम् त्रिदिवौकसाम् ।
यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥६-२७-२१॥।।
Slōka 22 / श्लोक २२
यो राजा पर्वत इन्द्राणाम् बहु किम्नर सेविनाम् ।
विहार सुखदो नित्यम् भ्रातुस् ते राक्षस अधिप ॥६-२७-२२॥।।
Slōka 23 / श्लोक २३
तत्र एष वसति श्रीमान् बलवान् वानर ऋषभः ।
युद्धेष्व् अकत्थनो नित्यम् क्रथनो नाम यूथपः ॥६-२७-२३॥।।
Slōka 24 / श्लोक २४
वृतः कोटि सहस्रेण हरीणाम् समवस्थितः ।
एषैवाशम्सते लङ्काम् स्वेनानीकेन मर्दितुम् ॥६-२७-२४॥।।
Slōka 25 / श्लोक २५
यो गङ्गामनुपर्येति त्रासयन् गजयूथपान् ।
हस्तिनाम् वानराणाम् च पूर्ववैरमनुस्मरन् ॥६-२७-२५॥।।
Slōka 26 / श्लोक २६
एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः ।
गजान् रोधयते वन्यानारुजम्श्च महीरुहान् ॥६-२७-२६॥।।
Slōka 27 / श्लोक २७
हरीणाम् वाहिनी मुख्यो नदीम् हैमवतीम् अनु ।
उशीर बीजम् आश्रित्य पर्वतम् मन्दर उपमम् ॥६-२७-२७॥।।
Slōka 28 / श्लोक २८
रमते वानर श्रेष्ठो दिवि शक्र इव स्वयम् ।
एनम् शत सहस्राणाम् सहस्रम् अभिवर्तते ॥६-२७-२८॥।।
Slōka 29 / श्लोक २९
वीर्यविक्रमदृप्तानाम् नर्दताम् बाहुशालिनाम् ।
स एष नेता न्हैतेषाम् वानराणाम् महात्मनम् ॥६-२७-२९॥।।
Slōka 30 / श्लोक ३०
स एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः ।
वातेन इव उद्धतम् मेघम् यम् एनम् अनुपश्यसि ॥६-२७-३०॥।।
Slōka 31 / श्लोक ३१
अनीकमपि सम्रब्धम् वानराणाम् तरस्विनाम् ।
उद्धूतमरुणाभासम् पवनेन समन्ततः ॥६-२७-३१॥।।
Slōka 32 / श्लोक ३२
विवर्तमानम् बहुशो यत्र एतद् बहुलम् रजः ।
एते असित मुखा घोरा गो लान्गूला महाबलाः ॥६-२७-३२॥।।
Slōka 33 / श्लोक ३३
शतम् शत सहस्राणि दृष्ट्वा वै सेतु बन्धनम् ।
गो लान्गूलम् महावेगम् गव अक्षम् नाम यूथपम् ॥६-२७-३३॥।।
Slōka 34 / श्लोक ३४
परिवार्य अभिवर्तन्ते लंकाम् मर्दितुम् ओजसा ।
भ्रमर आचरिता यत्र सर्व काम फल द्रुमाः ॥६-२७-३४॥।।
Slōka 35 / श्लोक ३५
यम् सूर्य तुल्य वर्ण आभम् अनुपर्येति पर्वतम् ।
यस्य भासा सदा भान्ति तद् वर्णा मृग पक्षिणः ॥६-२७-३५॥।।
Slōka 36 / श्लोक ३६
यस्य प्रस्थम् महात्मानो न त्यजन्ति महर्षयः ।
सर्वकामफला वृक्षाः सर्वे फलसमन्विताः ॥६-२७-३६॥।।
Slōka 37 / श्लोक ३७
मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे ।
तत्र एष रमते राजन् रम्ये कान्चन पर्वते ॥६-२७-३७॥।।
Slōka 38 / श्लोक ३८
मुख्यो वानर मुख्यानाम् केसरी नाम यूथपः ।
षष्टिर् गिरि सहस्राणाम् रम्याः कान्चन पर्वताः ॥६-२७-३८॥।।
Slōka 39 / श्लोक ३९
तेषाम् मध्ये गिरि वरस् त्वम् इव अनघ रक्षसाम् ।
तत्र एते कपिलाः श्वेतास् ताम्र आस्या मधु पिन्गलाः ॥६-२७-३९॥।।
Slōka 40 / श्लोक ४०
निवसन्ति उत्तम गिरौ तीक्ष्ण दम्ष्ट्रा नख आयुधाः ।
सिम्ह इव चतुर् दम्ष्ट्रा व्याघ्रा इव दुरासदाः ॥६-२७-४०॥।।
Slōka 41 / श्लोक ४१
सर्वे वैश्वनर समा ज्वलित आशी विष उपमाः ।
सुदीर्घ अन्चित लान्गूला मत्त मातम्ग सम्निभाः ॥६-२७-४१॥।।
Slōka 42 / श्लोक ४२
महापर्वत सम्काशा महाजीमूत निस्वनाः ।
वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः ॥६-२७-४२॥।।
Slōka 43 / श्लोक ४३
मर्दयन्तीव ते सर्वे तस्थुर्लङ्काम् समीक्ष्य ते ।
एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥६-२७-४३॥।।
Slōka 44 / श्लोक ४४
जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ।
नाम्ना पृथिव्याम् विख्यातो राजन् शत बली इति यः ॥६-२७-४४॥।।
Slōka 45 / श्लोक ४५
एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ।
विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥६-२७-४५॥।।
Slōka 46 / श्लोक ४६
रामप्रियार्थम् प्राणानाम् दयाम् न कुरुते हरिः ।
गजो गव अक्षो गवयो नलो नीलः च वानरः ।एक एक एव यूथानाम् कोटिभिर् दशभिर् वृतः ॥६-२७-४६॥।।
Slōka 47 / श्लोक ४७
तथा अन्ये वानर श्रेष्ठा विन्ध्य पर्वत वासिनः ।
न शक्यन्ते बहुत्वात् तु सम्ख्यातुम् लघु विक्रमाः ॥६-२७-४७॥।।
Slōka 48 / श्लोक ४८
सर्वे महाराज महाप्रभावाः ।
सर्वे महाशैल निकाश कायाः ।सर्वे समर्थाः पृथिवीम् क्षणेन ।कर्तुम् प्रविध्वस्त विकीर्ण शैलाम् ॥६-२७-४८॥