बालकाण्डम्
Chapter 36 / सर्गः ३६
Slōka 1 / श्लोक १
उक्त वाक्ये मुनौ तस्मिन् उभौ राघव लक्ष्मणौ ।
प्रतिनंद्य कथाम् वीरौ ऊचतुः मुनि पुंगवम् ॥१-३६-१॥
Slōka 2 / श्लोक २
धर्म युक्तम् इदम् ब्रह्मन् कथितम् परमम् त्वया ।
दुहितुः शैल राजस्य ज्येष्ठाय वक्तुम् अर्हसि ।विस्तरम् विस्तरज्ञो असि दिव्य मानुष संभवम् ॥१-३६-२॥
Slōka 3 / श्लोक ३
त्रीन् पथो हेतुना केन पावयेत् लोक पावनी ।
कथम् गङ्गा त्रिपथगा विश्रुता सरित् उत्तमा ॥१-३६-३॥
Slōka 4 / श्लोक ४
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ।
तथा ब्रुवति काकुत्स्थे विश्वामित्रः तपोधनः ॥१-३६-४॥
Slōka 5 / श्लोक ५
निखिलेन कथाम् सर्वाम् ऋषि मध्ये न्यवेदयत् ।
पुरा राम कृत उद्वाहः शिति कण्ठो महा तपाः ॥१-३६-५॥
Slōka 6 / श्लोक ६
दृष्ट्वा च भगवान् देवीम् मैथुनाय उपचक्रमे ।
तस्य संक्रीडमानस्य महादेवस्य धीमतः ।शितिकण्ठस्य देवस्य दिव्यम् वर्ष शतम् गतम् ॥१-३६-६॥
Slōka 7 / श्लोक ७
न च अपि तनयो राम तस्याम् आसीत् परंतप ।
सर्वे देवाः समुद्युक्ताः पितामह पुरोगमाः ॥१-३६-७॥
Slōka 8 / श्लोक ८
यत् इह उत्पद्यते भूतम् कः तत् प्रतिसहिष्यति ।
अभिगम्य सुराः सर्वे प्रणिपत्य इदम् अब्रुवन् ॥१-३६-८॥
Slōka 9 / श्लोक ९
देव देव महादेव लोकस्य अस्य हिते रत ।
सुराणाम् प्रणिपातेन प्रसादम् कर्तुम् अर्हसि ॥१-३६-९॥
Slōka 10 / श्लोक १०
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।
ब्राह्मेण तपसा युक्तो देव्या सह तपः चर ॥१-३६-१०॥
Slōka 11 / श्लोक ११
त्रैलोक्य हित काम अर्थम् तेजः तेजसि धारय ।
रक्ष सर्वान् इमान् लोकान् न अलोकम् कर्तुम् अर्हसि ॥१-३६-११॥
Slōka 12 / श्लोक १२
देवतानाम् वचः श्रुत्वा सर्व लोक महेश्वरः ।
बाढम् इति अब्रवीत् सर्वान् पुनः च इदम् उवाच ह ॥१-३६-१२॥
Slōka 13 / श्लोक १३
धारयिष्यामि अहम् तेजः तेजसि एव सह उमया ।
त्रिदशाः पृथिवी चैव निर्वाणम् अधिगच्छतु ॥१-३६-१३॥
Slōka 14 / श्लोक १४
यद् इदम् क्षुभितम् स्थानात् मम तेजो हि अनुत्तमम् ।
धारयिष्यति कः तत् मे ब्रुवन्तु सुर सत्तमाः ॥१-३६-१४॥
Slōka 15 / श्लोक १५
एवम् उक्ताः ततो देवाः प्रत्यूचुर् वृषभ ध्वजम् ।
यत् तेजः क्षुभितम् हि अद्य तद् धरा धारयिष्यति ॥१-३६-१५॥
Slōka 16 / श्लोक १६
एवम् उक्तः सुर पतिः प्रमुमोच महाबलः ।
तेजसा पृथिवी येन व्याप्ता स गिरि कानना ॥१-३६-१६॥
Slōka 17 / श्लोक १७
ततो देवाः पुनर् इदम् ऊचुः च अपि हुताशनम् ।
आविश त्वम् महातेजो रौद्रम् वायु समन्वितः ॥१-३६-१७॥
Slōka 18 / श्लोक १८
तद् अग्निना पुनर् व्याप्तम् संजातम् श्वेत पर्वतम् ।
दिव्यम् शरवणम् चैव पावक आदित्य संनिभम् ॥१-३६-१८॥
Slōka 19 / श्लोक १९
यत्र जातो महातेजाः कार्तिकेयो अग्नि संभवः ।
अथ उमाम् च शिवम् चैव देवाः स ऋषि गणाः तदा ॥१-३६-१९॥
Slōka 20 / श्लोक २०
पूजयामासुः अत्यर्थम् सुप्रीत मनसः ततः ।
अथ शैल सुता राम त्रिदशान् इदम् अब्रवीत्।समन्युः अशपत् सर्वान् क्रोध संरक्त लोचना ।यस्मात् निवारिता च अहम् संगता पुत्र काम्यया ॥१-३६-२०॥
Slōka 21 / श्लोक २१
अपत्यम् स्वेषु दारेषु न उत्पदयितुम् अर्हथ ।
अद्य प्रभृति युष्माकम् अप्रजाः सन्तु पत्नयः ॥१-३६-२१॥
Slōka 22 / श्लोक २२
एवम् उक्त्वा सुरान् सर्वान् शशाप पृथिवीम् अपि ।
अवने न एक रूपा त्वम् बहु भार्या भविष्यसि ॥१-३६-२२॥
Slōka 23 / श्लोक २३
न च पुत्र कृताम् प्रीतिम् मत् क्रोध कलुषीकृता ।
प्राप्स्यसि त्वम् सुदुर्मेधे मम पुत्रम् अनिच्छती ॥१-३६-२३॥
Slōka 24 / श्लोक २४
तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिः तदा ।
गमनाय उपचक्राम दिशम् वरुण पालिताम् ॥१-३६-२४॥
Slōka 25 / श्लोक २५
स गत्वा तप आतिष्ठत् पार्श्वे तस्य उत्तरे गिरेः ।
हिमवत् प्रभवे शृंगे सह देव्या महेश्वरः ॥१-३६-२५॥
Slōka 26 / श्लोक २६
एष ते विस्तरो राम शैल पुत्र्या निवेदितः ।
गन्गायाः प्रभवम् चैव शृणु मे सह लक्ष्मण ॥१-३६-२६॥