Star (-) Watch (-)

Ramayana

अरण्यकाण्डम्

Chapter 63 / सर्गः ६३

Slōka 1 / श्लोक १

स राज पुत्र प्रिया विहीनःशोकेन मोहेन च पीड्यमानः ।
विषादयन् भ्रातरम् आर्त रूपोभूयो विषादम्प्रविवेश तीव्रम् ॥३-६३-१॥

Slōka 2 / श्लोक २

स लक्ष्मणम् शोक वश अभिपन्नम्शोके निमग्नो विपुले तु रामः ।
उवाच वाक्यम् व्यसनानुरूपम्उष्णम् विनिःश्वस्य रुदन् स शोकम् ॥३-६३-२॥

Slōka 3 / श्लोक ३

न मत् विधो दुष्कृत कर्म कारीमन्ये द्वितीयो अस्ति वसुंधरायाम् ।
शोक अनुशोको हि परंपरायामाम् एति भिन्दन् हृदयम् मनः च ॥३-६३-३॥

Slōka 4 / श्लोक ४

पूर्वम् मया नूनम् अभीप्सितानिपापानि कर्माणि असत्कृत् कृतानि ।
तत्र अयम् अद्य पतितो विपाकोदुःखेन दुःखम् यद् अहम् विशामि ॥३-६३-४॥

Slōka 5 / श्लोक ५

राज्य प्रणाशः स्व जनैः वियोगःपितुर् विनाशो जननी वियोगः ।
सर्वानि मे लक्ष्मण शोक वेगम्आपूरयन्ति प्रविचिन्तितानि ॥३-६३-५॥

Slōka 6 / श्लोक ६

सर्वम् तु दुःखम् मम लक्ष्मण इदम्शान्तम् शरीरे वनम् एत्य क्लेशम् ।
सीता वियोगात् पुनर् अपि उदीर्णम्काष्टैः इव अग्निः सहसा प्रदीप्तः ॥३-६३-६॥

Slōka 7 / श्लोक ७

सा नूनम् आर्या मम राक्षसेन हिअभ्याहृता खम् समुपेत्य भीरुः ।
अपस्वरम् सु स्वर विप्रलापाभयेन विक्रन्दितवति अभीक्ष्णम् ॥३-६३-७॥

Slōka 8 / श्लोक ८

तौ लोहितस्य प्रिय दर्शनस्यसदा उचितौ उत्तम चंदनस्य ।
वृत्तौ स्तनौ शोणित पंक दिग्धौनूनम् प्रियाया मम न अभिभात ॥३-६३-८॥

Slōka 9 / श्लोक ९

तत् श्लक्ष्ण सु व्यक्त मृदु प्रलापम्तस्या मुखम् कुंचित केश भारम् ।
रक्षो वशम् नूनम् उपगतायान भ्राजते राहु मुखे यथा इंदुः ॥३-६३-९॥

Slōka 10 / श्लोक १०

ताम् हार पाशस्य सदा उचित अंतम्ग्रीवाम् प्रियाया मम सु व्रताया ।
रक्षांसि नूनम् परिपीतवन्तिशून्ये हि भित्वा रुधिर अशनानि ॥३-६३-१०॥

Slōka 11 / श्लोक ११

मया विहीना विजने वने यारक्षोभिः आहृत्य विकृष्यमाणा ।
नूनम् विनादम् कुररि इव दीनासा मुक्तवती आयत कान्त नेत्रा ॥३-६३-११॥

Slōka 12 / श्लोक १२

अस्मिन् मया सार्थम् उदार शीलाशिला तले पूर्वम् उपोपविष्टा ।
कान्त स्मिता लक्ष्मण जात हासात्वाम् आह सीता बहु वाक्य जातम् ॥३-६३-१२॥

Slōka 13 / श्लोक १३

गोदावरी इयाम् सरिताम् वरिष्टाप्रिया प्रियाया मम नित्य कालम् ।
अपि अत्र गच्छेत् इति चिंतयामिन एकाकिनी याति हि सा कदाचित् ॥३-६३-१३॥

Slōka 14 / श्लोक १४

पद्म आनना पद्म पलाश नेत्रापद्मानि वा आनेतुम् अभिप्रयाता ।
तत् अपि अयुक्तम् न हि सा कद्दचित्मया विना गच्छति पंकजानि ॥३-६३-१४॥

Slōka 15 / श्लोक १५

कामम् तु इदम् पुष्पित वृक्ष सण्डम्नाना विधैः पक्षि गणैः उपेतम् ।
वनम् प्रयाता नु तत् अपि अयुक्तम्एकाकिनी सा अति बिभेति भीरुः ॥३-६३-१५॥

Slōka 16 / श्लोक १६

आदित्य भो लोक क्रृत अकृत ज्ञःलोकस्य सत्य अनृत कर्म साक्षिन् ।
मम प्रिया सा क्व गता हृता वाशंसव मे शोक हतस्य सर्वम् ॥३-६३-१६॥

Slōka 17 / श्लोक १७

लोकेषु सर्वेषु न नास्ति किंचित्यत् ते न नित्यम् विदितम् भवेत् तत् ।
शंसस्व वयोः कुल शालिनीम् ताम्मृता हृता वा पथि वर्तते वा ॥३-६३-१७॥

Slōka 18 / श्लोक १८

इति इव तम् शोक विधेय देहम्रामम् विसंज्ञम् विलपंतम् एव ।
उवाच सौमित्रिःअदीन सत्त्वःन्याये स्थितः काल युतम् च वाक्यम् ॥३-६३-१८॥

Slōka 19 / श्लोक १९

शोकम् विमुंच आर्य धृतिम् भजस्वसह उत्साहता च अस्तु विमार्गणे अस्याः ।
उत्साहवन्तो हि नरा न लोकेसीदन्ति कर्मसु अति दुष्करेषु ॥३-६३-१९॥

Slōka 20 / श्लोक २०

इति इव सौमित्रिम् उदग्र पौरुषम्ब्रुवन्तम् आर्तो रघु वंश वर्धनः ।
न चिंतयामास धृतिम् विमुक्तवान्पुनः च दुःखम् महत् अभ्युपागमत् ॥३-६३-२०॥